![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/72/Madam_Bhikaiji_Cama.jpg/640px-Madam_Bhikaiji_Cama.jpg&w=640&q=50)
भीखाइजी कामा
From Wikipedia, the free encyclopedia
मेडम भीखायीजी कामा ( ( शृणु) /ˈbhiːkhɑːɪdʒiː kɑːmɑː/) (मराठी: भिकाईजी कामा, आङ्ग्ल: Madam Bhikaiji Cama) भारतीयस्वतन्त्रतायाः मुख्यक्रान्तिकारिणी आसीत् । तस्याः स्मरणं भारतीयराष्ट्रध्वजस्य निर्माणार्थं वयं कुर्मः । भारतीयराष्ट्रध्वजस्य विषये गहनतया विचिन्त्य 'वन्दे मातरम्'-ध्वजस्य सा रचनाम् अकरोत् । भारतमातुः सेवायै, स्वतन्त्रतायै च सा पञ्चत्रिंशत् (३५) वर्षाणि देशात् बहिः निवासम् अकरोत् । आङ्ग्लानां विरोधं कृतवत्यै तस्यै आङ्ग्लाः देशनिर्वासनस्य दण्डम् अयच्छन् । परन्तु भिन्नेषु देशेषु भ्रमन्ती सा अविरतं देशस्वतन्त्रतायै कार्यम् अकरोत् ।
त्वरिततथ्यानि Madam Bhikaiji Cama मेडम भीखाईजी कामा, जन्म ...
Madam Bhikaiji Cama मेडम भीखाईजी कामा | |
---|---|
![]() भारतमातुः प्रियपुत्री | |
जन्म |
१/१०/१८६१ मुम्बई-महानगरं, महाराष्ट्रराज्यम् (ब्रिटिशकालीने बॉम्बे-राज्ये) |
मृत्युः |
१६/८/१९३६ (७५ वयसि) मुम्बई-महानगरं, महाराष्ट्रराज्यम् (ब्रिटिशकालीने बॉम्बे-राज्ये) |
वृत्तिः |
सार्वजनिक हस्ती, Women's rights activist, स्वतंत्रता सेनानी ![]() |
कृते प्रसिद्धः |
वन्दे मातरम्-ध्वजस्य रचना, |
भार्या(ः) | रुस्तम कामा |
पिदधातु