तेलङ्गाणाराज्यम्
From Wikipedia, the free encyclopedia
तेलङ्गाणाराज्यं i/ˌtɛlənˈɡɑːnə/ दक्षिणभारतस्य एकं राज्यमस्ति । १९४७ तमसंवत्सरं पर्यन्तं प्रदेशोऽयं निजाम्-राज्ञा शासितस्य हैदराबाद्-राज्यस्य अंशः आसीत् । स्वाधीनभारते अन्तर्भुक्तिकरणस्य अनन्तरमपि तेलङ्गाणा हैदराबाद्-राज्यस्य एव प्रदेशः आसीत् । १९५६ तमे वर्षे हैदराबाद्-राज्यस्य विलोपं संसाध्य आन्ध्रप्रदेशस्य संरचना अभूत् । २०१४ तमवर्षस्य द्वितीये दिनाङ्के आन्ध्रप्रदेश-पुनर्निर्मानविधि-अनुगुणं आन्ध्रप्रदेशस्य उत्तर-पश्चिमदिशि दशमण्डलानि स्वीकृत्य तेलङ्गाणारज्यस्य संरचना अभवत्[3] । हैदराबाद्-नगरं तलङ्गाणा- आन्ध्रप्रदेशराज्ययोः यौथराजधानीरूपेण अग्रिमदशवर्षाणि स्थास्यति[4] ।
तेलङ्गाणा తెల౦గాణ تلنگانہ |
|||
---|---|---|---|
— राज्यम् — | |||
|
|||
भारते तेलङ्गाणाराज्यस्य अवस्थानम् (लोहितवर्णेन) | |||
Coordinates (हैदराबाद्): 17.366°उत्तरदिक् 78.476°पूर्वदिक् / १७.३६६; ७८.४७६ | |||
देशः | भारतम् | ||
प्रदेशः | दक्षिणभारतम्, डेकन् | ||
निर्मितम् | २ जून् २०१४ | ||
राजधानी | हैदराबाद्† | ||
वृहत्तमनगरम् | हैदराबाद् | ||
मण्डलानि | १० | ||
सर्वकारः | |||
• राज्यपालः | इ एस् नरसिंहन् | ||
• मुख्यमन्त्री | के चन्द्रशेखर् राव् (टी आर् एस्) | ||
• विधानसभा | द्विदलीयव्यवस्था (११९ + ४० केन्द्राणि) | ||
• लोकसभकेन्द्राणि | १७ | ||
• उच्चन्यायालयः | हैदराबाद्-उच्चन्यायालयः | ||
विस्तीर्णता† | |||
• संहतिः | १,१४,८४० km२ | ||
क्षेत्रविस्तारः | १२ तमम् | ||
जनसङ्ख्या (२०११)[1] | |||
• संहतिः | ३,५१,९३,९७८ | ||
• रैङ्क् | १२ तमम् | ||
प्रादेशिकजनाः | तेलुगु | ||
भारतीयसमयवलयः (UTC+०५:३०) | |||
ऐ एस् ओ ३१६६ कोड् | IN-xx (न निश्चितम्) | ||
वहानपञ्जीकरणपत्रम् | TS[2] | ||
एच् डि ऐ | |||
आधिकारिकभाषा | तेलुगु, ऊर्दू | ||
जालस्थानम् | telangana.gov.in | ||
^† आन्ध्रप्रदेशराज्येन सह युग्मराजधानी |
तेलङ्गाणाराज्यस्य उत्तरपश्चिमदिशि महाराष्ट्रराज्यं, पश्चिमे कर्णाटकराज्यम्, उत्तरपूर्वे छत्तीसगढराज्यम् एवञ्च दक्षिण तथा पूर्वदिशि आन्ध्रप्रदेशराज्यं विद्यते । अस्य राज्यस्य आयतनं १,१४,८४० वर्ग किलोमीटर (४४,३४० वर्ग मील) तथा जनसङ्ख्या ३५,२८६,७५७ (२०११ जनगणनानुसारम्[5] ।