From Wikipedia, the free encyclopedia
राधा राधिका अपि उच्यते। देवी श्रीकृष्णस्य मुख्यसङ्गिनी मन्यते। शास्त्रेषु राधादेवी लक्ष्म्याः[1][2] अवतारिका तथा च श्रीकृष्णस्य स्त्रीरूपा च ह्लादिनीशक्तिश्च मूलप्रकृतिश्च परादेवी चैता उल्लिखिता अस्ति।[3][4][5][6][7] राधादेवी कृष्णस्य सर्वावतारेषु तेन सह अवतरति। राधाष्टम्यवसरे प्रतिवर्षं श्रीराधाया जन्मदिनम् आचर्यते।[8][9]
कृष्णेन सह देव्या राधाया रूपद्वयं प्राप्यते। प्रेमिका च धर्मपत्नी चापि। निम्बार्कसम्प्रदायादिषु देवी राधा कृष्णस्य शाश्वतपत्नीरूपेण [10][11][12][13] पूज्यते। तदपेक्षया गौडीयवैष्णवादिपरम्पराः तां कृष्णस्य प्रेमिकाया दिव्यसङ्गिन्या रूपेण पूजयन्ति। [14][12]
राधावल्लभसम्प्रदाये हरिदासीसंप्रदाये च केवला देवी राधैव परमात्मत्वेन पूज्यते। अन्यत्र चैतन्यमहाप्रभुसम्बद्धिते गौडीयवैष्णवसम्प्रदाये च निम्बार्कसम्प्रदाये च पुष्टिमार्गे च महानामसम्प्रदाये च सहजीयावैष्णवापसम्प्रदाये च मणिपुरीवैष्णवसम्प्रदाये च कृष्णेन सह तस्य प्रधानसङ्गिनीरूपेण सा पूज्यते।
राधा व्रजेश्वरी कथ्यते इत्युक्ते गोपीषु प्रधाना। नैकाः साहित्यकृतयः तया प्रेरिताः। कृष्णेन सह तस्या रासलीलानृत्येन अनेकविधप्रदर्शनकलाः प्रेरिताः।[15][16][14][17]
राध्नोति साधयति कार्य्याणीति राधा। राद्धातुना अच्टाप्प्रत्यययोः संयोगः।[18] भारतस्य प्राचीनमध्ययुगीनग्रन्थेषु विविधप्रसङ्गेषु दृश्यमानः सामान्यशब्दश्च नाम राधा। अयं शब्दः वैदिकसाहित्येषु अपि च महाकाव्येषु दृश्यते परन्तु दुर्लभो वर्तते। महाभारते कर्णस्य मातुर्नाम अपि राधा। राधिका राधाया अपरशब्दो वर्तते।[19][20][21]
संस्कृतशास्त्रस्य नारदपञ्चरात्रस्य पञ्चमे अध्याये श्रीराधासहस्रनामस्त्रोते [22][23][24] राधायाः सहस्राधिकानि नामानि उल्लेखितानि सन्ति। यथा।
श्रीराधा राधिका कृष्णवल्लभा कृष्णसम्युता। वृन्दावनेश्वरी कृष्णप्रिया मदनमोहिनी ॥ ११॥ श्रीमती कृष्णकान्ता च कृष्णानन्दप्रदायिनी। यशस्विनी यशोगम्या यशोदानन्दवल्लभा ॥१२॥
कृष्णप्रिया कृष्णकान्ता इत्यादिनी नामानि तस्याः श्रीकृष्णे सह घनिष्ठसम्बन्धं द्योतयन्ति।
हिन्दुधर्मस्य वैष्णवसम्प्रदायेषु राधा महत्त्वपूर्णा देवी अस्ति। तस्याः लक्षणानि च अभिव्यक्तिश्च वर्णनं च भूमिकाश्चापि देशानुसारं भिद्यन्ते। राधा कृष्णाद् अभेद्या वर्तते। प्रारम्भिकभारतीसाहित्येषु तस्या उल्लेखा दुर्लभाः सन्ति। तस्याः पूजका व्याख्यायन्ते यत् सा शास्त्रेषु निगूढा गुह्यनिधिरस्ति। षोडशशताब्द्यां भक्तिकाले कृष्णं प्रति तस्या अलौकिकप्रेम्णः प्रकाशनात् सा अतिप्रसिद्धा अभवत्।[25][26]
जयदेवस्य[27][28][29][30] द्वादशशताब्द्याः दैवभाषायां गीतगोविन्दे राधायाः प्रथमः प्रमुखः उपस्थितिः दृश्यते तथा च निम्बार्काचार्यस्य दार्शनिकग्रन्थेषु।[31]
गीतगोविन्दात् पूर्वं राधाया उल्लेखो राजाहलविरचिते[32] प्राकृतभाषाग्रन्थे गाथासप्तशतीनामधेये अपि अभवत्। प्रथमे वा द्वितीये वा शतके अयं ग्रन्थो लिखितः।[21][33][34]
