पोताश्रयः
From Wikipedia, the free encyclopedia
पोताश्रयः ( ( शृणु) /ˈpoʊtɑːʃrəjəhə/) (हिन्दी: बन्दरगाह, आङ्ग्ल: Port) अन्ताराष्ट्रियव्यापाराय अस्माकं देशस्य प्रवेशद्वारं भवति । अयं पोताश्रयः अपि कथ्यते । एतेषां पोताश्रयाणां साहाय्येन यात्रिकाः जलयानानां वस्तूनां विश्वस्मिन् परिवाहनं कुर्वन्ति [1] ।
पोताश्रयाः जलयानेभ्यः यातायातस्य सौकर्यानि प्रददति । एतेभ्यः सौकर्येभ्यः पोताश्रयाणाम् अधिकारिणः विभिन्नसेवानाम् आयोजनं कुर्वन्ति । कस्यचित् पोताश्रयस्य महत्वं नौभारस्वरूपेण, बृहज्जलयानानां सङ्ख्यया च निश्चीयते । नौभारः पोताश्रयस्य पृष्ठप्रदेशस्य विकासस्य सूचकः वर्तते [2] ।