From Wikipedia, the free encyclopedia
तिरुनेल्वेलीमण्डलं (Tirunelveli District) (तमिऴ्: திருநெல்வேலிமாவட்டம்) दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं तिरुनेल्वेलीनगरम् । अस्य मण्डलस्य वैशिष्ट्यम् इदं यत् तमिऴसाहित्ये उल्लिखिताः पञ्चविधाः भौगोलोकप्रदेशाः अपि अत्र दृश्यन्ते । कुरिञ्जि (पर्वताः), मुल्लै (वनानि), मरुदम् (व्रीहिक्षेत्राणि), नैदल् (समुद्रतीरं), पालै (मरुभूमिः) च । तिरुनेल्वेलिमण्डलं १७९० तमवर्षस्य सेप्टम्बरमासस्य प्रथमे दिने ब्रिटिश् सर्वकारस्य पक्षतः प्राचीन इण्डिया कम्पेन्या निर्मितम् । तदानीन्तने तिरुनेल्वेलीमण्डले अद्यतने तिरुनेल्वेली, तूत्तुकुडिमण्डले, विरुदुनगरमण्डलस्य, रामनाथपुरमण्डलस्य केचन भागाः च आसन् । राज्यस्य मण्डलेषु विस्तारदृष्ट्या अस्य मण्डलस्य द्वितीयं स्थानम् (विऴुप्पुरमण्डलं प्रथमम्) । तमिऴ् अभिजनाः इदं मण्डलं प्रीत्या ‘नेल्लै’ इति सूचयन्ति ।
तिरुनेल्वेलीमण्डलम् திருநெல்வேலி மாவட்டம் | |
---|---|
मण्डलम् | |
Nickname(s): नेल्लै | |
भारतस्य तमिळ्नाडु राज्ये तिरुनेल्वेलीमण्डलम् | |
देशः | भारतम् |
राज्यम् | तमिळ्नाडु |
मण्डलस्य रचना | सेप्टेम्बर् ०१, १७९० |
Seat | तिरुनेल्वेली |
Government | |
• मण्डलशसकः | डा. आर्. सेल्वराज्,IAS |
Area | |
• Total | ६,८२३ km२ |
Population (२०११)[1] | |
• Total | ३०,७२,८८० |
• Density | ४१०.५/km२ |
भाषाः | |
• व्यावहारिकाः | तमिळ् |
Time zone | UTC+5:30 (भारतीयकालमानम् - IST) |
पत्राचारसङ्केतः-PIN |
627001 |
दूरवाणीसङ्केतः | 0462 |
Vehicle registration | TN-72/76 |
बृहत्नगरम् | तिरुनेल्वेलि नगरम् |
लिङ्गानुपातः | पु-49%/स्त्री-51% |
साक्षरताप्रमाणम् | 68.44% |
वृष्टिः | 814.8 मिलीमीटर (32.08 इंच) |
आपेक्षिकग्रीष्मकालिन तापमात्रा | 37 °से (99 °फ़ै) |
आपेक्षिकशीतकालिन तापमात्रा | 22 °से (72 °फ़ै) |
Website | www.nellai.tn.nic.in |
तिरुनेल्वेलीमण्डलस्य निर्माणदिनाङ्कः (सेप्टम्बर् १) तिरुनेल्वेलीदिनम् इति आचर्यते । ब्रिटिश् प्राचीन इण्डिया कम्पेन्या अस्य ‘तिन्नेवेल्लिमण्डलम्’ इति नाम कृतम् । अस्य केन्द्रस्थानम् आदौ पाळैयंकोट्टैपत्तने आसीत्, यत्र पाळैयकाराणां विरुद्धं कार्याचरणसमये कम्पेन्याः सेनाकेन्द्रम् आसीत् ।
