अष्टाङ्गयोगः ( ( शृणु) ) (हिन्दी: अष्टाङ्ग योग) अर्थात् योगस्य अष्टानाम् अङ्गानां समूहः । पातञ्जलयोगसूत्रे उ्ल्लेखः वर्तते यत्, यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोsष्टाङ्गानि ।।२.२९।। इति । अनेन सूत्रेण एव राजयोगनामकस्य अध्यायस्य आरम्भः भवति [1] । एतानि अष्टाङ्गानि एव राजयोगत्वेन पतञ्जलिमूनिना प्रोक्तानि । अतः एतस्य राजयोगस्य नामान्तरम् एव ‘अष्टाङ्गयोगः’ इति । पतञ्जलिमुनिः अष्टांगयोगस्य भागद्वयम् अकरोत् । बहिरङ्गः, अन्तरङ्गश्चेति [1] ।
त्वरिततथ्यानि
|
अष्टाङ्गयोगः • योगः |
|
|
|
|
• पद्मासनम् • वीरासनं • भद्रासनं • स्वस्तिकं • दण्डासनं • सोपाश्रयं • पर्यङ्कं • क्रौञ्चनिषदनं • हस्तिनिषदनमुष्ट्रनिषदनं • समसंस्थानं • स्थिरसुखं • यथासुखं • चेत्येव |
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
|
• सहजप्राणायामः
• सम-शीतोष्णप्राणायामः
• भस्त्रिकाप्राणायामः
• कपालभातिप्राणायामः
• शीकलीप्राणायामः
• शीतकारीप्राणायामः
• उज्जायीप्राणायामः
• अहिंसकप्राणायामः
• नाडीशोधनप्राणायामः
• भ्रामरीप्राणायामः |
|
|
|
|
|
|
|
|
|
|
|
• सङ्कल्पध्यानम्
• श्वासध्यानम्
• चिदाकाशध्यानम्
• मन्त्रध्यानम्
• अन्तर्मौनम्
• अजपाध्यानम् |
|
|
|
प्रवेशद्वारम्:योगदर्शनम्
प्रवेशद्वारम्:योगप्रवेशः
|
पिदधातु
१. बहिरङ्गः :- अष्टाङ्गयोगस्य बहिरङ्गभागे यम-नियम-आसन-प्राणायाम-प्रत्याहाराः अन्तर्भवन्ति । शरीरादीनां बाह्यलक्ष्यानि साधयितुम् बहिरङ्गयोगस्य साधना भवति ।
२. अन्तरङ्गः :- अष्टाङ्गयोगस्य अन्तरङ्गभागे धारणा-ध्यान-समाधयः अन्तर्भवन्ति । अन्तरङ्गभागस्य एव नामान्तरं ‘संयमः’ इति । अन्तरङ्गयोगस्य पृष्ठे साधकस्य लक्ष्यं वस्तुनिष्ठं नापितु आत्मनिष्ठं भवति, यत् आत्मचिन्तनेन सिद्ध्यते ।
साधकाय राजयोगस्य प्रत्येकसोपानम् आगामिसोपानस्य कृते पृष्ठभूमिकात्वेन कार्यं करोति । तेषां सोपानानां निश्चितं सीमाङ्कनं न भवति । यतो हि सोपानस्य स्थितेः ज्ञानं केवलम् अनुभवेनैव भवितुम् अर्हति । राजयोगस्य उत अष्टाङ्गयोगस्य साधानायाः प्रारम्भिके काले साधकः यदि साधकसमूहेन सह निवसेत्, तर्हि योग्येन वातावरणेन तस्य विकासः शीघ्रं भवति [2] । अतः योगिनः वदन्ति यत्, प्रारम्भिके काले योग्याचार्यस्य सान्निध्ये योगाभ्यासेण सर्वासां समस्यानां नाशः भवति इति ।