कुन्ती
From Wikipedia, the free encyclopedia
महाभारतस्य प्रमुखेषु स्त्रीपात्रेषु अत्यन्तं प्रमुखं पात्रम् अस्ति कुन्त्याः । अस्याः कथा भागवतपुराणे अपि उक्ता अस्ति । एषा पाण्डुमहाराजस्य पत्नी । कुन्तिदेवी एका आदर्शमहिला आसीत् । एषा महात्मनां पाण्डवानां. माता तथैव श्रीकृष्णपरमात्मनः मातुली आसीत् । वसुदेवस्य पितृव्यः, राजा कुन्तिभोजः एतां दत्तकरूपेण स्वीकृतवान् आसीत् । जन्मतः जनाः एतां 'पृथा’ नाम्ना अह्वयन्ति स्म । कुन्तीभोजेन पालिता इति कारणेन 'कुन्ती’ नाम्ना एव प्रसिद्धा जाता । आबाल्यात् एषा बहु सुशीला, संयमशीला सदाचारिणी च आसीत् ।
कुन्तिदेवी एका आदर्शमहिला आसीत् । एषा महात्मानां पाण्डवानाम् माता तथैव श्रीकृष्णपरमात्मस्य मातुली च आसीत् । वसुदेवस्य अनुज, राजा कुन्तिभोजः एतां दत्तु स्वीकृतवन्तः । जन्मदारभ्य जनाः एतां 'पृथा’ नाम्ना अहवयन्ति स्म । कुन्तीभोजेन पालिता इति कारणेन 'कुन्ती’ नाम्ना एव प्रसिद्धा जाता । आबाल्यात् एषा बहुसुशीला, संयमशीला सदाचारिणी च आसीत् । कदाचित् राज्ञः गृहं कश्चन श्रेष्ठः ब्राह्मणः आगतवान् । अतुथिसेवाकार्य कुन्त्या करणीयम् अभवत् । एतस्यै ब्राह्मणेषु भक्तिः अतिथीनां सेवायाम् आसक्तिः आसीदेव । अतः शुद्धमनसा तस्य ब्राह्मणस्य सेवां कृतवती । तस्य व्यवहारः तु बहु कठिणम् आसीत् । निर्दिष्टे समये नागच्छति स्म । अकाले खादितुं पृच्छति स्म् । किन्तु एषा तस्य इच्छानुसारं सर्वदा सज्जीकरोति स्म । एकवर्षपर्यन्तं सा एवमेव तस्य सेवां यदा कृतवति ब्राह्मणः अतीव प्रसन्नः जातः । सन्तष्टः सः किमपि वरं दातुम् उद्युक्तः अभवत् । किन्तु कुन्ती वदति यत भवान् मम विषये प्रसन्नः अस्ति । तावत् पर्याप्तम् मम इदानीं कस्यापि वरस्य आवश्यकता नास्ति इति । एतस्याः निः ष्कामेन सेवाभावेन आनन्दितः ब्राह्मणः देवानाम् आवाहना मन्त्रस्य ग्रहणं कर्तु तां वदति । तस्य वचनं तिरस्कर्तुम् अशक्ता सा अथर्ववेदस्य मन्त्रोपदेशं स्वीकृतवती । तेन सा यस्य देवस्य आवाहनं करोति सः देवः तस्याः अथीनः भवति । एवं सूथयित्वा सः ब्रह्मणः ततः अदृश्यः जातः । सः तु सामान्यः नासीत् । साक्षात् उग्रतपस्विनः महर्षिदूर्वासः आसीत् ।
कुन्त्याः विवाहः महाराजः पाण्डुना सह अभवत् । स धर्मिष्ठः आसीत् । तथापि अज्ञानेन कदाचित मृगरुपधारी किन्दममुनेः एतेन हिंसा अभवत् । सा पटना तस्य मनसि व्ययां वैराग्यं च जनयति । स्वस्य सर्वस्वं त्यक्त्वा सः वनं गन्तुम् इच्छति । पतिभक्तपरायणा कुन्तीदेवी अपि सुखभोगान् त्यक्त्वा पत्या सह वनं गच्छति । आजीवनपर्यन्तं ब्रह्मचर्यव्रतस्य पालनां कृतवती । यदा पतिः मृतः सा अपि पतिम् अनुसर्तुम् इष्टवती किन्तु माद्रि स्वस्य पुत्रान् कुन्त्याः हस्ते स्थापयित्वा स्वयं सहागमनं कृतवती । माद्रयाः इच्छानुसारेण कुन्ती स्वस्य पुत्राणाम् अपेक्षया अधिका प्रम्णा नकुलं सहदेवं च पालितवती । सहदेवस्य विषये तुइ एतस्याः विशेषः प्रीतिः ।