देवी राधा पुराणेषु अपि दृश्यते। यथा पद्मपुराणे लक्ष्म्याः अवताररूपेण देवीभागवतपुराणे महादेवीरूपत्वेन ब्रह्मवैवर्तपुराणे राधाकृष्णपरमेश्वत्वेन मत्स्यपुराणे देवीस्वरूपेण लिङ्गपुराणे लक्ष्मीस्वरूपत्वेन वराहपुराणे कृष्णपत्नीरूपत्वेन नारदपुराणे प्रेम्णो देवीरूपेण तथा च स्कन्दपुराणे शिवपुराणे[21][35][36] चापि। पञ्चदशषोडशशताब्द्याः कृष्णभक्तिकवयो विद्यापतिश्च चण्डीदासश्च मीराबायी च सूरदासश्च स्वामी हरिदासश्च तथैव तेषां सर्वेषां पूर्वं नरसिंहमेहता कृष्णराधायोः प्रेम्णो विषये अपि लिखितवन्तः। एवं चण्डीदासो बङ्गभाषीये श्रीकृष्णकीर्तने राधाकृष्णौ दिव्यौ परन्तु मानवप्रेम्णा लिलेख। [37][38] यद्यपि भागवतपुराणे तन्नाम न अङ्कितं तथापि विश्वनाथचक्रवर्ती तस्मिन् अनामिकां प्रियगोपीं राधा व्याख्यायते।[39][40] सा भट्टनारायणस्य वेणीसंहारे च आनन्दवर्धनस्य ध्वन्यालोके तथा च अभिनवगुप्तस्य तद्भाष्ये ध्वन्यालोकलोचने च राजशेखरस्य काव्यमीमांसायां च क्षेमेन्द्रस्य दशावतारचरिते च हेमचन्द्रस्य सिद्धहेमशब्दानुशासने उपस्थिता।[41] एतेषु अधिकांशेषु राधा कृष्णस्य सुनिष्ठा प्रेमिकारूपेण चित्रिता अस्ति या कृष्णस्य त्यागाद् अतीव दुःखिता भवति।[42][35] किन्तु तद्विपरीतं राधातन्त्रे राधा शूरा आत्मविश्वासयुक्ता सर्वज्ञा दिव्या च दृश्यते या सर्वदा आत्मसंयमिता। राधातन्त्रे राधा न केवला कृष्णपत्नी अपितु स्वतन्त्रा देवी। अत्र कृष्णः तस्याः शिष्य उल्लेखितः।[41]
यद्यपि गौडीयवैष्णवसम्प्रदायस्य संस्थापकः चैतन्यमहाप्रभुः राधाकृष्णदेवतादम्पत्ती पूजितवान् वा न वा इति न ज्ञायते तथापि वृन्दावनप्रदेशं परितः तस्य शिष्या राधां कृष्णस्य ह्लादिनीशक्तिं प्रतिपादितवन्त आदिदेवीमातरं मत्वा। पश्चिमभारते वल्लभाचार्यस्य कृष्णसम्प्रदाये पुष्टिमार्गे राधां कृष्णस्य स्वामिनीं मत्वा पूज्यते।[43][44]
जयचेम्बुर्करस्य मते राधायाः तत्सम्बद्धिते साहित्ये न्यूनातिन्यूनं द्वे महत्त्वपूर्णे भिन्ने पक्षे स्तः यथा श्रीराधिकानामसहस्रे। एकस्मिन् पक्षे सा गोपी अस्ति अन्यत्र देवता इति ।[45] सा भारतीयकलासु कृष्णेन सह अर्धनारीरूपेण अपि दृश्यते। तत् महाराष्ट्रादिषु आविष्कृतासु शिलासु च शिवब्रह्मवैवर्तपुराणादिग्रन्थेषु च दृश्यते। एतेषु ग्रन्थेषु अयं अर्धनारीश्वरः कदाचित् अर्धराधावेणुधरमूर्तिः उच्यते। राधाकृष्णयोः पूर्णसंयोगस्य अभेद्यत्वस्य च द्योतकः।[46]
विंशतमशताब्द्या अष्टमे दशके कालिकाप्रसादशुक्लस्य राधायाः सार्वभौमप्रेमिरूपेण कृष्णभक्तिं प्रति केन्द्रितं श्रीराधाचरितमहाकाव्यं विंशतितमशतके संस्कृतभाषायां दुर्लभेषु उच्चगुणवत्सु ग्रन्थेषु अन्यतमम्।[47]
राधा च सीता च सनातनधर्मस्य द्वौ पक्षौ दर्शयतः।[48] यदि सीता पारम्परिकपतिव्रता विधिवद्विवाहिता स्वपतिं पुण्यवन्तं गम्भीरं रामं[49][50][51] समर्पिता तर्हि राधा लीलाधरस्य वंशीवादकस्य महाशक्तिः यस्याः नाम बहुवारं श्रीकृष्णस्य उपरि मन्यते।[49][48] पौवेल्स वदति यदि सीता राज्ञी अस्ति या स्वस्याः मर्यादां जानाति तर्हि राधा केवले स्वप्रमिणि कृष्णे संलग्ना। द्वे अपि जीवनदुःखानि सोढ्वा स्वप्रेम्णं प्रति समर्पिते। उभये ख्यापिते पूजिते देव्यौ अस्माकं संस्कृतेः।[48]
सा प्रायः कृष्णेन सह तथा गोपीभिः सह व्रजभूमौ चित्रिता। राधाकृष्णाधारितविविधकलारूपा मुख्यतया गीतगोविन्देन रसिकप्रियया च प्रेरिताः सन्ति।[52][53] राजपूतचित्रेषु राधा सौन्दर्यम् आदर्शं च द्योतयति। सा शाटिकां धरति तथा आभूषणैरलङ्कृता अस्ति।[54][55] किशनगढचित्रेषु राधा घाघराचोलीवस्त्रे सुन्दरवेषधारिणीरूपेण मौक्तिकभूषणानि च शिरसि कृष्णवर्णीयम् आच्छादिकां धारयन्ती दृश्यते । कलाकारो निहालचन्दस्य प्रसिद्धं बनीठणीचित्रं राधया प्रेरितं यस्मिन् तीक्ष्णभ्रूः कमलनयने कृशाधरौ शितनासिकाहनोश्च सन्ति।[56] [46]
