पूर्वजम्बुद्वीपस्य सांस्कृतिकक्षेत्रं, प्राचीनसभ्यता, राष्ट्रं च, राजनैतिकदृष्ट्या पौरगणतन् From Wikipedia, the free encyclopedia
चीनः (चीनी: 中国, आङ्ग्ल: China) विश्वस्य प्राचीनसभ्यतासु अन्यतमः अस्ति, यः जम्बुद्वीपस्य पूर्वदिशि स्थितः अस्ति । चीनदेशस्य सभ्यता संस्कृतिः च ६ शताब्दात् अपेक्षया प्राचीना अस्ति । चीनदेशस्य लिखितभाषाव्यवस्था विश्वस्य प्राचीनतमासु भाषाव्यवस्थासु अन्यतमा अस्ति या अद्यापि प्रचलति, अनेकेषां आविष्कारानाम् स्रोतः च अस्ति । ब्रिटानीय विद्वांस-जैवरसायनशास्त्रज्ञाः जोसेफ् नीधं प्राचीनचीनस्य चत्वारः महान् आविष्काराः कथितवन्तः – कर्गजं, कार्पासः, आग्नेयचूर्णं, मुद्रणम् च । ऐतिहासिकदृष्ट्या चीनसंस्कृतेः पूर्व-आग्नेय-एशिया-उपमहादेशैः प्रभाविता अस्ति, एतेषु देशेषु चीनीयधर्मः, प्रचलनं, लेखनव्यवस्थाः च भिन्न-भिन्न-प्रमाणेन स्वीकृताः सन्ति । चीनदेशे प्रथममानवस्य उपस्थितेः प्रमाणं झौ-कौ डायनगुहायाः समीपे प्राप्यते, यत् होमो इरेक्टस् इत्यस्य प्रथमः नमूना अपि अस्ति यत् वयं 'पेकिङ्ग्-मानवः' इति जानीमः । अनुमानितम् अस्ति यत् ते अस्मिन् क्षेत्रे ३,००,००० तः ५,००,००० वर्षाणां मध्ये निवसन्ति स्म, केनचित् संशोधनेन महत्त्वपूर्णाः सूचनाः अपि प्राप्ताः च यत् पेकिङ्ग्-मनुष्याः अग्निप्रकाशस्य, नियन्त्रणस्य च कलां ज्ञातवन्तः ।
सामान्यतः चीनादेशस्य भौगोलिकप्रदेशः ९,६००,००० कि मी२ (३,७००,०००२ मी) अस्ति ।
समग्रे विश्वे रष्यादेशं विहाय चीनादेशस्य सीमा अतीव विस्तृता वर्तते । यलुनदी आरभ्य गल्फ् आफ् टोङ्किन् पर्यन्तं अस्य सीमायाः विस्तारः २२,११७ कि मी (१३,७४३ मी) वर्तते। अस्य देशस्य सीमायाः सम्बन्धः १४ देशानां सह वर्तते । तेषां नामानि वर्तन्ते,
चीनादेशे मुख्यतः विभागद्वयं वर्तते । तत्,
पीपल्स् रिपब्लिक् आफ् चीनदेशे २२ प्रदेशाः(Provinces), ५ स्वयंशासितप्रदेशाः(Autonomous Regions), ४ ग्रामसङ्घानि(Municipalities),
२ विशेषशासनप्रदेशौ(Special Administrative Regions) च वर्तन्ते ।
अस्य २२ देशानां (Provinces) नाम एवं वर्तन्ते,
अस्य ५ स्वयंशासितप्रदेशानां नाम एवं वर्तन्ते,
अस्य ४ ग्रामसङ्घानां नामा एवं वर्तन्ते,
अस्य २ विशेषशासनप्रदेशौ
अस्य सामान्यतया तैवान् इत्यपि व्यवहारः वर्तते । अत्र मुख्यतया ४ द्वीपानि वर्तन्ते । तेषां नाम एवं वर्तन्ते,
समग्रदेशे प्रमुखतया २ विभागं, ५ विशेषग्रामसङ्घानि च वर्तन्ते।
अस्य प्रमुखं २ विभागम्,
अस्य ५ विशेषसङ्घानि,
