पश्चिमबङ्ग(পশ্চিমবঙ্গ) भारतस्य पूर्वभागे विद्यमानं किञ्चन राज्यम् अस्ति । अस्य राजधानी कोलकाता अस्ति। अत्रत्या जनसङ्ख्या ९,१०,००,००० अस्ति । बहुजनसङ्ख्यायुक्तेषु राज्येषु इदं चतुर्थस्थाने विद्यते । अस्य विस्तारः ३४,२६७ चतुरस्र कि.मी मितः अस्ति । एतत् राज्यं परितः नेपालम्, भूटानम्, बाङ्गलादेशः विद्यन्ते । उत्कल/उड़ीसा, झारखण्ड, बिहारम्, सिक्किम्, असमराज्यानि च परितः विद्यन्ते । अस्य राज्यस्य दक्षिणपार्श्वे गङ्गातीरप्रदेशः, उत्तरदिशि हिमालयपर्वतप्रदेशश्च विद्यते ।
पश्चिमबङ्गः बङ्गराज्यम् |
|
---|---|
— राज्यम् — | |
भारते पश्चिमबङ्गस्य स्थानम् | |
पश्चिमबङ्गस्य मानचित्रम् । | |
राष्ट्रम् | भारतम् |
प्रान्तः | 'ईस्ट् ईन्डिया'/'पूर्वः भारतः' |
स्थापनम् | सा.श. १९५६तमवर्षस्य नवेम्बरमासस्य प्रथमदिनम् । |
राजधानी | कलिकाता(कोलकाता) |
महानगरम् | कलिकाता(कोलकाता) |
मण्डलानि | पश्चिमबङ्गस्य मण्डलानि १९ |
सर्वकारः | |
• राज्यपालः | श्री सी.वी. आनन्द बोस[1] |
• मुख्यमन्त्रिणी | श्रीमती ममता बन्दोपाध्याय् |
• विधानसभा | अद्वितीयाशासनसभा २९५स्थानानि । |
विस्तीर्णता | |
• संहतिः | ८८,७५२ km२ |
क्षेत्रविस्तारः | त्रयोदशः |
जनसङ्ख्या (सा.श.२०११तमकाले गणिता ।)[2] | |
• संहतिः | ९,१३,४७,७३६ |
• रैङ्क् | चतुर्थम् |
भा॰मा॰स॰ (UTC+०५:३०) | |
ऐ एस् ओ ३१६६ कोड् | IN-WB |
HDI | 0.625 (medium) |
HDI rank | 19th (2005) |
साक्षरता | 77.08%[3] |
व्यावहरिकभाषा | बाङ्गलाभाषा |
जालस्थानम् | westbengal.gov.in |
^* २९४निर्वाचिताः १ अनुसूचितः |
३ शतके बङ्ग राज्यस्य महान् भागः चक्रवर्तिना अशोकेन जितः आसीत् । ४ शतके अयं भागः गुप्तसाम्राज्येन वशीकृता । १८ शतके ब्रिटिश्जनानां शासनस्य आरम्भपर्यन्तम् इदं राज्यं बहुभिः सुल्तानपदवाचैः, समर्थहिन्दुराजैश्च शासितम् । १७५७ तमे वर्षे जाते प्लास्सीसङ्ग्रामस्य अनन्तरम् अयं प्रदेशः ब्रिटिश्-ईस्ट्-इण्डियासंस्थया वशीकृतः । तेषां राजधानीत्वेन कलिकाता(कोलकाता)नगरम् आसीत् । ब्रिटिश्जनानां सुदीर्घशासनस्य कारणतः पाश्चात्यशिक्षणं, वैज्ञानिकप्रगतिः, सांस्थिकशिक्षणं, धर्मस्य सामाजिकपरिवर्तनं च जातम् । ततः -बाङ्गला -नवोदयःजातः । १९४७ तमे वर्षे स्वातन्त्र्यसङ्ग्रामस्य अनन्तरम् इदं राज्यं द्विधा विभक्तम् - भारतस्य राज्यं पश्चिमबङ्ग, पूर्वबङ्ग यच्च आदौ पाकिस्थानस्य भागः आसीत् । १९७१ तमे वर्षे बाङ्गलादेशस्य भागः जातः ।
