From Wikipedia, the free encyclopedia
नेपालम् (नेपाल भाषा: नेपाल, आङ्ग्ल: Nepal), आधिकारिकरूपेण सङ्घीय लोकतान्त्रिकगणतन्त्रनेपालः (नेपाली: सङ्घीय लोकतान्त्रिक गणतन्त्र नेपाल, आङ्ग्ल: Federal Democratic Republic of Nepal), एशिया महाद्वीपे दक्षिणे कश्चित् देश: अस्ति । नेपालस्य उत्तरे चीनदेश: अस्ति । पश्चिमे, पूर्वे एवं दक्षिणे भारत देश: अस्ति । हिमालयस्य सानुप्रदेशे स्थितं राष्ट्रं परितः भूभागेनैव आवृतम् अस्ति । नेपालस्य उत्तरे त्रिविष्टपम् (तिब्बत) अस्ति। परितः विश्वस्य अत्युन्नतपर्वताः १० सन्तीति भावयामश्चेत् तेषु अष्टपर्वताः नेपाले एव सन्ति । नेपालस्य विस्तीर्णं १४११८१ च.कि.मी । जनसङ्ख्या ३ कोटिः । राष्ट्रस्य राजधानी काष्टमण्डपः (काठमान्डु/काठमाडौं) ।
ध्येयवाक्यम्: जननी जन्मभूमिश्च स्वर्गादपि गरीयसी (संस्कृतम्) | |
राष्ट्रगीतम्: "सयौ थुङ्गा फ़ूलका हामी" "शतपुष्पैः निर्मितम्" | |
राजधानी | काठमाण्डू (नेपाली: काठमाडौं) |
बृहत्तमं नगरम् | काठमाण्डू (नेपाली: काठमाडौं) |
देशीयता | नेपाली |
व्यावहारिकभाषा(ः) | नेपाली[1] |
प्रादेशिकभाषा(ः) | नेपाल भाषा, मैथिली, भोजपुरी, थारू, गुरूङ्ग्, तामाङ्ग्, मगर, अवधी, शेर्पा, किराँती, लिम्बु तथा इतर १०० विविध मौलिक भाषाः। |
राष्ट्रीयभाषा(ः) | |
सर्वकारः | सङ्घीय गणतन्त्र |
- राष्ट्रपतिः | रामचन्द्र पौडेल |
- प्रधानमन्त्री | खड्गप्रसाद ओली |
विधानसभा | |
Unification | |
- Kingdom declared | २१ डिसेम्बर् १७६८ |
- State declared | १५ जनवरि २००७ |
- गणराज्यम् अभवत् | २८ मै २००८ |
विस्तीर्णम् | |
- आविस्तीर्णम् | १४७,१८१ कि.मी2 (९४ वां) |
५६,८२७ मैल्2 | |
- जलम् (%) | २.८ |
जनसङ्ख्या | |
- २०१०स्य माकिम् | २९,३३१,०००[2] (४०त्तम) |
- २०११स्य जनगणतिः | २६,६२०,००० () |
- सान्द्रता | १९९.३/कि.मी2(६२ वां) ५१८.१/मैल्2 |
राष्ट्रीयः सर्वसमायः (PPP) | २०१०स्य माकिम् |
- आहत्य | $३५.८१३ अर्बुदम्[3] () |
- प्रत्येकस्य आयः | $१,२७०[3] () |
राष्ट्रीयः सर्वसमायः (शाब्द) | २०१०स्य माकिम् |
- आहत्य | $१५.८३६ अर्बुदम्[3] () |
- प्रत्येकस्य आयः | $५६२[3] () |
Gini(२००३–०४) | ४७.२ () |
मानवसंसाधन सूची (२०११) |
०.४५८[4] (निम्न)(१५७त्तम) |
मुद्रा | नेपालरूप्यकाणी (NPR ) |
कालमानः | एन् पी टी(NPT) (UTC+५:४५) |
- ग्रीष्मकालः (DST) | न अनुसृयते (UTC+५:४५) |
वाहनचालनविधम् | वामतः |
अन्तर्जालस्य TLD | .np |
दूरवाणीसङ्केतः | +९७७ |
क्रि.पू ६, क्रि.पू ५ शतके च एषः प्रदेशः शाक्यशासने आसीत् । शाक्य राजकुमारेषु एकः सिध्दार्थः गौतमः प्रापञ्चिकव्यामोहं त्यक्त्वा दिव्यं ज्ञानं प्राप्य अग्रे बुध्दः इति विख्यातः । क्रि.पू २५० समये एषः प्रदेशः उत्तरभारतस्य मौर्यसाम्राज्यस्य अङ्गमासीत् । अनन्तरं गुप्तराजाः, अनन्तरं लिच्छविराजाः अनन्तरं चालुकयाः एतस्य प्रदेशस्य उपरि अधिकारं स्थापितवन्तः । अनन्तरं एषः प्रदेशः विविधरीत्य़ा विभक्तः लघुराजैः पालितश्च । १७६५ तमे वर्षे पृथ्वीनारायण शाह इति कश्र्चन गाेर्खाराजः नेपालस्य एकीकरणं कृतवान् । भारतं यदा ब्रिटिषाधीनं आसीत् तदा नेपालस्य स्वायत्ताधिकारः आसीत्। आङ्ग्लैः सह एकस्मिन् युध्दे पराजितः चेदपि सन्धिं कृत्वा स्वायत्तताम् अरक्षत् । एतदनुसारं नेपालः स्वप्रदेशम् उत्तरखण्डं, हिमाचलप्रदेशं, सिक्किम भागं च अाङग्लेभ्यः अयच्छत् । ततः आरभ्य राजशासनमेव नेपाले आसीत् । एषु दिनेषु प्रजासत्तानिमित्तम् आन्दोलनं जातम् । बहुपक्षीया सांसदीया व्यवस्था आगता, राज्ञः अधिकारः न्यूनीकृतः । १९९१ तमे वर्षे प्रथमवारं बहुपक्षाणाम् मध्ये मुक्तनिर्वाचनं जातम्
