मलयाळम्
From Wikipedia, the free encyclopedia
मलयाळम् (Malayalam) भारतीयभाषासु अन्यतमा या च केरळराज्ये अधिकतया उपयुज्यते । भारते अधिकृततया सूचितासु २२ भाषासु अन्यतमा । केरळराज्यस्य, लक्षद्वीपस्य, पुतुच्चेर्याः च राज्यभाषा विद्यते । इयं द्रविडभाषापरिवारस्य काचित् भाषा। केरळदेशे जना: मलयाळभाषया वदन्ति । ४००००००० जनाः अनया भाषया सम्भाषन्ते । इयं भाषा तमिऴ्नाडुराज्यस्य नीलगिरि-कन्याकुमारी-कोयम्बत्तुरमण्डलेषु, कर्णाटकस्य दक्षिणकन्नड-मङ्गलूरु-कोडगुमण्डलेषु च उपयुज्यते।
मलयाळम् | ||||||
---|---|---|---|---|---|---|
മലയാളം malayāḷam മലയാണ്മ malayāṇma | ||||||
मलयाळभाषायाम् लिखितः मलयाळम् | ||||||
विस्तारः | मुख्यतः भारतस्य केरळप्रदेशे | |||||
प्रदेशः | केरळ, लक्षद्वीपः, कर्णाटकः, तमिळनाडु | |||||
स्थानीय वक्तारः | वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २ | |||||
भाषाकुटुम्बः |
द्रविडभाषापरिवारः
| |||||
लिपिः | मलयाळम् लिपिः | |||||
आधिकारिकस्थितिः | ||||||
व्यावहारिकभाषा | भारतप्रदेशेषु :केरळ,[1]लक्षद्वीपः (केंद्रशासित), पुत्तुचेरी (केंद्रशासित) | |||||
नियन्त्रणम् | केरळसाहित्यअकादमी, केरळराज्यसरकारः | |||||
भाषा कोड् | ||||||
ISO 639-1 | ml | |||||
ISO 639-2 | mal | |||||
ISO 639-3 | mal | |||||
क्षेत्रम् यत्र मलयाळम् संभाषितम् | ||||||
| ||||||
|
मलयाळं ६ शतके द्रविडभाषातः उत्पन्नम् इति श्रूयते । अन्यः वादः वर्तते यत् इयं भाषा इतोपि प्राचीनतमा इति । अस्याः भाषायाः ८०% शब्दाः संस्कृतशब्दाः एव । मलयाळभाषायाः उगमात् पूर्वं प्राचीनतमिऴभाषा उपयुज्यते स्म साहित्ये, तमिऴकप्रदेशस्य सभासु च । अस्य किञ्चन उत्तमम् उदाहरणं नाम 'शिलप्पधिकारम्' । सङ्गमसाहित्ये अयं ग्रन्थः उत्कृष्टः मन्यते । अयं कोचिनस्थेन चेराराजकुमारेण इळङ्को अडिकळेन लिखितम् । सङ्गमसाहित्यस्य बहवः शब्दाः आधुनिकमलयाळभाषया संरक्षिताः सन्ति । मलयाळलेखनाय उपयुक्ता प्राचीनतमा लिपिः नाम वट्टॆऴुत्तुलिपिः। अग्रे ततः उत्पन्ना कोलॆऴुत्तुलिपिः उपयुज्यमाना अस्ति । मलयाळभाषा संस्कृतस्य शब्दसम्पत्तिं व्याकरणनियमाञ्च अङ्ग्यकरोत् तदा आर्य-एझुट्टा नामिका ग्रन्थलिपिः आधृता । इममेव आधुनिकमलयाक्लिपित्वेन परिष्कृतः । बहवः मध्यकालीनाः साहित्यग्रन्थाः मणिप्रवाळलिप्या लिखिताः सन्ति या च संस्कृत-प्राचीनमलयाळलिप्योः संयुक्तरूपा वर्तते । तमिऴपरम्परातः भिन्नः प्राचीनमलयाळसाहित्यकृतिः ९-११ शतकयोः उपलभ्यते । मलयाळभाषा संस्कृत-तमिऴभाषयोः परम्परातः उद्भूता इत्यतः भारतीयभाषासु एव अस्याः अक्षरमालायाम् अत्यधिकाः वर्णाः विद्यन्ते । मलयाळलिपिः संस्कृतशब्दानां सर्वासां द्राविडभाषाशब्दानाञ्च अभिब्यक्तौ समर्था वर्तते ।