कृषिप्रधानराज्यमिदं भारतस्य गृहोत्पादने षष्ठे स्थाने विद्यते । दशकत्रयात् साम्यवादिसर्वकारः राज्यं शास्ति । कलिकाता(कोलकाता) भारतस्य 'सांस्कृतिकराजधानी' इति प्रसिद्धा । नोबेल्प्रशस्तिविजेता विश्वकवि रवीन्द्रनाथठाक्कुरः अत्रत्यः । सङ्गीतज्ञाः चित्रनिर्मापकाः कलाविदश्च बहवः विद्यन्ते अत्र । क्रिकेट्-सासर्-क्रीडाश्च अत्र आधिक्येन दृश्यते ।
शब्दनिष्पत्तिः
'बेङ्गोल / बाङ्गाला' इत्येतस्य शब्दस्य मूलम् अज्ञातम् । अयं शब्दः वङ्ग, बङ्गनामकात् पुरातनसाम्राज्यात् प्राप्तं स्यात् इति ऊह्यते । केषुचित् संस्कृतसाहित्येषु इदं नाम श्रूयते ।
इतिहासः
पुरातत्वशोधकैः २०,००० वर्षेभ्यः पूर्वतनस्य शिलायुगस्य उपकरणानि प्राप्तानि सन्ति । अस्य प्रदेशस्य सभ्यतायाः विषये ४००० वर्षेभ्यः पूर्वतनः उल्लेखः दृश्यते -द्राविडः, टिबेटो-बार्मान्, अस्ट्रो-एशियाटिक्जनाः यदा अत्र निवसन्ति स्म तदानीन्तनं विवरणम् । आर्यजातिः आनुमानिक २५०० ख्रिस्टपूर्वाब्दे अत्र प्रवेशतिस्म | पौराणिक-उल्लेखानुगुणं वङ्गसाम्राज्यस्य भागः आसीत् अयं प्रदेशः । क्रि पू ७ शतके बिहार-बङ्गप्रदेशान् संयोज्य मगधसाम्राज्यं निर्मितम् आसीत् । महावीर-बुद्धयोः काले विद्यमानेषु चतुर्षु महासाम्राज्येषु इदम् अन्यतमं वर्तते । क्रि पू ३ शतके मौर्यसाम्राज्यस्य अशोकस्य काले मगधसाम्राज्यं बहु विस्तृतम् आसीत् । आफघानिस्थान-पार्शियाभागाः च मगधसाम्राज्ये योजिताः सन्ति ।
पुरातनग्रीक्जनैः कृतः अस्य प्रदेशस्य उल्लेखः क्रि पू १०० वर्षे उपलभ्यते - 'गङ्गारिदै' इति । इदं पदं बे ङ्गा ल स्य 'गङ्गाहृद्' इत्यस्मात् स्यात् इति भाति । बङ्गस्य सुवर्णभूम्या (बार्मा/ब्रह्मदेश, अधः थाइल्यान्ड्/ श्यामदेश्, अधः मालय्-उपद्वीप्, सुमात्रा) सह वाणिज्यसम्पर्कः आसीत् । महावंशस्य अनुगुणं वङ्गराजकुमारः विजयसिंहः लङ्कां जित्वा 'सिंहल'इति नामाङ्कनम् अकरोत् ।
३ शतकात् ६ शतकपर्यन्तं मगधसाम्राज्यं गुप्तैः शास्यते स्म । प्रथमः स्वतन्त्रशासकः आसीत् शशाङ्कः (७ शतकम्) । अग्रिम ४०० वर्षाणि यावत् बौद्ध-पालवंशेन शासनं कृतम् । ततः किञ्चित् कालं यावत् हिन्दु-सेनावंशेन शासनं कृतम् । १२ शतके सूफिप्रचारकाणाम् आगमनेन बङ्गः इस्लाम्-मतस्य प्रवेशः जातः ।
मण्डलानि
