वसुदेवः
From Wikipedia, the free encyclopedia
वसुदेवः महाभारते, भागवते च विद्यमानं किञ्चन पात्रमस्ति । वसुदेवः श्रीकृष्णस्य पिता ।
दशसु अवतारेषु अष्टमः श्रीकृष्णावतारः श्रेष्ठः । पूतन्याः संहारः, गोवर्धनोद्धारः, कालिङ्गमर्दनम् इत्यादिकं महत्साहसम् अवातारपुरुषः एव कर्तुं शक्नोति । दुष्टसंहारः , शिष्टरक्षणम् , पाण्डवकौरवाणां युद्धम्, अर्जुनस्य सारथ्यम् इत्यादीनि कार्याणि धर्मसंस्कृतिरक्षणार्थं, लोककल्याणार्थं कृतवान् कृष्णः । गीतोपदेशः अपि लोककल्याणाय एव । एतादृशस्य कृष्णस्य जन्मदाता एव वसुदेवः ।
यदुवंशोत्पन्नः शूरः तस्य पिता, माता मारिषा । एतयोः सुपुत्रः वसुदेवः । एतस्य जन्मसमये देवताः दुन्दुभिं नादितवन्तः । यतः देवताः जानन्ति यत् अग्रे एतस्य गृहे भगवतः अवतारः भविष्यति इति । अतः एव वसुदेवस्य अनेकदुन्दुभिः इति नाम ।
वसुदेवस्य अनुजस्य देवभागस्य पुत्रः भक्ताग्रेसरः उद्धवः । महान् विद्वान् एषः । देवसमाना कीर्तिः एतस्य उद्धवस्य अपरं नाम देवश्रवः इति । वसुदेवस्य अन्यः सहोदरः अनादृष्टिः । अनादृष्टेः अश्मक्यां निवृत्तशत्रुः इति पुत्रः जातः । वसुदेवस्य अन्यः अनुजः देवशिवः । देवशिवस्य शत्रुघ्नः इति पुत्रः जातः । शत्रुघ्नं तस्य पिता येनकेनचित् कारणेन वने एव परित्यक्तवान् । एषः अटव्यां बिल्लवैः परिपालितः । एषः एव अग्रे एकलव्यः इति प्रसिद्धः धनुर्धरः जातः ।
वसुदेवस्य पौरविः, रोहिणिः, मादिरा, भद्रा, वैशालिः, देवकी इत्यादयः पत्न्यः । तासु रोहिणी बलभद्रः, सारणः, दुर्मदः इत्यादीन् प्रसूतवती । वैशाल्यां कौशिकः उत्पन्नः, देवक्यां कीर्तिमान्, सुषेणः, दायुः, भद्रसेनः, ऋजुदासः, भद्रदेवः समुत्पन्नाः । परन्तु कंसः एतान् मारितवान् । अन्ते सप्तमं गर्भं भगवत्प्रेरिता माया आकृण्य रोहिण्यां स्थापितवती । आकृण्य स्थापितम् इति कारणतः बलरामस्य सङ्कर्षः इत्यपि नाम अस्ति । अष्टमे गर्भे सञ्जातः श्रीकृष्णः ।