वन्दे मातरम्
From Wikipedia, the free encyclopedia
गीतमिदं बङ्किमचन्द्र चटर्जी महोदयेन रचितम् । १८७० तमे वर्षे ब्रीटिशजनाः "गाड सेव द क्वीन" गीतम् सर्वैः गातव्यम् इति नियमं कृतवन्तः । आङ्ग्लजनैः कृतस्य एतस्य आदेशस्य कारणातः बङ्किमचन्द्रस्य मनसि महान् रोषः उत्पन्नः । सः तस्मिन् काले ब्रिटिशसर्वकारे कार्यरतः आसीत् । प्रायः रोषस्य कारणतः सः वन्दे मातरम् गीतस्य रचनां "गाड सेव द क्वीन" गीतस्य विकल्परूपेण १८७६ तमे वर्षे कृतवान् ।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/0/09/Flag_of_India_1907_%28Nationalists_Flag%29.svg/320px-Flag_of_India_1907_%28Nationalists_Flag%29.svg.png)
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/a/ac/Bankim_chandra_chatterjee.jpg/180px-Bankim_chandra_chatterjee.jpg)
![]() | |
---|---|
ध्वजः | त्रिरङ्गः |
चिह्नम् | सिंहचतुर्मुखम् |
पञ्चाङ्गम् | शकपञ्चाङ्गम् |
राष्ट्रगानम् | जन गण मन |
राष्ट्रगीतम् | वन्दे मातरम् |
पुष्पम् | कमलम् |
फलम् | आम्रम् |
नदी | गङ्गा |
वृक्षः | वटवृक्षः |
पशुः | व्याघ्रः |
जलचरप्राणी | गङ्गानद्याः डोल्फिन् |
कविः | रवीन्द्रनाथ ठाकुर बङ्किमचन्द्र चट्टोपाध्याय |
पक्षी | मयूरः |
नाणकचिह्नम् | ![]() |
प्रारम्भे एतस्मिन् गीते पङ्क्तिद्वयम् आसीत्, तत् अपि संस्कृते एव । १८८२ तमे वर्षे यदा सः आनन्दमठः नाम्ना वङ्गभाषया कादम्बरीं लिखितवान्, तदा वन्दे मातरम्-गीतस्य अपि विस्तारं कृत्वा योजितवान् । विस्तारावसरे अस्मिन् वङ्गशब्दाः अपि योजिताः अभवन् । आनन्दमठे क्रूरैः मुस्लिमराजैः संन्यासिनां विरोधः यः प्रदर्शितः तस्य कथा अस्ति । एतस्यां कादम्बर्यां संन्यासिनः वन्दे मातरं गीत्वा उत्साहं प्राप्य युद्धं कृतवन्तः ।