कलाप्रदर्शनेषु राधा कृष्णेन सह अर्धनारीरूपेण अपि दृश्यते। राधाकृष्णमन्दिरेषु राधा हस्ते मालम् आदाय कृष्णस्य वामे तिष्ठति।[57] प्रायः पारम्परिकशाटिकाम् अथवा घाघराचोलीवस्त्रं धरति। तस्याः आभूषणानि धातुना मौक्तिकेन पुष्पेण वा निर्मितानि भवन्ति।[58] संस्कृतशास्त्रे ब्रह्मवैवर्तपुराणे राधा सुवर्णवर्णा रत्नपुष्पमालधारिणी सुन्दरयुवती वर्णिता।[59]
नररूपे राधा वृन्दावनस्य तां गोपीं मत्वा या कृष्णप्रिया जाता पूज्यते। राधाया मूलवैशिष्ट्यं कृष्णं प्रति तस्या अचलप्रेम विद्यते। तस्या दुःखानि प्रेम्णो दौर्गम्यं दर्शयति।[60]
राधा बरसानायाः यदुराजेन वृषभानुना तस्य भार्यायां कीर्तिदायां सञ्जाता।[61][62][63] तस्या जन्मस्थानं रावलः अस्ति यद् उत्तरप्रदेशस्य गोकुलस्य समीपे एकं लघुनगरं परन्तु प्रायः बरसाना कथ्यते यत्र सा अभिवर्धिता ।[64] लोककथानुसारं यमुनानद्यां प्लवमानस्य तेजयुक्तपद्मस्य उपरि वृषभानुना राधा प्राप्ता। राधा कृष्णाद् नवमासेभ्यो ज्येष्ठा आसीत्।[65] सा तावत् नेत्राणि न उद्घाटितवती यावत् कृष्णः एव बालरूपेण तस्याः पुरतः प्रादुर्भूतः।[66][67][68]
अष्टसखयो राधायाः बाल्यकालस्य यौवनस्य च अभिन्नाः भागाः सन्ति। अष्टसखयः सर्वे राधाकृष्णयोर्मित्राणि व्रजदेशे गोलोकाद् अवतीर्णानि इति विश्वासः अस्ति । अष्टसु सखिषु ललिता विशाखा च प्रमुखे।[69] चैतन्यचरितामृतस्य अन्त्यलीलानुसारं राधा बाल्यकाले दुर्वासामुनेः वरं प्राप्तवती यत् सा यत् किमपि पचेत् तदमृतादपि श्रेष्ठं भविष्यतीति।[70]
राधाया यौवनं कृष्णेन सह दिव्यलीलाभिः परिपूर्णम् अस्ति।[71] राधाकृष्णस्य केचन लोकप्रिया लीलाः एताः सन्ति। रासलीला च राधाकुण्डलीला च गोपाष्टमीलीला[72] च लकुटिप्रहारहोलिका च सेवाकुञ्जलीला च यस्यां श्रीकृष्णो राधादेव्याः शृङ्गारं करोति [73] तथा मानलीला[74] यस्यां भक्ते तावत् प्रेमो वर्धितः यस्मात् सह क्रोधकरणस्य अधिकारमपि प्राप्नोति तथा मयूरकुटीरलीला यस्यां कृष्णः राधां तोषयितुं मयूरवेषं धृत्वा नृत्यति स्म[75] तथा गोपदेवीलीला यस्यां कृष्णः राधां मिलितुं स्त्रीरूपं धरतिस्म तथा लीलाहवं च यस्मिन् राधाकृष्णौ परस्परं वस्त्राणि धरतः स्म।[76]
राधाकृष्णयोर्द्विविधौ सम्बन्धौ स्तः। परकीयाप्रेम यस्मिन् लोकमर्यादा न भवति तथा स्वकीयाप्रेम यद्विवाहसम्बन्धः कथ्यते। राधा कृष्णं पृष्टवती किमर्थं विवाहं कर्तुं न शक्नोषीति। उत्तरं प्राप्तं विवाहस्तु द्वयोरात्मनोः संयोगः त्वमहं च एको हि। आत्मना सह कथमहम् उद्वहामीति।[77][35]
संस्कृतग्रन्थयोः ब्रह्मवैवर्तपुराणे च गर्गसंहितायां चोक्तं यत् कृष्णः वृन्दावनात् निर्गन्तुं पूर्वं भाण्डीरवने ब्रह्मसान्निध्ये राधया सह गुप्तरूपेण उद्वाहितः।.[78] यत्र राधाकृष्णयोर्विवाहो जातः तत् स्थानं वृन्दावनस्य बहिरद्यापि वर्तते। तत् राधाकृष्णविवाहस्थली कथ्यते। ब्रह्मवैवर्तपुराणे उल्लिखिता कथा सूचयति यद्राधा सर्वदा कृष्णस्य दिव्यपत्नी आसीत् परन्तु स्वकीयाया अपेक्षया परकीयासम्बन्धं महत्त्वं दातुं राधाकृष्णयोर्विवाहो गुप्त एव स्थापितः।[79][80][81][82]
गर्गसंहितायाः ब्रह्मवैवर्तपुराणस्य च अनुसारं राधा अपि कृष्णस्य प्रस्थानानन्तरं स्वगृहं त्यक्त्वा बरसानायां स्वस्य छायां स्थापय इति कदलीवनं गता। अष्टसखिभिः सह राधा अस्मिन् वने उद्धवं मिलितवती यः तेभ्यः कृष्णसन्देशं प्रोक्तवान्।[83][84]
ब्रह्मवैवर्तपुराणे कृष्णजन्मखण्डे पञ्चविंशत्यधिकैकशततमाध्याये[85] च गर्गसंहितायाम्[86] अश्वमेधखण्डे एकचत्वारिंशदध्याये च उक्तं यत् शतवर्षाणां विरहस्य शापस्य समाप्तेः अनन्तरं कृष्णः पुनः व्रजम् आगत्य राधां गोप्यश्च च मिमेल।[lower-alpha 1] किञ्चित्कालं यावत् दिव्यलीलां विधाय कृष्णः विशालं दिव्यरथम् आहूतवान् यद् व्रजवासिनः राधागोपीभिः सह पुनः स्वस्य दिव्यनिवासं गोलोकं प्रति नीतवान् यत्र राधाकृष्णयोः अन्तिमं पुनर्मेलनम् अभवत्। [87][88]