पौरगणतन्त्रचीनदेशस्य (People's Republic of China) २०१० तमवर्षस्य जनगणनानुसारं प्रायः १,३३८,६१२,९६८ । तस्यां जनगणनायां २१% जनेषु १४५,४६१,८३३ पुरुषाः, १२८,४४५,७३९ महिलाः च आसन् । अस्यां जनगणनायां ७१% युवजनाः(४८२,४३९,११५ पुरुषाः, ४५५,९६०,४८९ महिलाः) आसन् । अस्यां जनगणनायां ८% जनाः ६५ वर्षाधिकाः(४८,५६२,६३५ पुरुषाः, ५३,१०३,९०२ महिलाः) सङ्ख्यकाः आसन् । २०१० तमवर्षस्य जनगणनानुसारं १०० बालिकानां कृते ११८.०६ बालकाः जन्मं प्राप्नुवन्ति ।
चीनदेशः आधिकारिकतया ५६ मण्डलानि वर्तन्ते । ते अन्य-भिन्न-देशीयानां समूहः इति उद्घोषितः । तत्र विद्यमानेषु अन्य-भिन्न-देशीयानां समूहेषु हान्चैनीस्(Han Chinese) समूहः विश्वे एव बहु बृहत् वर्तते । २०१० तमवर्षस्य जनगणनानुसारं ५९३,८३२ जनाः विदेशीयाः चीनादेशे निवासं कुर्वन्ति स्म । तत्र अधिकतया दक्षिणकोरियादेशतः १२०,७५० जनाः, संयुक्तानि राज्यानि देशतः जनाः ७१,४९३, सूर्यमूलम् देशतः जनाः ६६,१५९ च वर्तन्ते ।
चीनदेशस्य भाषां मन्दारिन् (Mandarin) इति आह्वयन्ति । एषा भाषा चीनी-तिब्बतीयभाषायाः (Sino-Tibetan) कुटुम्बतः आगतः अस्ति । अत्र केवलं मानकमन्दारिन् (Standard Mandarin) भाषायाः आधिकारिकचीनीभाषात्त्वेन अङ्गीक्रीयते । मन्दारिन् मानत्वम् भाषा बीजिङ्ग्प्रादेशिकभाषातः (Beijing dialect) आगता वर्तते । चीनीभाषायां बहु भेदाः वर्तन्ते । तत्र मुख्यतया,
चीनीलिपिः (Chinese character) लोगोग्राम्(Logogram) उपयोगेन लिख्यते । चीनीभाषायाः शब्दकोशानुसारं ५६,००० अधिकाः चीनीलिपयः वर्तन्ते । तत्र ३,००० लिपीनाम् अध्ययनेन प्रायः ९९% चीनीलिप्यां अथवा चीनीभाषायां प्राविण्यतां प्राप्तुं शक्यते । चीनीलिपीनां लेखनार्थं नूनातिनूनं ६४ रेखाः अपेक्षन्ते । मन्दारिन मानत्वम् (Standard Mandarin)भाषायाः प्रशिक्षणं भारतदेशे केमन्द्रियमाध्यमिकशिक्षासंस्थायाः (Central Board of Secondary Education,C.B.S.E.) पाठ्यक्रमे स्थापितं वर्तते ।
१९८६ तमे वर्षे चीनादेशः बालानां ९ वर्षपर्यन्तं बाल्यशिक्षणम् अनिवार्यः कृतः । २००७ तमे वर्षे ३९६,५६७ प्राथमिकविद्यालयाः (Primary Schools), ९४,११६ माध्यमिकविद्यालयाः (Secondary Schools), २,२३६ विश्वविद्यालयाः(Universities) च आसन् । फेब्रवरि, २००६ तमे वर्षे चीनादेशे बालानां मूलशिक्षा ९ वर्षपर्यन्तं सम्पूर्णशिक्षा, पठ्यपुस्तकं च निश्शुल्कं कृतम् । चीनादेशस्य विश्वकिद्यालयानां गुणवत्ता बहु सम्यकस्ति ।
कन्फ्यूशस्(Confucius) नामीयः तत्त्वशास्त्रज्ञेन चीनादेशस्य संस्कृतिः प्रभाविता वर्तते ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.