कबीरदासः
From Wikipedia, the free encyclopedia
सन्तः श्रेष्ठः कविः निर्गुणब्रह्मोपासकः कबीरदासमहोदयः सर्वधर्मसमताम् उपदिष्टवान् उत्तरभारते साधुभिः सह वसन् समाजपरिवर्तनकार्यम् अपि कृतवान् । एतस्य जयन्त्युत्सवं ज्योष्ठमासस्य पूर्णिमादिने आचरन्ति । मानवजीवनाय कबीरदासमहोदयस्य उपदेशाः मार्गदर्शकाः सन्ति ।'आल्-कबीर्' (महात्मा) इत्येतत् इस्लाममते देवस्य ९९ नामसु अन्यतमम् । इदमस्ति देवस्य ३७ तमं नाम । कबीरः (हिन्दी: कबीर, पञ्जाबी: ਕਬੀਰ, उर्दु: کبير) (१४४०-१५१८) कश्चन अध्यात्मकविः भारतीयऋषिः च । एतस्य साहित्येन भक्तिमार्गः समृद्धः जातः । सिक्खमतस्य उपरि तदीयः प्रभावः महान् । अद्यत्वे कश्चन धार्मिकगणः कबीरं संस्थापकं मन्यन्तः तस्य तत्त्वानि अनुसरन्ति 'कबीरमार्गः' इति प्रसिद्धः वर्तते । तेषां सङ्ख्या अस्ति ९,६००,००० । ते अधिकतया उत्तर-मध्यभारते च विस्तृताः । जगति विविधेषु भागेषु अपि विद्यन्ते । बिजक्, सखिग्रन्थ्, कवीर्-ग्रन्थावली, अनुरागसागरश्च तेन लिखितेषु ग्रन्थेषु अन्यतमानि ।
सिखमतस्य गुरवः एवं भक्ताः |
---|
सद्गुरुः नानक देव · सद्गुरुः अङ्गद देव |
सद्गुरुः अमर दास · सद्गुरुः राम दास · |
सद्गुरुः अर्जन देव ·सद्गुरुः हरि गोविन्द · |
सद्गुरुः हरि राय · सद्गुरुः हरि कृष्ण |
सद्गुरुः तेग बहादुर · सद्गुरुः गोबिन्द सिंह |
भक्तः कबीर · शेख फरीद |
भक्तः नामदेव |
धर्मग्रन्थाः |
आदि ग्रन्थ साहिब · दशमग्रन्थः |
सम्बन्धितविषयाः |
गुरद्वारा · चण्डी ·अमृतम् |
लङ्गर · खालसा पन्थ |