पश्चिमबङ्गलराज्ये १९ मण्डलानि सन्ति ।
सङ्केतः | मण्डलम् | केन्द्रम् | जनसङ्ख्या (२००१) | विस्तीर्णता(किमी²) | सान्द्रता(प्रती किमी²) |
---|---|---|---|---|---|
BI | बीरभूम-मण्डलम् | सिउड़ि | ३०,१२,५४६ | ४,५४५ | ६६३ |
BN | बाँकुड़ामण्डलम् | बाँकुड़ा | ३१,९१,८२२ | ६,८८२ | ४६४ |
BR | बर्धमान | बर्धमान | ६९,१९,६९८ | ७,०२४ | ९८५ |
DA | दार्जिलिं | दार्जिलिं | १६,०५,९०० | ३,१४९ | ५१० |
DD | दक्षिण दिनाजपुरम् | बालुरघाट | १५,०२,६४७ | २,१८३ | ६८८ |
HG | हुगळी | हुगळी/चुँचुड़ा | ५०,४०,०४७ | ३,१४९ | १,६०१ |
HR | हाओड़ा | हाओड़ा | ४२,७४,०१० | १,४६७ | २,९१३ |
JA | जलपाइगुड़ि | जलपाइगुड़ि | ३४,०३,२०४ | ६,२२७ | ५४७ |
KB | कोचबिहार | कोचबिहार | २४,७८,२८० | ३,३८७ | ७३२ |
KO | कलकाता | कलकाता | ४५,८०,५४४ | १८५ | २४,७६० |
MA | मालदा | इंरेज बाजार | ३२,९०,१६० | ३,७३३ | ८८१ |
ME | मेदिनीपुर | मेदिनीपुर | ९६,३८,४७३ | १४,०८१ | ६८५ |
MU | मुर्शिदाबाद | बहरमपुर | ५८,६३,७१७ | ५,३२४ | १,१०१ |
NA | नदिया | कृष्णनगर | ४६,०३,७५६ | ३,९२७ | १,१७२ |
PN | उत्तर २४ परगणा | बारासात | ८९,३०,२९५ | ४,०९५ | २,१८१ |
PS | दक्षिण २४ परगणा | आलिपुर | ६९,०९,०१५ | ९,९५५ | ६९४ |
PU | पुरुलिया | पुरुलिया | २५,३५,२३३ | ६,२५९ | ४०५ |
UD | उत्तर दीनाजपुर | रायगञ्ज | २४,४१,८२४ | ३,१८० | ७६८ |
सम्बद्धा:-विषया:
कलकाता
कलकाता भारतदेशे स्थितेषु महानगरेष्बेकमस्ति । अस्य ३०० वर्षाणाम् इतिहासः अस्ति । पूर्वदेशानां द्वारमिवास्ति एतत् कलकातानगरम् । एतन्नगरं पूर्वं भारतस्य राजधानी आसीत् । अत्र यात्रिकैः दर्शनीयानि अनेकानि स्थलानि सन्ति। एतन्नगरं वर्तमानकाले भारतवर्षस्य बृहत्तमं महानगरम् ।
हौराधूमशकटनिस्थानम्
एतत् भारतदेशे एव अत्यधिकविभागपूर्ण धूमशकटनिस्थानमस्ति । असङ्ख्याः जनाः अत्र गमनागमनं कुर्वन्ति ।
हौरासेतुः
हूग्लीनद्याः पारगमनाय सा.श.१९४३ तमे वर्षे एव निर्मितः रबीन्द्रसेतुः विविधकारणेन अत्यहभुतः अस्ति । तान्त्रिककुशलतायाः स्थानमस्ति । अस्य दीर्घता १५०० पादमिता विस्तारः ७१ पादमितः च स्तः । २७० पादोन्नते स्थले सेतुः निर्मितः अस्ति । अत्र वाहनसञ्चारार्थम् अष्टमार्गाः सन्ति । पादचारिणां कृत एव पादचरिमार्गौ स्तः ।
विद्यासागरसेतुः
