एकः भारतीयः राजनेता From Wikipedia, the free encyclopedia
विजय रूपाणी इत्येषः भारतीयजनतापक्षस्य कश्चन राजनेता । पश्चिमराजकोटस्य प्रतिनिधित्वेन एषः गुजरातविधानसभायाः सदस्यः । २०१६ वर्षस्य अगस्त-मासस्य सप्तमात् (०७/०८/२०१६) सः गुजरातराज्यस्य षोडशः मुख्यमन्त्रित्वेन कार्यभारम् अङ्ग्यकरोत् ।[1] अद्यत्वे सः भारतीजनातपक्षस्य राज्याध्यक्षः अपि ।[2]
विजय रूपाणी | |
---|---|
षोडशः मुख्यमन्त्री | |
Incumbent | |
Assumed office ७/८/२०१६ | |
Preceded by | आनन्दीबेन पटेल |
Constituency | पश्चिमराजकोट-नगरम् |
Assembly Member for पश्चिमराजकोट-नगरम् | |
Incumbent | |
Assumed office १९/१०/२०१४ | |
गुजरातराज्यं, राज्यसभा-तः सांसदः | |
In office २००६ – २०१२ | |
व्यैय्यक्तिकसूचना | |
Born |
रङ्गून, बर्मा | २ १९५६
Nationality | भारतीयः |
Political party | भारतीयजनतापक्षः |
Spouse(s) | अञ्जलि रूपाणी |
Children | एकः पुत्रः, एका पुत्री च |
Parents | रमणिकलाल, मायाबेन |
Residence | राजकोट-महानगरम् |
Occupation | राजनेता |
Cabinet | गुजरातसर्वकारः |
Portfolio | परिवहनं, जलापूर्तिः, श्रमवृत्तिमन्त्रालयः (नवम्बर २०१४ - अगस्त २०१६) |
१९५६ तमस्य वर्षस्य अगस्तमास्य द्वितीये (०२/०८/१९५६) दिनाङ्के म्यानमार-देशस्य रङ्गून-महानगरेऽभवत् (पुरा, रङ्गून, बर्मा) । [2] तस्य पितुः नाम रमणिकलाल, मातुश्च नाम मयाबेन इति । जैनधर्मस्य [3][4] अनुयायी वणिक् रमणिकलालः सपरिवारं १९६० तमे वर्षे बर्मादेशात् भारतदेशस्य राजकोट-महानगरं प्रति स्थानान्तरणम् अकरोत् । विजयः धर्मेन्द्रसिंहमहाविद्यालयात् स्नातकं, सौराष्ट्रविश्वविद्यालयाच्च एल्. एल्. बी. इत्युपाध्यौ अलभत । [5][2][6][7]
अखिलभारतीयविद्यार्थिपरिषदि (ABVP) सक्रियः विजयः स्वस्य सार्वजनिकजीवनस्य आरम्भम् अकरोत् । [4] ततः सः राष्ट्रियस्वयंसेवकसङ्घेन, जनसङ्घेन च सहापि सँल्लग्नः । भारतीयजनातपक्षस्य स्थापनायाः कालाद् अर्थात् १९७१ तमाद्वर्षाद् विजयः पक्षस्य कार्यकर्ता अस्ति । [3][4][7] १९७६ तमस्य वर्षस्य राष्ट्रियापत्कालसमये विजयः क्रमेण भावनगरस्य, भुज-महानगस्य च कारागारे बन्दी आसीत् । तयोः कारागरायोः सः ११ मासं यावद् आसीत् । [4][7] विजयः १९७८ तमात् वर्षात् १९८१ पर्यन्तं राष्ट्रियस्वयंसेवकसङ्घस्य प्रचारकोऽपि आसीत् । १९८७ तमे वर्षे राजकोटमहानगरपालिकायां विधायकत्वेन चितः सः जलनिकाससमितेः अध्यक्षः अभवत् । ततः समनन्तरे वर्षे सः राजकोटमहानगरपालिकायाः स्थायिसमितेः अध्यक्षः अभवत् । तस्मिन् अध्यक्षपदे सः १९८८ तः १९९६ पर्यन्तम् आरूढः । मध्ये १९९५ तमे वर्षे तस्य राजकोटमहानगरपालिकायाः स्थायिसमितेः अध्यक्षत्वेन पुनः चयनं जातम् । ततः सः १९९६ तः १९९७ पर्यन्तं राजकोटमहानगरस्य नगरपौरत्वेन (mayor) अपि कार्यम् अकरोत् । ततः १९९८ तमे वर्षे भाजप-पक्षस्य गुजरातराज्यविभागस्य विभागाध्यक्षः अभवत् । यदा केशुभाई पटेल इत्येषः गुजरातराज्यस्य मुख्यमन्त्री आसीत्, तदा विजयः घोषणापत्रसमितेः आध्यक्षम् अवहत् । २००६ तमे वर्षे गुजरातपर्टनवभागस्य अध्यक्षः जातः । २००६ - २०१२ सः राज्यसभायाः सदस्योऽपि आसीत् । [4][7] यदा नरेन्द्रमोदी गुजरातराज्यस्य मुख्यमन्त्री आसीत्, तदा विजयः भाजप-गुजरातविभागस्य आध्यक्षं चतुर्वारं, गुजरातमहानगरपालिकावित्तविभागस्य आध्यक्षम् एकवारं (२०१३) अवहत् । [6][7][8]
२०१६ तमस्य वर्षस्य फरवरी-मासस्य एकोनविंशतितमे (१९/०२/२०१६) दिनाङ्के विजयः भाजप-दलस्य गुजरातविभागस्य अध्यक्षो जातः । तस्मात् पूर्वं तस्मिन् पदे आर्. सी. फाल्डु इत्येषः आरूढः आसीत् । [6][7] २०१४ अगस्तमासे यदा वजुभाई इत्येषः गुजरातविधानसभायाः वक्ता पश्चिमराजकोटस्य विधायकत्वेन त्यागपत्रं दत्त्वा कर्णाटक-राज्यस्य राज्यपालः अभवत्, [9] तदा भाजप-दलद्वारा विजयस्य नामाङ्कनं तद्रिक्तस्थानं पूरयितुम् अभवत् । [2] २०१४ तमस्य वर्षस्य अक्तूबर-मासस्य एरकोनविंशे (१९/१०/२०१४) दिनाङ्के विधायकस्य पदस्य निर्वाचने विजयः बहुमतेन जितः । [3][6][10]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.