ब्रह्मवैवर्तपुराणे राधा कृष्णाद् अविच्छिन्ना मुख्यदेवीरूपेण दृश्यते। सा मूलप्रकृतेः मूर्तरूपत्वेन उल्लिखिता यस्माद् आदिबीजाद् भूतानि उत्पन्नानि। पुरुषस्य कृष्णस्य सङ्गमे सा गोलोके निवसति इति कथ्यते यद् विष्णोर्वैकुण्ठाद् दूरमुपरि गोगोपालानां लोकः अस्ति। अस्मिन् दिव्यलोके कृष्णराधौ शरीरात्मानौ इव तिष्ठतः।[89][90]
कृष्णसम्प्रदायानुसारं राधा मुख्या देवता अस्ति। कृष्णस्य मायया प्रकृत्या च सह सम्बद्धा अस्ति। परमलोकस्य गोलोकस्य राधा कृष्णेन सह संयुज्यते तस्यैव शरीरे च तिष्ठतीति कथ्यते। राधाकृष्णयोः सम्बन्धः क्षीरधावल्यौ भूगन्धौ चेव अभेद्यः अस्ति। राधायाः तादात्म्यस्य एष स्तरः प्रकृतित्वेन तस्या भौतिकस्वभावम् अतिक्रम्य चिद्रूपे विद्यते इति श्रीबृहन्नारदीयपुराणोत्तरभागे वसुमोहिनीसंवादे पुरुषोत्तममाहात्म्ये कथितम्। अस्मिन् रूपे राधा कृष्णस्य समाना विद्यते परन्तु तस्मात् वियोगे अयं तादात्म्यविलयः समाप्त इव भाति। विरहानन्तरं सा देवी मूलप्रकृतीश्वरीरूपे प्रकटिता या जगत्कर्त्री सर्वेशी सर्वसूतिका कथ्यते[91][92] इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे राधाकृष्णसहस्रनामकथने चतुर्दशाधिकद्विशततमे श्लोके वर्णितम्।
षोडशशताब्द्याः भक्तकविः राधावल्लभसम्प्रदायस्य संस्थापकस्य श्रीहितहरिवंशचन्द्रमहाप्रभोः हितचौरासीनामग्रन्थे राधाराणी एकपरमदेवतायाः स्थितिं प्रति उन्नता यत्र कान्तः कृष्णः तस्या अत्यन्तम् आत्मीयः अस्ति। अस्य मतस्य पूर्वं जयदेवस्य गीतगोविन्दे कृष्णो राधां प्रति समर्पितः।[93] यथा श्रीकृष्णेन देहि पदपल्लवमुदारम् इत्युक्तः।[94]
राधा कृष्णप्रेम्णो मूर्तरूपा मन्यते। चैतन्यमहाप्रभुना आरोपितसिद्धान्तानुसारं कथ्यते यत् कृष्णस्य तिस्रः शक्तयः सन्ति अन्तर्गता बुद्धिः च बाह्या रूपजनयित्री तथा च अद्वितीया या जीवभूतानि जनयति। तस्य मुख्यशक्तिः चिदानन्दम् अनुभावयति। एषा प्रीतशक्तिरिति भासते। यदा एतत् प्रेम भक्तस्य हृदये शाम्यति तदा महाभावो सम्भवति। यदा प्रेम सर्वोपरि भावे प्रतिष्ठति तदा सर्वतः प्रियतमा सर्वगुणसम्पन्ना राधा अन्ते सम्भवति। सा कृष्णस्य परमप्रेम द्योतयति। हृद्गताः काश्चन भावनाः तस्या अलङ्काराः सूच्यन्ते।[95]
नारदपञ्चरात्रसंहितायां राधा कृष्णस्य स्त्रीस्वरूपा उल्लिखिता अस्ति। वर्ण्यते यदेकः परमप्रभुर्द्वौ भूत्वा प्रतिपादित एका स्त्री अपरश्च पुरुषः। कृष्णः पुरुषरूपं धरति स्म स्त्रीरूपं तु राधा तथा। राधा कृष्णस्य आदिशरीराद् निर्गत्य तस्य वामभागं भूत्वा इहलोके अपि च गोलोके च तेन सह प्रेमलीलाम् आचरति। [96][97]
राधा प्रायः देवीलक्ष्म्या मृदुपक्षं द्योतयति तथा च लक्ष्म्या अवतारत्वेन अपि पूज्यते। देवकृतलक्ष्मीस्त्रोते[98] देवी लक्ष्मीः राधास्वरूपा समाख्याप्य प्रशंसिता।[99]
कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम्। रासे रासेश्वरी त्वं च वृंदावन वने वने॥
गर्गसंहितानुसारं रासलीलायां गोपीनाम् अनुरोधेन राधाकृष्णौ तान् अष्टभुजस्वरूपं प्रदर्श्य स्वलक्ष्मीनारायणरूपे प्रकटितौ।[100][101]
तथाऽस्तु चोक्त्वा भगवान् गोपीव्यूहस्य पश्यतः। दधाराष्टभुजं रूपं श्रीराधारूपमेव च॥