तिरुनेल्वेलीमण्डलस्य नामकरणे कारणत्रयं दृश्यते । मण्डलस्य बृहत्तमं नगरं तिरुनेल्वेलिः इत्येकम् । नायकानां नवाबानां च प्रशासने अयं प्रदेशः ‘तिरुनेल्वेलीसीमै’ इति ख्यातः इति द्वितीयम् । पाण्ड्यसाम्राज्यस्य दक्षिणराजधानी आसीद् इयम् इति तृतीयम् । मण्डले तिरुनेल्वेली पाळैयंकोट्टैनगरे यमलनगरत्वेन अभिवृद्धौ स्तः ।
विंशशतकस्य आदौ तिरुनेल्वेलीमण्डलस्य भागान् पृथक्कृत्य रामनाथपुरमण्डलं, विरुदुनगरमण्डलं च निर्मितम् । १९८६ तमे वर्षे पुनः इदं मण्डलं प्रशासनसौकर्यार्थं द्वेधा विभक्तम् । चिदम्बरनार् (अद्यतनः तूत्तुकुडिः) मण्डलम् एकम्, नेल्लै, कट्टबोम्मन् इत्यपरम् । ततः अस्य ‘तिरुनेल्वेली, कट्टबोम्मन-मण्डलम्’ इति , ततः पुनः ‘तिरुनेल्वेलीमण्डलम्’ इति नाम अभवत् ।
तिरुनेल्वेलीमण्डलं तमिऴ्नाडुराज्यस्य दक्षिणभागे अस्ति । अस्य उत्तरभागे विरुदुनगरमण्डलं, पश्चिमभागे पश्चिमघट्टपर्वताः, दक्षिणभागे कन्याकुमारीमण्डलं, पूर्वभागे तूत्तुक्कुडिमण्डलं च अस्ति । मण्डलस्य विस्तारः ६,८२३ चतुरश्रकिलोमीटर् ।
मण्डले पश्चिमघट्टस्य पर्वतप्रदेशाः सन्ति । ताम्रपर्णीनदी, अन्याः काश्चन लघ्व्यः नद्यः अत्र प्रवहन्ति । मण्डले बहवः रमणीयाः जलधाराः सन्ति । सर्वेषु ऋतुषु अस्मिन् मण्डले वृष्टिः भवति । वृष्टेः प्रमाणं ९५३.१ मिल्लीमीटर् आसीत्। २००५-२००६ वर्षे ईशान्यप्रावृषः, नैर्ऋत्यप्रावृषः च प्रभावेण अत्र वृष्टिः भवति । पश्चिमघट्टेभ्यः प्रवहन्तीनां पच्चैयार् प्रभृतीनां बहूनां नदीनां जलं कृषिकार्योपयोगि भवति । पच्चैयारनदी ताम्रपर्ण्याः उपनदी । ताम्रपर्णी, मणिमुत्तारुनद्योः बहवः जलबन्धाः सति, यत्र सङ्गृहीतं जलं कृषिकार्ये, विद्युदुत्पादने च उपयुज्यते । चित्तारनदी अपि अस्मिन् मण्डले प्रवहति । कोर्टल्लं जलधारा, मणिमुत्तारजलधारा च मण्डलस्य जलधारासु प्रमुखे ।
२०११ तमवर्षस्य जनगणनानुगुणं मण्डलस्य जनसंख्या ३,०७२,८८० । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ११६ तमं स्थानम् । मण्डले जनसान्द्रता प्रतिचतुरसश्किलोमीटर् ४५८ (११९० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धेः प्रमाणं १३.६६% आसीत् । मण्डले पुं, स्त्री अनुपातः १०००:१०२४, साक्षरताप्रमाणं च ८२.९२% अस्ति ।
तिरुनेल्वेलीमण्डले द्वादश उपमण्डलानि सन्ति । तानि -
१) तिरुनेल्वेलिः
२) पाळैयंकोट्टै
३) शङ्करन्कोयिलः
४) अम्बासमुद्रम्
५) नङ्गुनेरिः
६) कडैयनल्लूरुः
७) राधापुरम्
८) तेङ्कासिः
९) शेङ्कोट्टै
१०) अलङ्गुळम्
११) वीरकेरलम्बुदूरुः
१२) शिवगिरिः