नवीनः सेतुः विद्यासागर सेतुः । अयं १५२ अयसः बृहत्ताराणाम् आधारेण स्थितः । एषः सेतुः सुदृढः ८५ सहस्रजनानां भारन् वोढु समर्थः अस्ति । कोलकोता नगरे विद्यमानाना भवनेषु आङ्ग्लानां शैल्याः प्रभावः अस्ति । फेञ्जवातायनानि, वेनिषियन् ब्लौण्ड्स् वृत्ताकाराणि सोपानानि, अत्र भवनेषु दृश्यन्ते । प्रमुखमार्गोणाम नामानि अपि आङ्गलनामानि सन्ति । कानिचन नामानि उदानी परिवर्तितानि सन्ति । शतशः शिलामूर्तयः विक्टोरियासामरकस्य समीपे सङ्गृहीताः सन्ति । एत विक्टोरियन् इति वदन्ति विक्टोरिया स्मारकभवनं प्राचीनवस्तुसङ्ग्रहालयः इति प्रसिध्दम् । एषः सङ्ग्रहालयः सा.श.१९२१ तमे वर्षे आरब्धः। नगरे रौत्नहाल हैकोर्ट इण्डियाम्यूसिय इत्यादि आकर्षकाणि सन्ति ।
सस्योद्यानम्
सा.श.१७८६ तमे वर्षे स्थापितम् एतदुद्यानं १०८ हेक्तर् प्रदेशे विस्तारयुक्तमस्ति । अत्र ३० सहस्राधिकाः सस्यभेदाः सन्ति २५० वर्षप्राचीनं ९५ चतुरस्रमीटर् विस्तृतः प्रसिध्दः बटवृक्षः २६ मीटर् उन्नतः च अस्ति । अस्य परिधिः१२०० पादमिता एतत् सस्योद्यानं प्रतिदिनं सहस्रशः जनाः आगच्छन्ति । सस्योद्यानं सन्दृष्टुं प्रातः ९ वादनतः सायं ६ वादनपर्यन्तम् अवकाशः अस्ति शुष्कजातीयाः सस्यविशेषाः अपि अत्र सन्ति ।
इतरस्थानानि
कोलकातानगरे दर्शनीयानि स्थानानि अन्यानि अपि सन्ति । तेषु पोर्टविलियम्, ईडन्गार्डन्, क्रीडाङ्गणम्, अलिपुरम् पाणिसङ्ग्रहोद्यानं, सितम्बरजैनदेवालयः (नाकोड् मसीदिप्रार्थनामन्दिरं ), षाहीदमीनार् (४८.१ मीटर उन्नत), बेलूरुमठः रबीन्द्रसरोवरः विरलातारामण्डल, ठाकूरसदन इत्यादि प्रमुखानि सन्ति । चान्दपाल् घाटतः हूग्लीनद्या नौकाविहाअः कर्तुं शक्यते इदानी विज्ञान अगर (Science City) मेट्रोधूम शकटप्रवासः सन्तोषकराः आकर्षणीयाः सन्ति । विमानमार्गः कोलकाता नगरस्य देशस्य विविधैः नगरैः विमानसम्पर्कः अस्ति । धूमशकटमार्गः – नगरे हौरा, सीलडानिस्थाने स्तः । देहली मुम्बयी चेन्नै अहमदाबादनगरैः साक्षात् धूमशकटयानानि सन्ति । वाहनमार्गः – बेङ्गळूरुतः १८८३ कि.मी । चेन्नैतः १६७५ कि.मी । मुम्बयीतः २०८१ कि.मी डार्जिलिङ्गतः १८९ कि.मी दूरे भवति ।
शान्तिनिकेतनविश्वविद्यालयस्थानम्