राधा आदर्शकान्तारूपे प्रशंसिता अस्ति। गीतगोविन्दे राधा विवाहिता वा कुमारी कन्या वा इति न निश्चितम्। परन्तु राधाकृष्णयोः सम्बन्धः परकीयारासं संसूच्य वृन्दावनवने गुढत्वेन दर्शितः। एतत् तस्मात् श्लोकाद् अवगन्तुं शक्यते यस्मिन् मर्यादां द्योतयन् कृष्णस्य पिता नन्दः कृष्णं गृहं गमयितुं राधाम् आदिशति यतो झञ्झावातो वृन्दावनसमीपम् आयाति स्म किन्तु ताभ्याम् आदेशः अवहेलितः।
मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमैर्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय।
इत्थं नन्दनिदेशितश्चलितयोः प्रत्यध्वकुञ्जद्रुमं राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥—जयदेवः, गीतगोविन्दे प्रथमसर्गे प्रथमश्लोके
गीतगोविन्दे राधा श्रीकृष्णस्य सङ्गिनी प्रतिष्ठति। सा न भार्या न वा भक्ता वा ग्राम्यक्रीडासहचरी। सा एकप्रगाढप्रेमिका या श्रीः चण्डी मानिनी भामिनी कामिनी च सम्बोधिता। सा प्रौढे अनन्यप्रेम्णि कृष्णस्य सहभागिनीरूपेण चित्रिता अस्ति। [21] विद्यापतेर्ग्रन्थे राधा द्वादशवार्षिका बालिका चित्रिता अस्ति। कृष्णः तु तस्या अपेक्षया किञ्चिद् ज्येष्ठ आक्रामकश्च प्रेमी चित्रितः । कविचण्डीदासस्य कृतौ राधा लोकापवादाद् निर्भीता साहसिनी चित्रिता अस्ति। राधया कृष्णप्रेम्णि सर्वं लोकौचित्यम् अवमन्यते।
कृष्णप्रेम्णि राधा लोकापवादान्न बिभेति। चण्डीदासेन चित्रिता राधा गौडीयवैष्णवानुकूला अस्ति।[102]
रसिकप्रियायां व्रजग्रन्थिकायां राधा कृष्णस्य धर्मपत्नी चित्रिता अस्ति । राधाकृष्णयोः प्रेमविषये बहुचित्रितो ग्रन्थोऽयं वर्तते। रीतिकाव्यपरम्परायाः प्रमुखेन लेखकेन केशवदासेन लिखितः। ऋतिकाव्यसाहित्ये विशषतो रसिकप्रियायां राधा लोकानुकूलनायिकारूपेण चित्रिता अस्ति तथा कृष्णसम्बद्धम् उद्हर्तुं प्रयुक्ता अस्ति। केशवदासः तां परकीयानायिकारूपेण न अपि तु समग्रतया तां स्वकीयानायिकारूपेण प्रस्तौति यस्या हृद्गतः तस्याः कृष्णः वर्तते। यदि सा तस्माद् वियुक्ता तर्हि क्षणिकमेव यतः लोकमनितप्रेमरूपेण तौ सदा सम्बद्धौ स्तः। राधा कृष्णस्य योग्या पत्नी इति प्रथमे प्रभावे प्रथमचतुष्पद्यां स्पष्टतया उक्तः। अत्र केशवदासो राधाकृष्णयोः संयोगं सीतारामयोः संयोगं च तोलयति।
केसव एक समै हरि-राधिका आसन एक लसैं रँगभीनें।
आनँद सों तिय-आनन की दुति देखत दर्पन में दृग दीनें॥
भाल के लाल में बाल बिलोकि तहीं भरि लाल न लोचन लीनें।
सासन पीय सबासन सीय हुतासन में मनो आसन कीनें॥—केशवदासः, रसिकप्रियाप्रथमप्रभावे द्वाविंशचतुष्पद्यां
अस्मिन् श्लोके केशवदासो राधां न केवलम् अस्मिन् जन्मनि अपितु पूर्वजन्मनि अपि कृष्णस्य पत्नीम् आख्यापयत्। रसिकप्रियायां तृतीयाध्याये चतुस्त्रिंशत्तम्यां चतुष्पद्यां राधा मध्यारुढयौवना नायिका चित्रिता या सुवर्णवर्णा परमाङ्गना सुगन्धिका अलौकिकसुन्दरी वर्णिता। तृतीयप्रभावे अष्टत्रिंशत्तमचतुष्पद्याम् एका सखिरन्यां सखिं प्रोक्तवती।
आजु मैं देखी है गोपसुता इक होइ न ऐसी अहीर की जाई। देखतहीं रहियै दुति देह को देखे तें और न देखी सुहाई॥ एक ही बंक बिलोकनि ऊपर वारैं बिलोकि त्रिलोक-निकाई। केसवदास कलानिधि सो बर बूझियै काम कि मेरो कन्हाई॥
अत्र राधा कृष्णस्य पत्नी वर्णिता। अतिशयपद्येषु यदा तस्या नाम उल्लेखिता तदा सा अत्यन्तसौन्दर्यपूर्णा पुण्यवती कथिता। तस्याः पतिः कृष्णः प्रेम्णि वशीभूतः कथ्यते। केशवदासो रसिकप्रियायां लिखितवान् यद् यद्यपि बहुत्र स्त्रियः पतिदेवता दृश्यन्ते परन्तु कृष्णवत् पतिं द्रष्टुं न तावत् सुलभं यः स्वपत्नीं राधां देवीं मन्यते तथा तस्या वाणीं वेदवाणीम् इव अटला मन्यते। तथा च स तस्याः सर्वं मनोरथम् अनुमन्यते।७।६॥[103] ब्रह्मवैवर्तपुराणे राधाकृष्णौ स्वकीयासम्बन्धम् आचरन्तौ दम्पती यौ परस्परं नित्यसम्बद्धौ इति अवगम्यते।[35] राधावल्लभसम्प्रदायस्य प्रसिद्धः कविर्ध्रुवदासश्च रूपलाजी च व्याहुलौ उत्सवकेपद नाम कृतिं रचितवन्तौ। तन्नाम विवाहमहोत्सवगीतानि येषु राधाकृष्णयोः शाश्वतविवाहम् अस्तूयत।[104] भारतस्य महाराष्ट्रराज्ये राधा कृष्णस्य तत्रत्यस्वरूपस्य विठोबानामधेयस्य पत्नीरूपेण राहीनाम्ना पूज्यते।[105][106]
