भारतदेशस्य दक्षिणराज्येषु अन्यतमम् अस्ति कर्णाटकम् । कर्णाटकस्य प्रादेशिकभाषायाः नाम कन्नड(Kannada) इति । प्राचीनतमासु द्राविडभाषासु (दाक्षिणात्यभाषासु) अन्यतमा कन्नडभाषा स्वस्य विविधैः रूपैः ५०दशलक्षजनैः भाष्यते । भारतदेशस्य अधिकृतासु २३भाषासु इयम् अन्यतमा अस्ति । अपि च कर्णाटकराज्यसर्वकारस्य व्यावहारिकी भाषा अस्ति । सर्वसधारणं 1५०० वर्षेभ्यः कन्नडं सम्भाषणभाषारूपेण प्रचलिता अस्ति । कन्नडभाषायाः लिपिः लेखनपद्धतिः च 1५०० वर्षेभ्यः पूर्वम् एव आसीदिति शोधकानाम् अभिप्रायः । अस्याः भाषायाः प्राथमिकं संवर्धनं तु अन्यद्राविडीयाः (दाक्षिणात्यम्) भाषाभिवृद्धेः सादृश्यम् अस्ति । तदनन्तरस्य भाषाभिवृद्धौ संस्कृतस्य प्राकृतस्य मराठेः पारस्याः च प्रभावः दृश्यते ।

त्वरिततथ्यानि Kannada, विस्तारः ...
Kannada
ಕನ್ನಡ kannaḍa
A bilingual signboard in Kannada and English
विस्तारः Karnataka, Kasaragod, Kerala, Maharashtra, significant communities in USA, Australia, Singapore,[1] UK, Mauritius,[2] United Arab Emirates.[3]
प्रदेशः Karnataka, Kerala, Maharashtra, Goa, Andhra Pradesh and Tamil Nadu.
Ethnicity Kannadiga
स्थानीय वक्तारः
भाषाकुटुम्बः
Dravidian
  • Southern
    • Tamil–Kannada
      • Kannada–Badaga
        • Kannada
आधिकारिकस्थितिः
व्यावहारिकभाषा (Karnataka)
नियन्त्रणम् Various academies and the Government of Karnataka[4]
भाषा कोड्
ISO 639-1 kn
ISO 639-2 kan
ISO 639-3 kan
Distribution of native Kannada speakers in India[5]
Indic script
Indic script
This page contains Indic text. Without rendering support you may see irregular vowel positioning and a lack of conjuncts. More...
पिदधातु

परिचयः

कन्नडभाषायां संस्कृतभाषायां यथा तथा सप्त विभक्तयः सन्ति चेदपि प्रथमविभक्तेः पञ्चमविभक्तेः च उपयोगः अतिविरलः । अस्यां भाषायां विभक्तिप्रत्ययं नामपदस्यान्ते प्रत्ययरूपेण योजयन्ति । संस्कृतस्य कारकविभक्त्याः उपयोगः कन्नडस्य विभक्तिप्रयोगावसरः विभिन्नः भवति । ग्रामं गतः इति संस्कृतवाक्ये 'ग्राम'पदस्य द्वितीया विभक्तिः भवति । कन्नडभाषायाम् अस्मिन् एव अर्थे चतुर्थी विभक्तिः प्रयुज्यते । पुँल्लिङ्गं स्त्रीलिङ्गं नपुंसकलिङ्गम् इति कन्नडे लिङ्गत्रयम् अस्ति संस्कृते यथा तथा । किन्तु लिङ्गनिर्धारः संस्कृतभाषायां यथा क्रियते तथा न । मूले कन्नडे लिङ्गचतुष्टयं भवति । पुँल्लिङ्गं स्त्रीलिङ्गं मानुषम् अमानुषं चेति । पुमान् स्त्री मानुषम् अमानुषम् च इति । अस्यां भाषायां मानवेतरजीविनः नपुंसकलिङ्गिनः इति व्यवहारः । कन्नडभाषायाम् एकवचनं बुहुवचनं चेति वचनद्वयम् एव भवति । एकवचनरूपाणि पुमान् स्त्रीः मानुषम् अमानुषम् इति चतुर्षु लिङ्गेषु अपि भवन्ति । सः पुँल्लिङ्गः मानुषः, सा स्त्रीलिङ्गः मानुषः, तत् नपुंसकलिङ्गः अमानुषः इति ।

वर्धनम्

दक्षिणभारतीयभाषाणां मूलमिति निर्दिश्यमाणस्य मूलद्राविडतः कन्नडभाषा कदा सम्भाषणभाषा जाता इति निर्दुष्टतया वक्तुं न शक्यते । तमिलुभाषा यदा पृथक् जाता तदा एव कन्नडभाषा अपि पृथक् जाता इति विश्वस्यते । अस्याः भाषायाः लिपिः सामान्यतः १५००-१६०० वर्षपुरातनी विद्यते । ५ शतके हल्मिडिशासनकाले कन्नडभाषा प्रवृद्धा आसीत् । लिपेः इतिहासं यदि अवलोकयामः तमिलुलिपेः अपेक्षया कन्नडलिपिः एव शीघ्रं प्रवृद्धा इति भासते । कन्नडभाषातज्ज्ञाः कन्नडसाहित्यस्य वर्धनस्य अवगमनाय कालमानम् एवं निर्दिशन्ति -

पूर्वहळगन्नड - अनिश्चितकालात् ७ शतकपर्यन्तम्
हळगन्नड - ७ शतकात् १२ शतकं यावत्
नडुगन्नड - १२ शतकात् १६ शतकं यावत्
होसगन्नड - १६ शतकदनन्तरम्

गते शतके कन्नडभाषाभिवृद्धिः व्यापकतया जाता इति अवगम्यते । २० शतकस्य अनन्तरीयं कालम् आधुनिककन्नड् इति मत्वा नूतनयुगमिति परिगणनीयं भवेत् । अन्तर्जाले कन्नडभाषायाः उपयोगः व्यापकतया दृश्यते ।

भौगोलिकव्याप्तिः

कन्नडभाषा प्रमुखतया कर्णाटकराज्ये उपयुज्यते । अल्पप्रमाणेन प्रतिवेशिराज्येषु (आन्ध्र, तमिळुनाडु, महाराष्ट्रम्) अपि उपयुज्यते । अमेरिकासंयुक्तसंस्थाने इङ्ग्लेण्ड्देशे च कन्नडजनानां सङ्ख्या अधिका अस्ति ।

अधिकृतमान्यता

कन्नडभाषा भारतदेशस्य २२ अधिकृतभाषासु अन्यतमा । कर्णाटकराज्यस्य अद्वितीया अधिकृतभाषा । २००८ तमे वर्षे अक्टोबर्मासस्य ३१ तमे दिनाङ्के भारतसर्वकारः कन्नडभाषायाः कृते शास्त्रियं स्थानम् अयच्छत् ।

कन्नडवर्णमाला

कन्नडवर्णमालायां ४९ अक्षराणि विद्यन्ते । अत्रत्याणि अक्षराणि सर्वासु भारतीयभाषासु विद्यन्ते । तेलुगुलिपिः कन्नडलिपेः सादृश्यं भजते । संयुक्ताक्षरैः कागुणितेन च युक्ता लिपिः सङ्कीर्णा विद्यते । कन्नडलिपेः प्रत्येकं चिह्नं शाब्दिकमात्रां सङ्केतयति ।

वर्णमाला

Thumb
कन्नडलिपिशिलालेखः

साधाराः

बाह्यानुबन्धाः

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.