From Wikipedia, the free encyclopedia
बांलालिपिः(वङ्ग: বাংলা লিপি Bangla lipi or वङ्ग: বাংলা হরফ Bangla horof ) एका बांलाभाषायाः लेखनपद्धतिः । बांलालिपिः पूर्वा नागरीलिपेः एका संस्कारिता लिपिः, यस्या प्रयोगः असमिया वा विष्णुप्रिया मणिपुरी लिखने अपि भवति । पूर्वा नागरीलिपेः सम्बन्धः ब्राह्मीलिपिना सह तथा देवनागर्या एवं भारतस्य अन्यलेखनपद्धत्या सह अपि आसीत् । बांलालिपिः अबुगिडा लेखनपद्धतेः प्रकारविशेषा । अस्याः लिपेः वर्णानां वामतो गतिः । प्रसिद्धा उत्तरीलिपिः (देवनागरेत्यादि)सदृशा अस्यापि लेखनशैल्यां 'शिरोरेखायाः' प्रयोगः अस्ति ।
बांलालिपिः | |
---|---|
प्रकारः | अबुगिडा |
भाषा(ः) | बांला |
स्थितिकालः | एकादश शतकतः वर्तमानकालः |
जननस्रोतः |
प्रोटो-सिनेटिक्
|
समकालीनलिपिः | असमिया लिपिः,ओड़िया लिपिः |
लेखनगतिः | वर्णानां वामतो गतिः |
युनिकोड सूची | U+0980–U+09FF |
बांलालिपेर्जन्म सिद्धमातृकालिपितः, या लिपिः भारतीयलिपिषु अन्यतमा तथा उत्तरब्राह्मीलिपेः प्रकारभेदा । बांलाभाषा व्यतिरिच्य असमिया-मनिपुरी-मैथिलीभाषी जनानामपि लेखनार्थं प्रयुज्यमाना लिपिरियम् । तथापि व्यतासस्तु अस्ति एव । यथा-
वर्णनम्
वस्तुतस्तु बांलालिपिः, अस्याः सम्पर्कः निर्दिष्टएकया भाषया सह नास्ति । मध्ययुगीयभारते (१०००- १८००) पूर्वदिशि प्रायः विकल्पेन उपयुज्यमाना लिपिः आसीत् । बांलालिपेः उच्चस्तरीकरणम् आधुनिकयुगे ईश्वरचन्द्र विद्यासागरमहोदयेन कृतम् । एषा बांलालिपिः पूर्वं संस्कृतलेखनार्थं प्रयुक्ता आसीत् । मध्ययुगस्य अनुवर्तीकाले एषा लिपिः पालि-बांला-असमियाभाषाणां मूललिपिरूपेण स्थिता आसीत् । भारतीयसाहित्य-लेखनेतिहासे अनया लिपिना रचितं बृहत्साहित्यभाण्डारम् अस्ति ।
बाङ्गलालिपेः वर्णमालायां संयुक्तवर्णाः विशिष्टाकारैः तिष्ठन्ति कदाचित् अत्यन्तविरलभङ्ग्या लिख्यते । एतस्मात् अस्याः लिपेर्शिक्षणं पठनं वा दुष्करम् भवति । तस्मात् बाङ्गलाभाषानिमित्तं बाङ्गलालिपेः उच्चस्तरीकरणस्य प्रचेष्टा बाङ्गलाशिक्षाजगति परिलक्ष्यते । उल्लेखयोग्यानि केन्द्राणि यथा-ढाका (बाङ्गलादेशः), कोलकाता(पश्चिमबङ्गराज्यम्, भारतम्) । इयं लिपिः अद्यपि सर्वप्रदेशेषु समरूपे विराजिता नास्ति । एकस्य शब्दस्य कृते विभिन्नप्रचीनरूपाणि प्रचलितानि सन्ति । अस्या लिपेः प्रादेशिकभेदेषु केवलं असमिया तथा बाङ्गलालिपयोः वैचित्राणि विधिबद्धव्यवस्था अस्ति ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.