राधादेव्याः पूजनस्य मुख्यः अनुवर्तको राधावल्लभसम्प्रदायो विद्यते यत्र देवी राधा परमदेवतारूपेण पूज्यते कृष्णश्च तदनु तिष्ठति।[12]
अष्टादशतमख्रिष्टशताब्द्यां कोलकातानगरे सखीभावकसमुदाय आसीत्। यस्य सदस्या गोपीभिः सह एकीभावाय महिलावेषं धरन्ति स्म।[107]
केषुचित् कार्ष्णिसम्प्रदायेषु राधा कृष्णं प्रति प्रेमभावनां द्योतयति।[16] एतासां रीतीनां केषाञ्चन अनुयायिनां कृते तस्या महत्त्वं कृष्णस्य महत्त्वं क्रामति अतिमन्यते अपि वा। नेपाले तथा पश्चिमबङ्गमणिपुरासमहिमाचलप्रदेशोत्तराखण्डहरियाणादेह्लीराजस्थानगुर्जरप्रदेशोत्तरप्रदेशबिहारझारखण्डमध्यप्रदेशौडिशेत्यादिषु अनेकेषु भारतीयराज्येषु राधायाः पूजा भवति। अन्यत्र[108] च सा सम्मान्या देवता अस्ति। महाराष्ट्रराज्ये तु राधा राहीरूपेण पूज्यते।[109] निम्बार्कसम्प्रदाये तथा चैतन्यमहाप्रभोः आगमनानन्तरं गौडीयवैष्णवपरम्परायाम् अपि राधा कृष्णस्य मूलशक्तिः परमदेवी मन्यते।[16][110] निम्बार्काचार्यः प्रथमः सुप्रसिद्धो वैष्णवविद्वान् आसीत् यस्य कृतं धर्मशास्त्रं राधाऽधारितम् आसीत्।[31][111][112]
पञ्चादशशताब्द्यारभ्य बङ्गदेशे असमदेशे च तान्त्रिकवैष्णवसहजीयापरम्परा प्रफुल्लिता तत्सम्बन्धितं बाउलेति तथा। यत्र कृष्णः पुरुषस्य अन्तर्दैविकः पक्षो राधा च स्त्रिपक्षं स्तः यच्च तेषां विशिष्टे मैथुनसंस्कारे समावेशितम्।[113][114]
राधाकृष्णयोः द्विविधयोः सम्बन्धयोः गौडीयपरम्परायां प्रेम्ण उच्चतमः परकीयारासो मन्यते यत्र राधाकृष्णौ वियुक्तौ सन्तौ अपि विचारान् अन्योन्यं प्रदत्तः। गोपीनां कृष्णं प्रति यत् प्रेम विद्यते तदपि ईश्वरं प्रति स्वतःस्फूर्तप्रेम्णो गूढ उच्चतमभावो वर्णितः न तु कामवृत्तम्।[115]
राधे कृष्ण राधे कृष्ण कृष्ण कृष्ण राधे राधे। राधे श्याम राधे श्याम श्याम श्याम राधे राधे॥
ॐ वृषभानुजायै विद्महे कृष्णप्रियायै धीमहि तन्नो राधा प्रचोदयात्।
राधाष्टमी इति राधाजयन्ती अपि उच्यते। श्रीराधायाः प्रादुर्भाववार्षिकीरूपे आचर्यते इयम्। हिन्दुपञ्चाङ्गानुसारं कृष्णजन्माष्टम्याः पञ्चादशतिथ्यनु भाद्रपदमासे प्रतिवर्षं राधाष्टमी आचर्यते। येन ज्ञायते यद् राधा लोकास्थायां संस्कृतौ च स्वीकृता सम्मानिता च विद्यते।[122] व्रजक्षेत्रं विशिष्य सर्वत्रापि महोत्सवोऽयं सोत्साहम् आचर्यते। उत्सवेऽस्मिन् भक्ता नृत्यन्ति गायन्ति उपवसन्ति राधादेवीम् अभिषिञ्चन्ति प्रार्थयन्ति स्तुवन्ति तथा च राधादेव्यै पुष्पाणि मिष्टान्नानि भोगं च अर्पयन्ति अपि च तस्या आरतिम् अपि विदधति।[123] श्रीराधादेव्या जन्मस्थलस्य बरसानानगरस्य राधाराणीमन्दिरे अयं उत्सवः भव्यतया आयोज्यते। तदुपरि वृन्दावनस्य सर्वेषु मन्दिरेषु तथा च विश्वस्य सर्वेषु इस्कोन्मन्दिरेषु अयम् आचर्यते यत एष उत्सवः अनेकेषां वैष्णवसम्प्रदायानां कृते प्रमुख उत्सवः वर्तते।[124]
