नागालैण्डराज्यम्
भारतस्य राजयम् / From Wikipedia, the free encyclopedia
नागाल्याण्डराज्यं (Nagaland) भारतस्य ईशान्यदिशि विद्यमानं राज्यम् । अस्य राज्यस्य पश्चिमसीमायाम् असमराज्यम्, अरुणाचलप्रदेशराज्यम्, उत्तरदिशि असमभागः, पूर्वदिशि बर्मा, दक्षिणदिशि मणिपुरराज्यञ्च विद्यते । राज्यस्य राजधानी कोहिमा, बृहत्तमं नगरं दीमापुरम् । अस्य विस्तारः १६,५७९ च कि मी। २०११ तमे वर्षे जातायाः जनगणनायाः अनुसारम् अत्रत्या जनसङ्ख्या अस्ति १९, ८०, ६०१ । सीमायां विद्यमानम् असम-उपत्यकाप्रदेशं विहाय आराज्यं पर्वतप्रदेशैः युक्तमस्ति । इदं राज्यं समभाजकवृत्तस्य पूर्वदिशि ९८० ९६० रेखांशे उत्तरदिशि २६.६० - २७.४० अक्षांशे विद्यते । भारतस्य १६ तमं राज्यं नागाल्याण्ड् १९६३ तमे वर्षे डिसेम्बर्मासस्य १ दिनाङ्के प्रतिष्ठापितं जातम् । इदं ११ मण्डलैः युक्तम् - कोहिमा, फेक्, मोकोक्चङ्ग्, वोख, झन्हेबोटो, त्यून्साङ्ग्, मान्, दीमापुर्, किफिर्, लाङ्ग्लेङ्ग्, पेरेन् च । कृषिकार्यम् अत्रत्यं प्रमुखम् आर्थिकमूलम् । व्रीहिः, धान्यकं, तमाखुः, तैलबीजानि, इक्षुदण्डः, आलूकम् इत्यादयः अत्रत्याः फलोदयाः । सस्यविज्ञानम्, गृहोद्यमः, योगक्षेमयोजना, स्थावरसम्पदा, प्रवासोद्यमः च अन्यानि आर्थिकमूलानि ।
नागाल्याण्डराज्यम् Nagaland | |
---|---|
भारते नागाल्याण्डराज्यम् | |
नागाल्याण्डराज्यस्य भूपटः | |
राष्ट्रम् | भारतम् |
उद्घोषणम् | १ डिसम्बर् १९६३ (विक्रम संवत:२०२०) (शक संवत:१० मार्गशीर्षः १८८५) |
राजधानि | कोहिमा |
मण्डलानि | ११ |
Government | |
• राज्यपालः | निखिल कुमारः |
• मुख्यमन्त्री | नेव्यु रै |
Area | |
• Total | १६५७९ km२ |
Area rank | २५तम |
Population (२०११) | |
• Total | १,९८०,६०२ |
• Rank | २४तम |
• Density | १२०/km२ |
Time zone | UTC+05:30 (भारतीय कालगणनम्) |
साक्षरतापरिमाणम् | ८०.११% (१३तम) |
भाषा | आङ्ग्लम् |
Website | http://nagaland.nic.in/ nagaland.nic.in |