कोलकोतानगरतः घण्टात्रय यावत् प्रयाण कृत्वा शान्तिनिकेतन स्थल प्राप्तु शक्यते । अत्रैव विश्वकवि रवीन्द्रनाथठागूरः शान्तिनिकेतनविद्यालय सा.श. १९०१ तमे वर्षे प्रारम्भं कृतवान् । केवल पञ्चविद्यार्थिनः आसन् रवीन्द्रनाथ ठागुरमहोदयस्य् पिता महर्षि देवेन्द्रनाथ ठागूरमहोदयः विद्यालयस्य आधारशिला स्थापितवान् । सा.श.१९२१ वर्षसमये शाला एव विश्वभारती इति नाम प्राप्तवती । इदानी स्वतन्त्रविश्वविद्यालयः अन्ताराष्ट्रीयविद्यार्थिना मार्गदर्शनकेन्द्रमस्ति । सहस्रशः विद्यार्थिनः अत्र ज्ञान प्राप्तु आगच्छन्ति । विशाले आम्रवाटिकाया भव्यभवनानि रचितानि सन्ति । प्रकृत्या सह मानवविकासः भवतु इति रवीन्द्रनाथ ठागूरमहोदयस्य आशयः आसीत् । सः अतीव प्रकृतिप्रियः सः यत्र वसतिस्म तत्स्थान रवीन्द्रसदनम् इति प्रसिद्धम् । अत्र रवीन्द्रनाथठागूरमहोदयेन उपयुक्तानां वस्तूना सङ्ग्रहः कृतः अस्ति । अत्र नन्दलालबसु महोदयस्य चित्राणां सङ्ग्रहः अस्ति । रवीन्द्रनाथठागुरः स्वय चित्रकारः सङ्गीतज्ञः च आसीत् । रबीन्द्रसङ्गीतम् इति विशिष्टप्रकारस्य सङ्गीतम् एतेनैव आरब्धम् अस्ति । इदानीमत्र नृत्यबोधनमपि भवति । पूर्वकालतः अपि शान्तिनिकेतनम् उत्तमोद्देशान् सङ्कल्प्य स्थापितं विद्याकेन्द्रम् । इदानी जगत्प्रसिध्दमस्ति । वाहनमार्गः – कोलकोतातः १६३. कि.मी. धूमशकटमार्गः – भोल्पुरधूमशकटनिस्थानं समीपतमं भवति ।
भसमानं दार्जिलिं
प्राचीनकाले दुर्जयलिङ्गम् इति प्रसिद्धम् एतत् दार्जिलिं हिमालयस्य सान्मुप्रदेशे सुन्दरं गिरिधामनगरम् । सुइजारल्यान्ड इव एतत् उत्तमं सुन्दरतमं चास्ति । उन्नतकाञ्चनजुङ्गा पर्वतः सानुप्रदेशे चायवाटिकानां मध्ये व्याप्तमेतत् स्थलम् । पूर्वम् आङलानां निदाघकालीनं वासस्थलमासीत् । इदानी प्रवासिनां स्वर्गः ति कथयन्ति । देशविदेशेभ्यः जनाः प्रतिदिनम् अत्रागच्छन्ति ।
- पर्वतप्रदेशीयरैल्यानम्–
डार्जिलिंस्य प्रवासः सिलगुरितः धूमशकटयानेन आरब्धः भवति । ८८ कि.मी. दूरस्य प्रवासे प्रतिघण्टाः १२ कि.मी. वेगे धूमशकटविशेषयानं पर्वतारोहणं करोति । एतत् धूमशकटयानं वनपर्वतमध्ये सुन्दरतया सविलासं वक्रमार्गेषु सुरङ्गमार्गेषु गच्छत् षड्घण्टावधौ डार्जिलिंप्रदेशं प्रापयति । पार्श्वे पर्वतशिखराणां वनानां प्रपातानां दर्शनं निरन्तरं भवति । मार्गे वक्रगतयः सन्ति । प्रयाणसमयः अतीवानन्ददायकः भवति ।
- चायपर्णवाटिकाः –
बटासियालूपप्रदेशे चायसस्यवाटिकाः सन्ति । कुरेसाङ् प्रदेशे लघुभवनानि सन्ति । अग्रेढूम इति स्थले सागरस्तरतः ८००० पादोन्नते स्थले धूमशकट् निस्थानमस्ति । एतत् विश्वे एव अत्युन्नतस्थले निर्मितं धूमशकटनिस्थानम् इति ख्यातमस्ति । अत्र प्रवासिजनाः भयकरे प्राकृर्तिकस्थले लोहमार्गम् आश्चर्येण पश्यन्ति ।