इदं कृषिप्रधानमण्डलम् । प्रमुखतया तण्डुलानि, नारिकेलाः, कदल्यः, सम्बारपदार्थाः च अत्र रुह्यन्ते । समुद्रतीरे स्थितत्वात् मत्स्यग्रहणोद्यमः अपि अत्र प्रामुख्यं भजते । मण्डले ४०७ खनयः सन्ति । लैम्स्टोन्, ग्रानैट्, गार्नेट् साण्ड् इत्येते खनिजाः अत्र उत्पाद्यन्ते । वस्त्रोद्यमः, आहारपदार्थोद्यमः, अरण्यपदार्थोद्यमः च अत्र अभिवृद्धः अस्ति । नङ्गुनेरिप्रदेशे विशिष्ट आर्थिकवलयः २००१ तमे वर्षे आरब्धः ।
अयं देवालयः तिरुनेल्वेलीपत्तने अस्ति । अयं देवालयः क्रिस्तीये ७०० वर्षे शिवभक्तस्य तिरुज्ञानसम्बन्धस्य कृतौ उल्लिखितः अस्ति । आदौ शिवस्य शक्त्याः च अत्र भिन्नौ देवालयौ पाण्ड्यैः निर्मितौ आस्ताम् । १७ शतके अनयोः देवालयोः सन्धिरूपः ‘सेङ्गलिमण्डपः’ निर्मितः । देवालयस्य गोपुराणि अपि सप्तदशशतकस्य प्रारम्भे निर्मितानि । दक्षिणभारतस्य बृहत्तमेषु देवालयेषु अयम् अन्यतमः ।
राधापुरौपमण्डले कार्त्तिकेयस्य पत्न्याः श्रीवल्ल्याः नाम्ना ज्ञातम् इदं पत्तनम् अस्ति । अत्र मुरुगस्य देवालयः अस्ति । वल्लियूरुकुऴम् इति ज्ञातः तडागः अपि अस्ति ।
तिरुनेल्वेलीपत्तनात् ३१ किलोमीटर् दक्षिणे विद्यमाने अस्मिन् पत्तने विष्णोः देवालयः अस्ति । महाविष्णुः अत्र तोटाद्रिनाथरूपेण आराध्यते । अयं देवालयः वनमामलैमठेन निरुह्यते । वैष्णवसम्प्रदायस्य दिव्यदेशेषु इदम् अन्यतमम् ।
पाळैयं कोट्टैतः १२ किलोमीटर् दूरे अयं ग्रामः अस्ति । अत्र ताम्रपर्णीनद्यां निर्मितः २.५ किलोमीटर् दीर्घः जलबन्धः अस्ति ।
अस्मिन् पत्तने विद्यमानः भूमिनाथस्वामिदेवालयः तमिऴ्नाडुराज्यस्य प्राचीनतमेषु देवालयेषु अन्यतमः । अत्र सुन्दरराजपेरुमाळ्देवालयः, कडयम्मन् देवालयः, सन्तानमारियम्मन् देवालयः, रङ्गनाथस्वामिदेवालयः चापि सन्ति ।
इदं व्याघ्रधाम १९६२ तमे वर्षे निर्मितम् । अस्य विस्तारः ९०० चतुरश्रकिलोमीटर् । तिरुनेल्वेलीतः ४५ किलोमीटर् पश्चिमतः कळक्काडुपत्तनसमीपे इदं व्याघ्रधाम अस्ति । अत्र व्याघ्राः, चित्रव्याघ्राः, वन्यश्वानाः, गजाः, भिन्नप्रभेदानां हरिणाः, वनसूकराः, भल्लूकाः, मर्कटाः, चिक्रोडाः, मकराः च द्रष्टुं शक्याः ।
हरिहरयोः ऐक्यप्रतिपादके अस्मिन् देवालये शङ्करनारयणनामकः देवः अर्च्यते, यस्य शरीरे अर्धभागः हरेः, अपरार्धः च हरस्य । देवी गोमती अम्बाळ् । अयं देवालयः क्रिस्तीये ९०० तमे वर्षे उक्रमपण्ड्येन निर्मितः ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.