From Wikipedia, the free encyclopedia
माघमासस्य शुक्लपक्षस्य सप्तम्यां तिथौ आचर्यते एतत् पर्व । अस्मिन् पर्वणि आराध्यमानः देवः सूर्यः । एतत् पर्व “अचला सप्तमी” इत्यपि उच्यते । “रथवरः” इत्याख्यानः सूर्यः सप्तम्यां तिथौ पूज्यते इति तद्दिनं रथसप्तमी इति उच्यते । देवालयेषु अस्मात् दिनात् रथोत्सवस्य आरम्भः भवति इत्यस्मात् अपि एतद्दिनं “रथसप्तमी” इति उच्यते । एषा सप्तमी तिथिः अक्षयतृतीया इव अचलं फलं ददाति इत्यस्मात् एतद्दिनम् “अचला सप्तमी” इत्यपि उच्यते ।
परम्पराः
|
तत्त्वज्ञानिनः
|
अन्यविषयाः
|
प्रवेशद्वारम्:सनातनधर्मः |
इत्यत्र माघमासस्य शुक्लपक्षस्य सप्तमी सूर्यग्रहणतुल्या इति उक्तम् अस्ति । रथसप्तमी मन्वादिषु परिगणिता इत्यस्मात् तद्दिने मन्वादियुक्तरीत्या श्राद्धं तदधिकारिणः आचरेयुः । अस्मिन् दिने अरुणोदयकाले स्नानं कुर्वन्ति चेत् तत् स्नानम् अक्षयं फलं ददाति इति ।
समग्रे माघमासे उषःकाले स्नातुं न शक्यते चेदपि सङ्क्रमण-रथसप्तमी-माघी इत्याख्येषु त्रिषु दिनेषु वा स्नातव्यमेव इति शास्त्रवाक्यम् ।
तस्मिन् दिने यः सूर्यदेवस्य स्वर्णविग्रहं साश्वरथे संस्थाप्य दानं करोति सः अखण्डस्य भूमण्डलस्य चक्राधिपत्यं प्राप्नोति इति । रथसप्तमीदिने अरुणोदयकाले स्नात्वा जप-तप-मन्त्र-देवताराधनं कुर्वन्ति । तद्दिने समुद्रे, पुष्करादिपुण्यसरोवरे, गङ्गादिमहानदीषु वा स्नानं प्रशस्तम् । पूर्वदिने षष्ठ्यां स्नात्वा एकभुक्तिम् आचरन्ति । सप्तम्यां तु निश्चलं जलम् एव । पुण्यस्नानकरणे अनासक्तैः जनैः जलस्वर्शकरणात् पूर्वमेव स्नानम् आचरणीयम् । स्नानमपि अवगाहनस्नानं भवेत् (सम्पूर्णतया जले निमज्जनम्) । इक्षुदण्डेन जलम् आलोड्य स्नानम् आचरेयुः । शिरसि स्वर्णस्य रजतस्य अलाबुदीपपात्रे तिलतैलवर्त्तिकाभिः ज्वालितं दीपं संस्थाप्य सप्त अर्कपर्णानि सप्त बदरीपर्णानि च बाह्वोः मध्ये संस्थाप्य सूर्यदेवस्य ध्यानं कुर्युः । अनन्तरं जलेन तर्पणं कृत्वा तं दीपं जले प्रवाहयेयुः । अनन्तरम् अर्कबदरीपर्णानि, अक्षताः, चन्दनं योजयित्वा सूर्यनारायणाय अष्टाङ्गविधिना अर्घ्यं समर्पयेयुः । रक्तवर्णस्य चन्दनेन कर्णिकासहितम् अष्टदलयुक्तं पद्म रचयेयुः । तस्य पूर्वादिष् दलेषु प्रदक्षिणप्रकारेण रवि-भानु-विवस्वन्-भास्कर-सवितृ-अर्क-सहस्रकिरण-सर्वात्मक-इत्येतैः नामभिः अर्च्यमानं सूर्यदेवं, मध्ये च प्रणवसहितं सपत्नीकं शिवं लिखित्वा आवाह्य पूजयेयुः । सूर्यस्य अश्वाः सप्त । लोकाः अपि सप्त । भूगोले विद्यमानाः द्वीपाः अपि सप्त । सूर्याराधनम् अपि सप्तम्याम् एव । तस्य पूजनम् अपि सप्तसंख्याकैः अर्कपर्णैः ।
स्वार्णविग्रहे सूर्यनारायणस्य आराधनं न शक्यते चेत् जले सूर्यस्य प्रतिबिम्बस्य आराधनम् अपि कर्तुं शक्यते । तद्दिने सावित्राष्टाक्षरमहामन्त्रस्य, सूर्यगायत्र्याः, यजुर्वेदस्य अरुणमन्त्रस्य, ऋग्वेदस्य महासौरमन्त्रस्य, सौरनाम-आदित्यहृदयस्य च पारायणं कुर्वन्ति । पूजानन्तरं देवालयेषु प्रवर्तमानं सूर्यमण्डलोत्सवं रथोत्सवं वा पश्यन्ति ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.