दर्शनीयान्यन्यस्थानानि
पद्मजानायिडु हिमालयस्य मृगालयः, न्याचुरल् हिस्टरी म्युसियम्, लायिड्स् बोटानिकल् गार्डन्, हिमालयस्य मौण्टेरियन् इन्स्टिट्यूट्, रङ्गीतव्याली, प्यासेञ्जररोपृवे, लेषाङ्गरेस् कोर्स् इत्यादि स्थानानि अपूर्वाणि सन्ति । जलदपारा प्रदेशे मृगवीक्षणाय अवकाशः अस्ति । अत्र रैनो, रायल् बेङ्गाल् टैगर, गजाः, वनमहिषाः इत्यादयः सन्ति । मिरिक् सरोवरः डार्जिलिङ्ग समीपे अस्ति । अत्र मत्स्यग्रहणं, नैकाविहारः पादचारणम् इत्यादिमनोरञ्जककार्याणाम् आनुकूल्यम् अस्ति । समीपे धूमप्रदेशे १५६ पादमिता बुध्दस्य प्रतिमा अस्ति । सिलगुरितः ५२. कि.मी. दूरे कालियपाङ्ग्र वीक्षणालयः अस्ति । पर्वतारोहणम्, जलसाहसक्रीडा इत्यादीनां कृते कुरेसाङ्ग् अतीव प्रसिध्दम् अस्ति । ३६ कि.मी । एतान् सञ्चलतां स्वर्गः इति कथयन्ति । डार्जिलिङ्ग् पर्वतारोहणस्य आनन्दप्राप्तये अतीवोत्तमं स्थलमस्ति । एप्रिल् मासतः ये अक्टोबरमासतः नवम्बरमासपर्यन्तकाले अत्रातीव परिसरः अतीव रमणीयः भवति । एतत्समये वृक्षेषु पुष्पाणि विकसन्ति । तुषारः अपि न भवति । पक्षिवीक्षणमपि अतीव मनमोहकं भवति । व्याघ्रपर्वतः ; एतत् तु अवश्यं दर्शनीयस्थलेषु अन्यतमः । इतः सूर्योदयदर्शनं वर्णनातीतं भवति । डार्जिलिङ्गतः १४ कि.मी. दूरे एतत्स्थानमस्ति । वाहनमार्गः कोलकोतातः ६८६ कि.मी. दूरे भवति । धूमशकटमार्गः – न्यूजपैगुरि – डार्जिलिङ्ग् यानम्, डार्जिलिङ्ग्मेलयानम्, सीलडानिस्थानतः प्रयाणस्य आरम्भः भवति । विमानमार्गः – बागदोग्राविमाननिस्थानं ९० कि.मी. सिलगुटितः लोकयानानि लघुवाहनानि प्रातः ६ वादनतः सायं ४ वादनपर्यन्त सञ्चरन्ति । दूर ८० कि.मी । वसति कृते अनेकानि उपाहारवसतिगृहाणि सन्ति ।
सुन्दरबनं राष्ट्रियोद्यानम्
पश्चिमबङ्गालराज्ये गङ्गाब्रह्मपुत्रानद्योः अधोभागे लवणमिश्रितभूमौ एतत् उद्यानम् अस्ति । अस्य विस्तारः १३३० चतुरस्र कि.