इस्लाम धर्मस्य अन्तिमशास्त्रः From Wikipedia, the free encyclopedia
कुरआन् शरीफ् (अरबी: القرآن आल्-क़ुर'आन्) मुस्लिमजनानां पवित्रः कश्चन ग्रन्थः । इस्लाम्-मतानुसारं भगवतः वाणीरूपेण ग्रन्थोऽयं मुहम्मद् नवी (प्रवक्ता) द्वारा खण्डशः भूलोके अवतीर्णः । समग्रकुरआन्-ग्रन्थे ११४ सूराः(अध्यायाः) सन्ति । तथा आयात् (पङ्क्ति)संख्या ६,२३६ । कुरआन्-ग्रन्थस्य मूलभाषा अरबी । इस्लामीय-भाष्यकारस्य मतानुसारं कुरआन्-ग्रन्थः अपरिवर्तनीयः । अस्मिन् विषये आयाते (पङ्क्तौ) उक्तमस्ति -
“ | अहं स्वयम् उपदेशग्रन्थरूपेण अवतीर्णवान् अस्मि, तथा च अस्य संरक्षकोऽपि अहमेव अस्मि ।[1] | ” |
कुरआन् اَلْقُرآن | |
---|---|
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति | |
लेखकः | अल्लाहात् अवतीर्णः अभवत्। |
भाषा | अरबी |
विषयः | जीवनविधानस्य शास्त्रः |
विश्वासः
|
पञ्चस्तम्भाः
|
ग्रन्थाः
|
सम्प्रदायाः
|
इतिहासः
|
अरबी व्याकरणे कुरआन् शब्दोयं 'मास्दार्' (क्रियावाचक-विशेष्य)रूपेण व्यवह्रियते । अयं शब्दः قرأ 'क्करा'आ' इत्यस्मात् क्रियापदात् निष्पन्नः, यस्य अर्थः 'पठनम्', वा 'आवृत्तिकरणं' । इदमेव क्रियापदं कुरआन् पदस्य मूलत्वेन परिगण्यते[2] । ’कुरआन्’शब्दस्य उच्चारणस्य "मास्दार्" (الوزن) (रागः) भवति غفران "गुफ्रान्"। एतया शैल्या उच्चारितश्चेत् अर्थः भवति अधिकः भावः, अध्यवसायः, कर्मसम्पादने एकाग्रता वा । एतस्मात् अवगम्यते कुरआन् इत्यस्य अर्थः केवलं पठनम्, आवृत्तिकरणं वा न वरञ्च एकाग्रचित्तेन पठनम् इति । कुरआन्-ग्रन्थेऽपि शब्दोऽयम् अस्मिन्नेव अर्थे प्रयुक्तः अस्ति । कुरआन्-ग्रन्थस्य ’सूरा-आल्-कियामह्’ इत्येतस्यां ७५ तमसूरायाम् (अध्याये), १८ तमे आयाते (पङ्क्तौ) कुरआन् शब्दस्य उल्लेखः अस्ति -
“ | इतःपरम्, अहं यदा तं (कुरआन्) पाठं पठामि , तदा भवान् तस्य पाठस्य (कुर्'आ'नाह्) अनुसरणं करोतु[3] | ” |
मुस्लिम्-मतानुसारं मुहम्मद्(मुस्लिमजनानां प्रवक्ता (अल्लाह्स्यदूतः)वाणीं साक्षात् अरबीभाषया प्राप्तवान् आसीत् । ग्रन्थोऽयं मु'जिया (अलौकिकः) तथा मानवजातेः पथप्रदर्शकः । मुस्लिमजनानां विश्वासः विद्यते यत् कुरआन्-ग्रन्थे मानवानां सर्वविधानां समस्यानां समाधानमस्ति । एवञ्च अयं ग्रन्थः पूर्णाङ्गजीवनविधानं[4] बोधयति ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.