रङ्गोत्सवो होल्याख्य उत्सवोऽप्ययं राधाकृष्णयोर्दिव्यं प्रेम प्रकाशयति। मथुरा वृन्दावनं च तयोर्होलिकाऽयोजनाय सुविख्यापितौ। लोककथेयं यद् बालकृष्णः स्वमातरं यशोदां दुःखितः सन् पृच्छति स्म कुतोऽहं कृष्णवर्णो राधिका च गौरवर्णा। यशोदा प्रत्युवाच स्वेप्सितो रङ्गो राधिकाया मुखे आलिप्यतामिति एवं व्रजहोली सञ्जाता। बालकृष्णः स्वग्रामाद् नन्दगाँवाद् राधाया ग्रामं बरसानां याति स्म तत्र कन्यका राधा गोपिकाभिः सह विनोदाय बालकृष्णे लगुडं प्रहरति स्म।
सम्प्रति बरसानाग्रामे निर्धारिततिथेः पञ्चदिवसं पूर्वम् आरभते तथा तदग्रिमे दिने नन्दगाँवे आरभते। मथुरावृन्दावनयोः बहुप्रकारेण अयम् आयोज्यते यथा
बरसानानन्दगाँवक्षेत्रे लट्ठमारहोली ॥लगुडप्रहारहोलिकेति॥ प्रख्याता अथ च वृन्दावने विधवाहोली चापि गोवर्धनपर्वतसमीपे गुलालकुण्डे फूलोंवालीहोली ॥ पौष्पी होली॥ इति यस्मिन् रासलीलया सह पुष्पेभ्यो होलिका आचर्यते।[125]
अस्मिन् तिथौ जनाः श्रीकृष्णस्य राधागोपिकाभिः सह रासलीलां कीर्तयन्ति। अस्मिन् दिने मन्दिरेषु राधाकृष्णौ शुक्लवस्त्रैः पुष्पमालादिभिः कान्तियुतैराभूषणैश्च भूष्येते।[126]
श्रीकृष्णस्य प्रियतमाया राधायाः प्रियं दिनम् एतत् परिगण्यते। अस्मिन् दिने राधाकृष्णौ रासनृत्यम् आचरितवन्तौ अपि च कृष्णः राधाम् ऊढवान् इति विश्वसन्ति। दिवसेऽस्मिन् श्रीकृष्णो राधादेवीं पूजयामास इत्यपि लोकमतम्। जगन्नाथपुरीं समेत्य अन्येषु सर्वेषु राधाकृष्णमन्दिरेषु कार्त्तिकपूर्णिमायां रासलीला आयोज्यते। सम्पूर्णे कार्तिकमासेऽपि जनाः पुण्यसङ्कल्पं धरन्ति। श्रीब्रह्मवैवर्तपुराणे वर्णितो यत् कार्त्तिकपूर्णिमायां राधिकाप्रतिमापूजनेन जन्मबन्धनात् मुच्यते।
कार्त्तिक्यां पूर्णिमायां च राधिकाप्रतिमां शुभाम् । संपूज्य दृष्ट्वा नत्वा च करोति जन्मखण्डनम्॥
इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे षट्सप्ततितमोऽध्याये विंशतितमेश्लोके।
ततः प्रियतमा विष्णो राधिका गोपिकासु च । कार्त्तिके पूजनीया च श्रीदामोदरसन्निधौ ॥ द्विजं दामोदरं कृत्वा तत्पत्नीं राधिकां तथा । कार्त्तिके पूजनीयौ तौ वासोऽलङ्कारभोजनैः ॥ राधिकाप्रतिमां विप्राः पूजयेत् कार्त्तिके यः । तस्य तुष्यति तत्प्रीत्यै श्रीमान् दामोदरो हरिः॥
इति श्रीराधादामोदरपूजाविधौ।[127] अत्र वर्णितो यद् कार्त्तिके श्रीराधा दामोदरेण सह वस्त्रैः भोजनैः अलङ्कारैः पुजनीया। अनेन श्रीमान् दामोदरः तुष्यते।[128]
राधाकृष्णौ अधुनाऽपि विभिन्नकलासाहित्यकृतयः प्रेरयतः।[14][15][129] सहस्रवर्षैः तयोः प्रेम अगण्योत्तमचित्रेषु चित्रितम् अस्ति येषु प्रेमिकाया वियोगः संयोग आकाङ्क्षा परित्यागश्च परिदृश्यते।[130] पट्टचित्रं नाम ओडिसाराज्यस्य विशिष्टकलासु अन्यतमम् विद्यते। एवंविधचित्रेषु कृष्णस्य चित्रणं नीलवर्णेन कृष्णवर्णेन वा भवति प्रायः राधया सह। राजस्थानीयकला लोककलायाः पारम्परिकसिद्धास्थामूल्यैः संयोगात् समुद्भूतवती । राजस्थानीयलघुचित्रेषु कृष्णराधौ मुख्यपात्रौ स्तः। एतादृशेषु चित्रेषु तयोः प्रेम सौन्दर्येण प्रदर्शितम्।[131] पार्व्वतचित्रेषु प्रायः नायकः कृष्णरूपेण नायिका च राधारूपेण चित्रिता भवतः। कृष्णराधयोराख्यायानं तयोः प्रेम च सामान्यतया पार्व्वतचित्रकारेभ्यो विशेषतया च गढवालस्य कलाकारेभ्यः समृद्धचित्र्याणि उपालाभयताम्।[132] काङ्गराचित्रकला केशवदासस्य लोकप्रियकाव्यकृतिरसिकप्रियाप्रेरितं प्रेम प्रधानतया प्रदर्शयति। अस्यां कलायां बहुधा प्रेमी स्वस्य उपस्थितेरनभिज्ञां प्रियां पश्यन् दृश्यते तदर्थमेव कृष्णः स्वसन्निधौ अनभिज्ञां राधाम् अभीक्षते।