मी. भवति । प्रपञ्चे एव एतत् प्रदेशगभीरता प्रसिध्दा अस्ति । म्याङ्ग्रूव वनप्रदेशः एषः अतीव सुन्दरः अस्ति । अत्र ५४ द्वीपानि सन्ति । अनेक नद्यः अत्र सागरं प्रविशन्ति । सर्वतः जलमयप्रदेशः दृश्यते । पूर्व एतत् चोराणा लुण्ठकाना स्थानमासीत् । अधुना नौकाविहारः आह्लादकरः भवति । नामखान् रायडगी सोनाकाली नजाततः नौकायनव्यवस्था अस्ति । द्वीपानां दर्शन अतीवानन्दं जनयति । एतत् स्थलं व्याघ्रसंरक्षितप्रदेशः अस्ति । अत्र बङ्गालव्याघ्राणां दर्शनमपि भवति । अत्र वने कपयः वनसूकराः भल्लूकाः, जङ्गलक्यार् इत्यादि प्राणिनः सन्ति । अत्र जले १२० जातीयाः मीनाः सन्ति । मकराः कर्कटकाः सर्पाः अजगराः, विविधसर्पाः, कच्छपाः, कूर्माः च अत्र सन्ति । अत्र भगवतपुरं क्रकडैल प्राजेक्ट, जम्बूदीपः साजदेखालि, बूरिदाब्रि, व्याग्रयोजनाः, विरामद्वीपः, सोनाकाली इत्यादीनि द्वीपानि प्रसिद्धानि सन्ति । सागरएलेण्ड् प्रदेशे गङ्गानदी बङ्गालेष सागर प्रविशति । अत्र जनाः पुण्यस्नान कुर्वन्ति मकरसङ्क्रान्ति दिने लक्षाधिकजनाः अत्र पवित्र स्नान कुर्वन्ति । वाहनमार्गः - कोलकातातः १७५ कि.मी. नौकया इतः ५ घण्टप्रवासः । वसतिकृते साज्ञिने कालिस्थले प्रवासीभवनम् अस्ति । सागरद्वीपे कुटीराः, वीक्षणगोपुराणि च सन्ति । सप्तम्बरमसतः मेमासपर्यन्तं दर्शनार्थम् सकालः अस्ति । गौसाबनगरतः ५० कि.मी ।
पाश्चिमबङ्गालराज्यस्य सागरतीराणि
ओरिस्सा राज्यसीमासमीपे एतत् रमणीयं सागरतीरमस्ति । एतत् अत्यन्तं सुन्दरं स्थलमस्ति । हूग्लीनदी अत्र सागरं प्रविशति । सूर्य किरणानां सागरतरङ्गेषु लीलाः दर्शनीयाः विविधवर्णेषु प्रतिफलन्ति । पार्श्वे तिन्त्रिणीवृक्षवाटिकाः सन्ति । सागरतीरे सञ्चारः आनन्दाय भवति । सुन्दरस्वच्छः प्रदेशः आरोग्यवर्धनाय उत्तमः अस्ति । अत्र जनाः तरणे आसक्ताः भवन्ति । सागरतरङ्गाः उपरि अधः गच्छन्तः प्रवासीजनान् आकर्षयन्ति । समीपे अनेकदेवमन्दिराणि सन्ति । जुलैमसतः मार्चपर्यन्तं सन्दृष्टुं सुकालः भवति । वाहनमार्गः – कोलकातातः १८५ कि.मी. ६ घण्टाप्रयाणं भवति । अत्र वसति गृहाणि सन्ति । बक्काळि (फ्रेजर्गञ्ज, करसारगञ्जृ) हूग्लीनदीतः पूर्वदिशि १३२ कि,मी दूरे नदीतीरे एतत् निसर्गरमणीय स्थलमस्ति । प्रवासी जनानां अत्र नौकासञ्चारः साध्यः अस्ति तिन्त्रिणीवृक्षाणां मध्ये सञ्चारः सन्तोषकरः भवति । पादचारणं वक्काळितः फेजर गञ्ज पर्यन्त (२. कि.मी )कर्तुं शक्यते ।
धाकूरियसरः
नगरप्रदेशात् नैके जनाः अत्र विहारार्थम् आगच्छन्ति । सरस्तीरे जापानी जनैः निर्मितं बौद्धमन्दिरम् अस्ति ।
सन्दर्भाः
बाह्नानुबन्धाः
Wikiwand in your browser!
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.