टीकमगढमण्डलम् ( ( शृणु) /ˈtiːkəməɡədhəməndələm/) (हिन्दी: टीकमगढ़ जिला, आङ्ग्ल: Tikamgarh district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य सागरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति टीकमगढ इति नगरम् ।
टीकमगढमण्डलम् Tikamgarh District | |
---|---|
टीकमगढ जिला | |
टीकमगढमण्डलस्य नयनाभिरामदृश्यम् | |
मध्यप्रदेश राज्यस्य मानचित्रे टीकमगढमण्डलम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | टीकमगढ, बलदेवगढ, खडगपुर, पालेडा, जतारा, मोहनगढ, पृथ्वीपुर, ओरछा, निवाडी |
विस्तारः | ५,०४८ च. कि. मी. |
जनसङ्ख्या (२०११) | १४,४५,१६६ |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ६१.४३% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४५% |
Website | http://www.tikamgarh.nic.in/ |
भौगोलिकम्
टीकमगढमण्डलस्य विस्तारः ५,०४८ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे छतरपुरमण्डलं, पश्चिमे उत्तरप्रदेशराज्यम्, उत्तरे उत्तरप्रदेशराज्यं, दक्षिणे छतरपुरमण्डलम् अस्ति । अस्मिन् मण्डले बेटवानदी प्रवहति ।
जनसङ्ख्या
२०११ जनगणनानुगुणं टीकमगढमण्डलस्य जनसङ्ख्या १४,४५,१६६ अस्ति । अत्र ७,६०,३५५ पुरुषाः, ६,८४,८११ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २८६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २८६ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २०.१३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०१ अस्ति । अत्र साक्षरता ६१.४३% अस्ति ।
उपमण्डलानि
अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- टीकमगढ, बलदेवगढ, खडगपुर, पालेडा, जतारा, मोहनगढ, पृथ्वीपुर, ओरछा, निवाडी ।
वीक्षणीयस्थलानि
अचरू-मातामन्दिरम्
अचरू-मातामन्दिरं पृथ्वीपुर-उपमण्डले स्थितम् अस्ति । इदं मन्दिरम् एकस्मिन् उपशैले स्थितमस्ति । अस्मिन् अचरू-मातुः मूर्तिः अस्ति । अस्मिन् मन्दिरे एकः जलकुण्डः अस्ति । अस्य मन्दिरस्य चमत्कारः अस्ति यत् कुण्डे सदैव जलं भवति अपि च कुण्डः कदापि शुष्कः न भवति । जनाः प्रतिवर्षं ’मार्च-अप्रैल’ इत्येतयोः मासयोः नवरात्रिपर्व आमनन्ति ।
ओरछा-नगरम्
ओरछा-नगरं निवडी-उपमण्डलात् १३ कि. मी. दूरे अस्ति । इदं नगरं बेटवानदीनद्याः तटे स्थितम् अस्ति । इदं स्थलं ई. स. १५३१ तमे वर्षे राज्ञा रुद्रप्रतापसिंहेन अन्वेषितम् । इदं हिन्दुजनानां धार्मिकं स्थलम् अस्ति । अत्र धार्मिकी सांस्कृतिकी च परम्परा अस्ति येन कारणेन इदं स्थलम् प्रसिद्धम् अस्ति ।
पपौरा जी
पपौरा जी टीकमगढ-नगरात् ५ कि. मी. दूरे अस्ति । अत्र बहूनि जैनमन्दिराणि सन्ति । इदं जैनानां एकं केन्द्रम् अस्ति । बहवः श्रद्धालवः जैनाः दर्शनार्थं तत्र गच्छन्ति । अस्मिन् मण्डले अहर जी, बलदेवगढ, जतारा, कुण्डेश्वर, मदखेडा, निवारी, पालेरा, पृथ्वीपुर, टीकमगढ, उमरी इत्येतानि प्रमुखानि वीक्षणीयस्थालानि अपि सन्ति ।
बाह्यसम्पर्कतन्तुः
विकिमीडिया कॉमन्स् मध्ये टीकमगढमण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://www.tikamgarh.nic.in/ Archived २००९-०१-२९ at the Wayback Machine
http://www.census2011.co.in/census/district/291-tikamgarh.html
Wikiwand in your browser!
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.