![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/57/India-locator-map-blank.svg/langsa-640px-India-locator-map-blank.svg.png&w=640&q=50)
भेडाघाट्
From Wikipedia, the free encyclopedia
मध्यप्रदेशराज्ये जबलपुरसमीपे १२ शतकतः प्रसिद्धा गोण्डवंशीयानां त्रिपुरीनामिका राजधानी आसीत् । एतत् अतीवप्रसिद्धं सुन्दरं च स्थानम् अस्ति । जबलपुरस्य समीपे एव भारतस्य ग्र्याण्ड् केनियन्’ इति ख्यातं स्थानं भेडाघाट् अस्ति । नर्मदानद्याः जलम् उपरिष्टात् पतति । तदा तुषारैः मेघमण्डलम् इव वातावरणं निर्मितं भवति । एतत् अद्भुतदृश्यं नयनरमणीयं भवति । एतस्य धुवाधार (Smoke Cascade) इति कथयन्ति ।अत्र १५० पादपरिमितोन्नतप्रदेशात् नर्मदानदीजलं पतति । एषः सुन्दरः जलपातः अस्ति । अमृतशिलापर्वतानां मध्ये नौकायानम् अतीवानन्ददायकं भवति । हिन्दीभाषायाः अशोकचलनचित्रे अत्रत्यं दृश्यं स्वीकृतमस्ति । नौकायानार्थम् आरम्भे ११५ सोपानानि अवतरणीयानि भवन्ति । प्रपाते नदी प्रवहति । नद्याः गभीरता १५ पादमितास्ति । अपायकारी स्थलमेतत् । श्वेतशिलाभित्तिषु प्रकाशपतनेन अद्भुतं दृश्यं जले प्रतिबिम्बितं भवति । एवमेव सुन्दरप्रदेशे २ कि.मी यावत् पादचारणेन गन्तव्यम् । अमृतशिलपर्वतानां विविधाः आकृतयः मनोमोदाय भवन्ति । गजपादः, अश्वपादः इत्यादीनि अत्र दृश्यन्ते इति जनाः वदन्ति । विशेषतः पूर्णिमादिने चन्द्रिकायाम् अत्रत्यं दृश्यं वर्णनतीतं भवति । एते शिलापर्वताः जुरासिक् युगकालिकाः सन्ति । क्याप्टन् फोर्सत् The HighLands of central India इति पुस्तके एतेषां पर्वतानां सौन्दर्यविषये वर्णितवान् । नीलाकाशे श्वेतामृतशिलापर्वतेषु सूर्यप्रकाशस्य पतनं, जले प्रतिफलनं, तत्र तत्र हरितद्वर्णशिलासु अथवा कृष्णशिलासु पतत्किरणं वर्णमयवातावरणं निर्माति । प्रकाशेन अमृतशिला इतोऽपि परिशुद्धा दृश्यते ।
भेडाघाट् | |
— नगरम् — | |
निर्देशाङ्काः | |
देशः | भारतम् |
राज्यम् | मध्यप्रदेशः |
मण्डलम् | जबलपुरम् |
जनसङ्ख्या | १,८४० (2001[update]) |
समयवलयः | IST (UTC+05:30) |