गोबीमरुस्थलम्
From Wikipedia, the free encyclopedia
गोबीमरुस्थलम् एशियाभूखण्डस्य बृहत् मरुस्थलेषु अन्यतमम् । चीनादेशस्य उत्तरभागं तथा वायव्यभागं, मङ्गोलियादेशस्य दक्षिणभागान् च व्याप्य तिष्ठति गोबीमरुस्थलम् । गोबीमरुस्थलस्य उत्तरे अक्टायपर्वताः, मङ्गोलियादेशस्य विरलाः शाद्वलाः च सन्ति । नैरृत्ये टिबेत् प्रस्थभूमिः , डेविस कारिडार् (यन्त्रोद्यमपथः) च स्तः। आग्नेयदिशि उत्तरचीनासानुप्रदेशः अस्ति । जगतितले अत्यन्तविशालमरुस्थलेषु गोबीमरुस्थलं पञ्चमम् । हिमालयपर्वताः वर्षामेघान् निबध्नाति इत्यतः गोबीमरुस्थले बर्षा अल्पीयसी । मङ्गोलसाम्राज्ये संमिश्रितं गोबीमरुस्थलम् प्राचीनकौशेयमार्गस्य प्रदेशोऽपि । गोबीमरुस्थलस्य व्याप्तिः नैरृत्यात् ईशान्यपर्यन्तम् १६००कि.मी. यावत् उत्तरात् दक्षिणदिशि ८०० कि.मी. यावत् गोबीमरुभूमेः वैशिष्ट्यं नाम अत्रत्याः अधिकाः प्रदेशाः सिकतायुक्ताः न ,अपि तु शिलायुक्ताः ।
Original author(s) | Google, Inc. |
---|---|
Developer(s) | |
Initial release |
June 28, 2005 (as Google Earth) June 11, 2001 (as Earthviewer) |
Operating system | Android, Windows 2000, XP, Vista, 7, Mac OS X, Blackberry Storm, iOS and Linux |
Size |
Windows - 12.5 MiB iOS - 8.9 MiB Android - 5.72 MiB Linux - 24 MiB Mac OS X - 35 MiB |
Available in | 45 languages |
Type | Virtual globe |
License | Freeware/Proprietary |
Website | earth.google.com |
गोबीमरुस्थलम् एकं शीतल्ं मरुस्थलम् । अत्र तदा तदा हिमपातोऽपि भवति । गोबीमरुस्थलस्य अधिकः भागः समुद्रसमतलात् ऊर्ध्वं ५ सहस्रपादपरिमितः वर्तते । अतः वातावरणं सामान्यतः शीतलं भवति । वार्षिकवर्षाप्रमाणं तावत् १९४ मि.मी । शीतकाले सैबिरियाप्रान्ततः ये शीतमारुतः आगच्छन्ति ते तैः साकं हिमम् आनयन्ति । अनेन तस्मिन् तापमानम् -४०० पर्यन्तम् अधः भवति। उष्णकाले तापमानं ४०० पर्यन्तम् । गोबीमरुस्थलं यद्यपि शुष्कप्रदेशः तथापि जीववैविद्ध्यं भजते । कृष्णपुच्छवान् ग्याझेल्नामकः प्राणी, ब्याक्ट्रियन् उष्ट्रः, हिमचित्रकः, कपिशभल्लूकाः वृकाः च अत्र दृश्यन्ते । न केवलं तावत् मरुस्थलस्य वातावरणानुगुणं विवीधशाद्वलाः, निम्नाकारकानि गुल्मानि, वृक्षाः च व्यापकरूपेण सन्ति । गोबीमरुस्थले तथा समीपस्थशाद्वले पशुपालनम् एव मुख्यजीवनोपायः । अतः पशूनां आधिक्येन चलनवलनात् ते प्रदेशाः अपि क्रमेण मरुस्थलानि सञ्जातानि सन्ति ।