From Wikipedia, the free encyclopedia
केचिदाहुः—ज्ञानसहभूरेवार्थो भोग्यत्वात्सुखादिवदिति । त एतया द्वारा साधारणत्वं बाधमानाः पूर्वोत्तरेषु क्षणेषु वस्तुस्वरूपमेवापह्नुवते— एकचित्ततन्त्रं चेत्वस्तु स्यात्, तदा चित्ते व्यग्रे निरुद्धे वा स्वरूपमेव तेनापरामृष्टामन्यस्याविषयीभूतमप्रमाणकमगृहीतस्वभावकं केनचित्, तदानीं किं तत्स्यात्? सम्बध्यमानं च पुनश्चित्तेन कुतुत्पद्येत ? ये चास्यानुपस्थिता भागास्ते चास्य न स्युः, एवं नास्ति पृष्ठमित्युदरमपि न गृह्येत । तस्मात्स्वतन्त्रोऽर्थः सर्वपुरुषसाधारणः । स्वतन्त्राणि च चित्तानि प्रतिपुरुषं प्रवर्तन्ते । तयोः सम्बन्धादुपलब्धिः पुरुषस्य भोग इति ॥१६॥
योगदर्शनम्
विकिस्रोतसि 4.16 न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात्-सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते । |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.