नेपालदेशस्य पूर्वतः पाश्चिमान्तभागपर्यन्तं ८०० कि.मी भवति । दक्षिणतः उत्तरान्तपर्यन्तं २०० कि.मी भवति । तिर्यक् पट्टिकारीत्या भारतस्य उत्तरभागे अस्ति । भौगोलिकरीत्या उन्नतपर्वतप्रदेशः, लघुगिरीणां प्रदेशः, तराय् प्रदेशः च इति विभागः शक्यते । भारतसीमानिकटे गङ्गायाः समतलप्रदेशः अस्ति । एतस्मिन् प्रदेशे कोसी, नारायणी ( गण्डकी ) कर्नाली नद्यः च जलम् आनयन्ति । लघुगिरिप्रदेशे काठ्मण्डुखनिप्रदेशः अस्ति । एतस्य देशस्य अत्यधिकजनाः अत्र वसन्ति । एतस्मिन् प्रदेशे महाभारतलेख् शिवालिकपर्वतश्रेणयः च सन्ति । एताः पर्वतश्रेणयः मध्यमस्तरीयाः सन्ति । एतासामौन्नत्यं १००० मीटरतः ४००० मी पर्यन्तम् अस्ति ।
उन्नतपर्वतप्रदेशे प्रपञ्चस्यैव अत्युन्नतपर्वताः सन्ति । तत्र सगरमाथा, कञ्चनजङ्घा, अन्नपूर्णा, मकालु, धवलागिरिः इत्यादयः विश्वस्य दशमध्ये अष्ट सर्वोन्नतपर्वताः विराजिताः सन्ति। अत्र घनवनानि सन्ति । परन्तु सद्यः अरण्यनाशः मानवानां दुष्टेच्छाकारणतः प्रचलति । एतेन प्रकृतेरुपरि विपरीतपरिणामः दृश्यते ।
नेपाळः कृषिप्रधानः देशः । ७६% जनाः कृषिं कुर्वन्ति । व्रीहिः, गोधूमः, शणः, मर्कटान्नम् एतेषां कृष्युत्पन्नानि । यन्त्राणि कृष्युत्पन्नानां संस्काराय उपयुज्यन्ते । प्रवासोद्यमः देशस्य प्रमुखः आर्थिकः व्यवसायः । नेपाळस्य बहुभागाः पर्वतमयाः इति कारणतः मार्गनिर्माणं कठिनम् । रेलयानमार्गनिर्माणम् इतोऽपि कष्टं व्ययकारि च । २००३ तमे वर्षे देशे ८५०० कि.मी मार्गाः आसन् । ५९ कि.मी रेल्वे मार्गः आसीत् । एतेन कारणेन निरीक्षितस्तरस्य आर्थिकी प्रगतिः न जाता । दूरसम्पर्कव्यवस्था न्यूनस्तरीया अस्ति । आधुनिकतन्त्रज्ञानं देशस्य जनतां प्राप्नोत् । नेपाळः विदेशस्य सहायधनम् अवलम्ब्य अस्ति । भारतम्, अमेरिका, जपान्, इङग्लेण्ड, युरोपियन् राष्ट्राणि च साहाय्यं कुर्वन्ति ।
नेपाळः विश्वस्य एकमेव हिन्दुराष्ट्रम् । देशस्य अधिकृतभाषा नेपाली । मैथिली, भोजपुरी, अवधिभाषाः अपि भाष्यन्ते । नेपाळे पुरुषाणाम् आयुर्मानं महिलानामेपक्षया अधिकम् । समग्रप्रपञ्चे नेपाळे केवलम् इदृशी स्थितिः विध्यमानम् अस्ति । सांस्कृतिकविषयेषु नेपाळः टिबेटं भरतं च अनुसरति । उत्तरनेपाळे टिबेट्संस्कृतेः प्रतिकृतिः दृश्यते । अन्यत्र सर्वत्र हिन्दुसंस्कृतेः छाया दृश्यते । नेपाळः भारतं बहुधा अवलम्ब्य अस्ति । आर्थिकसहाय्यं, तन्त्रज्ञानं, रक्षणम् इत्यादिविषयेषु भारतात् नेपाळेन बहुसहाय्यं लभ्यते ।
मेची, कोशी, सगरमाथा, जनकपुर, बागमती, नारायणी, गण्डकी, लुम्बिनी, धवलागिरि:, राप्ती, कर्णाली, भेरी, सेती, महाकाली इति चतुर्दशाञ्चलानि सन्ति । नेपलदेशे दूरसंचाराव्यवस्था अतीव सुलवमस्ति ।
२०१५ तमस्य वर्षस्य अप्रैल-मासस्य पञ्चविंशतितमे (२५) दिनाङ्के प्रातः ११:५६ वादने नेपालदेशे विनाशकारी भूकम्पः अभवत् । भूकम्पस्य केन्द्रं गोरखामण्डलम् आसीत् । भूकम्पः अनेकानि महत्त्वपूर्णानि प्राचीनानि मन्दिराणि, ऐतिहासिकभवनानि अनक्कयत् । १४०० तः अधिकजनाः मृताः अनेके आहताः अभूवन् [5] भूकम्पः चीन-बाङ्गलादेशः-पाकिस्तान-भारतदेशेषु अपि अनुभूतः [6] ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.