हिरोशिमा शान्तिस्मारकम्
From Wikipedia, the free encyclopedia
हिरोशिमा शान्तिस्मारकम् ( ( शृणु) /ˈhɪroʊʃɪmɑː ʃɑːntɪsmɑːrəkəm/) (हिन्दी: हिरोशिमा शान्तिस्मारक, आङ्ग्ल: Hiroshima peace memorial) उत अणुविस्फोटस्तूपः उत 'गेन्बाकु डोम' जपान-देशस्य हिरोशिमा-महानगरे स्थितस्य प्रख्यातशान्तिस्मारकस्य उद्यानभागोऽस्ति । १९९६ तमे वर्षे एतत् स्मारकं युनेस्को-संस्थया विश्वसम्पत्त्वेन घोषितम् । १९४५ तमस्य वर्षस्य अगस्त-मासस्य षष्ठे दिनाङ्के हिरोशिमा, नागाशाकी इत्यतयोः नगरयोः अणुविस्फोटकप्रहारेण मृतानां जनानां स्मारकत्वेन एतस्य भवनस्य संरक्षणं कृतम् अस्ति । तस्मिन् अणुविस्फोटकप्रहारे ७०,००० नागरिकाः मृताः, प्रहारोत्तरञ्च किरणोत्तसारस्य कारणेन अन्ये ७०,००० नागरिकाः प्राणघातकरोगेण ग्रस्ताः [2] ।
त्वरिततथ्यानि हिरोशिमा शान्तिस्मारकम्, स्थापना ...
हिरोशिमा शान्तिस्मारकम् | |
---|---|
गेन्बाकु डोम | |
शान्तिस्तूपः | |
स्थापना | 1996 (1996) |
स्थानम् | हिरोशिमा, जपान |
प्रकारः | विनाशकशक्तेः (अणुशक्तेः) आघातोत्तरम् अपि अतिष्ठत्, मानवजातौ जातः प्रप्रथमः अणुप्रहारः, शान्तेः प्रतिनिधिः [1] |
जालस्थानम् | http://whc.unesco.org/en/list/775 |
पिदधातु