[133] राधाकृष्णयोः तत्रत्यकलाकाराः प्रेम्णः सर्वोच्चादर्शस्य प्रतिरूपम् लभन्ते। मधुवनिचित्रकला बिहारस्य मनमोहककला अस्ति। मधुवनिचित्राणि बहुदा लोककथाधारितानि भवन्ति। चित्रेषु राधाकृष्णाभ्यां सह शिवपार्वत्यौ अपि प्रमुखतया प्रदृश्येते। कृष्णो राधा च राजपूतचित्राणाम् अभीप्सितविषयेषु अन्यतमो यतः तौ जीवात्मनः परमात्मना सह संयोगकामनायाः प्रतीकः स्तः। राजपूतचित्रेषु राधा सर्वदा शुभ्रतरा भूषिता। अलङ्कारभूषिता सा प्रायः कृष्णसमीपम् आसीना शुक्लमालधारिणी चित्रिता।[55][54] हिमाचलप्रदेशपञ्जाबयोः चम्बाचित्रेषु प्रायः वर्षाकालस्य चित्तहरवातावरणं दृश्यते यत्र राधाकृष्णौ मुख्यदम्पती चित्रितौ।
सुविख्यातं शास्त्रीयनृत्यं मणिपुररासलीलां प्रथमवारं राजा भाग्यचन्द्रः ऊनसप्तत्योत्तरसप्तदशशततमे ख्रिष्टाब्दे आरभत। राधाकृष्णयोः रासलीलया प्रेरितो राजा रासस्य रूपत्रयं प्रावर्तत महारासं कुञ्जरासं वसन्तरासं च। कालक्रमे मणिपुरराजानो रासस्य रूपद्वयमपि नित्यरासं देवरासं च कलासंस्कृतौ अभ्युदचिन्वन्। एतेषु नर्तका राधाकृष्णगोपीरूपाणि नटन्ति। मणिपुरराज्ये अद्यापि एतानि नर्तनानि प्रचलन्ति आनर्त्ते अपि च कार्तिकशरत्पूर्णिमाद्योः।[134][135]
अन्यदपि शास्त्रीयनृतिः कथाकेळिरपि वैष्णवैश्च राधाकृष्णसंस्थिताभिः गीतगोविन्दपरम्पराभिः प्रभाविता।[136] उत्तरीयभारतस्य कथकनर्तनस्य प्रधानप्रकरणं राधाकृष्णयोः अल्पावधिमेलनं तथा बृहत्कथाश्चापि।
कथकस्य सर्वेषु आयामेषु राधाकृष्णयोः पवित्रप्रेम निगूढमिति स्पष्टं दृश्यते तत्सङ्गीते वा वेषधारणे वा पात्रे वा।[137]
गीतगोविन्दस्य अष्टपदी अपि समकालीनायाम् ओडिसीनृतौ नाट्यते।[138] नृतिरेषा देवालयेषु समुद्भूता तदर्थं देवदासीभिर्नृत्यते स्म परन्तु सम्प्रति जनगृहेषु संस्कृतिसंस्थासु चापि आचर्यते। अस्यां प्रधानतया राधाकृष्णयोरलौकिकप्रेम प्रदर्श्यते।[139]
रसिया नामाख्या व्रजक्षेत्रस्य सुविख्यातं लोकसङ्गीतं वर्तते। एतत् सङ्गीतं प्रायः तत्रत्येषु ग्रामोत्सवेषु च मन्दिरेषु च संप्रवद्यते। राधाकृष्णयोर्दिव्यं प्रेम प्रदर्शनाय रसियायाः परम्परागतगीतानि गीयन्ते। प्रायः एतानि राधाभिमुखं लिख्यन्ते येषु श्रीकृष्णस्य विलासः प्रदृश्यते।[140][141][142]
व्रजवासिभिः सह बहवो भक्ता सम्पूर्णे विश्वे अद्यापि राधेराधे जयश्रीराधे राधेकृष्ण राधेश्याम इत्यादिभिर्वचनैः परस्परम् अभिवन्दन्ते। स्वमनः राधां तथा राधाकृष्णसम्बन्धं प्रति नेतुम्। वृन्दावनमन्दिरेषु राधाविहीना कृष्णप्रतिमा सुदुर्लभा। [143]
ओडिसायाः संस्कृतौ कृष्णो लोकनायकः तस्य स्वरूपो श्रीजगन्नाथश्च ओडिसाभिमानस्य द्योतकः। कृष्णप्रिया श्रीराधा कृष्णस्य शक्तिश्च जगच्छक्तिं द्योतयन्ती प्रतिष्ठिता।[122] सा कृष्णस्य ह्लादिनीशक्तिः कथ्यते तथा जगतः शुक्लवृत्तिर्दुर्गा कृष्णवृत्तिश्च महाकाली अभिज्ञायते। राधाकृष्णौ ओडियाजनमानसे प्रविश्य तत्रत्य कवीनां कल्पशक्तिम् अभ्यवर्धेताम्। श्रीराधा जनमानसे आदर्शप्रेमिकास्वरूपे विराजते।[144]
चैतन्यमहाप्रभोः वल्लभाचार्यस्य चण्डीदासस्य अन्यानां च परम्पराणां मन्दिरेषु राधाकृष्णौ एव प्रधानतया विराजेते। तेषु श्रीराधा कृष्णस्य सुसमीपं तिष्ठति।[110] तीर्थानां केचन प्रमुखानि अत्र वर्ण्यन्ते।
प्रसिद्धौ नारायणभट्टस्य वेणीसंहारं च आनन्दवर्धनस्य ध्वन्यालोकं च समेत्य बहुषु जैनभाष्येषु राधादेवी वर्णिता। नवख्रिष्टशताब्द्यारभ्य द्वादशख्रिष्टशताब्दीपर्यन्तमपि जैनविद्वांसः सोमदेवसूरिविक्रमभट्टसदृशाः स्वकृतीषु राधाम् आख्यान्ति स्म। सिक्खगुरुगोबिन्दसिंहोऽपि स्वग्रन्थेषु राधां वर्णयामास।[34][21]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.