![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/3/37/Communication_shannon-weaver2.svg/langsa-640px-Communication_shannon-weaver2.svg.png&w=640&q=50)
सञ्चारः
From Wikipedia, the free encyclopedia
सञ्चारः ( ( शृणु) /ˈsəŋxɑːrəhə/) (हिन्दी: संचार, आङ्ग्ल: Communications) मनुष्याणां परस्परं सम्पर्कस्य एकं साधनं वर्तते । अधिकान्तरे सञ्चाराय मनुष्यैः अनेकविधीनां प्रयोगाः कृताः । तेषु प्रयोगेषु तारप्रेषः, दूरवाणी च महत्वपूर्णा आसीत् । तारप्रेषः पश्चिमदिशि अमेरिका-देशस्य उपनिवेशवादस्य साधनम् अभूत् । वास्तविकरूपेण अमेरिका-देशस्य उन्नत्यै दूरवाणी एव कारणमासीत् । इदानीम् अपि दूरवाण्याः उपयोगः सर्वाधिकः भवति । विकासिदेशेषु उपग्रहमाध्यमेन जङ्गमदूरवाण्याः आविष्कारः अभवत् । अतः साम्प्रते काले जङ्गमदूरवाण्याः उपयोगः भवति ।[1]
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/3/37/Communication_shannon-weaver2.svg/640px-Communication_shannon-weaver2.svg.png)
अद्यतने विकासस्य गतिः बहु तीव्रा अस्ति । सर्वप्रथमः फाइबर्-तन्तूनां प्रयोगः सञ्चाराय अभवत् । विश्वस्य विकासेन सह वैज्ञानिकैः ताम्रतन्तूनाम् उपयोगः कृतः । तेन कारणेन अधिकगत्या सञ्चारः जातः । १९९०-२००० पर्यन्तं दूरसञ्चारस्य सङ्गणकेन सह विलयो जातः । तेन एकः समन्वितः जालः निर्मापितः । सः अन्तर्जालः इति प्रसिद्धः अभवत् ।[2]
स्थानीयेषु आपणेषु, गृहेषु, कार्यालयेषु, संस्थानेषु, यन्त्रागारेषु इत्यादिषु स्थानेषु सञ्चारमाध्यमेन कार्याणि भवन्ति । सम्पूर्णे विश्वस्मिन् अधिकतमानि कार्याणि सञ्चारस्य आधारभूतानि सन्ति । सञ्चारमाध्यमः अर्थात् मीडिया इति उच्यते । मीडिया इति शब्दः मीडियम् इति शब्दस्य बहुवचनम् अस्ति । अनेन माध्यमेन समाजे विचाराणाम् आदान-प्रदानं कर्तुं शक्यते । दूरभाषेण वार्तालापः, दूरदर्शने चलचित्रदर्शनं, समाचारपत्रं, आकाशवाणी इत्यादयः सञ्चारमाध्यमस्य स्वरूपाणि वर्तन्ते । एतेषां माध्यमानां विश्वस्मिन् सर्वत्र उपयोगः भवति । अतः अयं जनसञ्चार-माध्यमः अर्थात् मास्-मीडिया इत्युच्यते ।