From Wikipedia, the free encyclopedia
पृथ्वी ( शृणु) (चिह्न: ; हिन्दी: पृथ्वी) कश्चिद् ग्रहोऽस्ति । सूर्यमण्डले पृथ्वी तृतीये क्रमाङ्के स्थितास्ति । पृथ्वीग्रहः सौरमण्डलस्य पञ्चमबृहत्तमो ग्रहोऽस्ति । जीवनायानुकूलाः परिस्थितयः पृथ्व्याम् एव सन्ति । पृथ्व्य् अधिकोष्णा नास्ति। अधिकशीतलापि नास्ति । पृथ्व्यां वायुर् जलं चास्ति । जीवनस्य कृते वायुजलयोर् आवश्यकता भवति । अत्र प्राणवायुर् (Oxygen) अप्य् अस्ति, येन श्वसनतन्त्रं चलति । अनेन कारणेन पृथ्वी सौरमण्डलस्याद्भुतग्रहो विद्यते । [1]
पृथिव्या उत्पत्तिविषये संशोधनाय बहवो वैज्ञानिकाः कार्यरता आसन् । इदानीमपि बहवो वैज्ञानिकाः संशोधने कार्यरताः सन्ति । पृथिव्या उत्पत्तिविषये वैज्ञानिकानां दार्शिकानां च बहूनि मतानि सन्ति ।
पृथिव्याः प्रकृतिर् विशिष्टा वर्तते । तस्या विषये इदानीमपि स्पष्टं नास्ति । पृथिव्याम् अनेकाः पदार्थाः सन्ति । पृथिव्या उपरिभागः स्थलमण्डलेनावृतोस्ति । ज्वालामुखिना पृथिव्या बहवः पदार्था बहिरागच्छन्ति । ज्वालामुखिनोऽत्युष्णो द्रवपदार्थो मृत्तिका धूम्रोऽग्निर् माग्मा च बहिरागच्छन्ति । तेनैव वैज्ञानिका अनुमानं चिन्तयन्ति । वैज्ञानिका भौगोलिके संशोधने कार्यरता भवन्ति । तेन वैज्ञानिकानां समीपं पृथिव्या विषये विशिष्टं ज्ञानं भवति । अतस्ते पृथिव्या ब्रह्माण्डस्य च संरचनाया विषये सूक्ष्मतया जानन्ति । वैज्ञानिकैः पृथिव्या आन्तरिकसंरचनायाः संशोधनं कृतम् अस्ति । पृथिव्यास्त्रिज्या ६,३७० कि. म्य्. अस्ति । किन्तु पृथिव्याः केन्द्रे गमनम् असम्भवम् अस्ति । तत्रत्यानां पदार्थानां प्रतिरूपं प्राप्तुम् अप्य् अशक्यम् । अस्यां स्थितावपि वैज्ञानिकाः संशोधनं कुर्वन्तः सन्ति । संशोधनेनैव ते बहतो विशिष्टं ज्ञानं प्राप्तुं समर्था अभवन् ।[3]
भूगर्भस्य संरचना कथम् अस्ति ? तस्मिन् के पदार्थाः प्राप्यन्ते ? इति विषयम् आधृत्य वैज्ञानिकाः निरन्तरम् संशोधनं कुर्वन्तः सन्ति । पृथिव्याः केन्द्रे गन्तुं अशक्यम् अस्ति, किन्तु केवलम् अनुमानेन वैज्ञानिकाः ज्ञानं प्राप्नुवन्ति । प्रेक्षणैः अपि ते संशोधने नूतनान् विषयान् अवगच्छन्ति । भूगर्भस्य ज्ञानार्थं प्रत्यक्षाप्रत्यक्षौ स्रोतसी स्तः ।[4]
पृथिव्यां धरातलीयाः शिलाः सन्ति । ताः शिलाः खननक्षेत्रेषु प्राप्यन्ते । दक्षिण अफ्रिका-देशे स्वर्णस्य सुरङ्गाः सन्ति । ताः सुरङ्गाः ४ कि. मी. पर्यन्तं गहनाः सन्ति । किन्तु एतावत् अधिकं खननम् अशक्यम् अस्ति । यतः तत्रत्यं तापमानम् अधिकं भवति । तस्मात् अग्रे गमने तापमाने वृद्धिर्भवति । किन्तु वैज्ञानिकाः केवलं खननकार्येण एव संशोधनं न कुर्वन्ति । तस्मात् खननकार्यात् अतिरिक्तः विभिन्नाभिः योजनाभिः पृथिव्याः आन्तरिकीं स्थितिं ज्ञातुं वैज्ञानिकाः गहनं संशोधनं कुर्वन्तः सन्ति ।
विश्वस्य वैज्ञानिकाः द्वाभ्यां मुख्याभ्यां योजनाभ्याम् संशोधनं कुर्वन्तः सन्ति । गहने समुद्रे प्रवेधनस्य परियोजना, समन्वितमहासागरे प्रवेधनस्य परियोजना इति द्वे परियोजने प्रचलतः ।[5]
वर्तमाने आर्कटिक-महासागरे कोला-क्षेत्रे १२ कि. मी. गहनं प्रवेधनम् अस्ति । एतादृशीभ्यः परियोजनाभ्यः संशोधने वैज्ञानिकाः असाधारणज्ञानं प्राप्तवन्तः ।
ज्वालामुखी प्रत्यक्षस्रोतस्सु अन्यतमः स्रोतः वर्तते । यदा ज्वालामुखिनः अत्युष्णः द्रवपदार्थः प्राप्यते, तदा वैज्ञानिकाः तत्पदार्थं संशोधनार्थं प्रयोगशालायां नयन्ति । किन्तु इदानीम् अपि मैग्मा इत्यस्य क्षेत्रं कियत् गहनम् अस्ति ? इति निश्चितं नास्ति ।[6]
प्रत्यक्षस्रोतसा यः कोऽपि पदार्थः प्राप्तः, तत्पदार्थस्य गुणधर्मस्य विश्लेषणे वैज्ञानिकाः पृथिव्याः आन्तरिकभागस्य अप्रत्यक्षज्ञानं प्राप्नुवन्ति । खननप्रक्रियया ज्ञायते यत्, पृथिव्याः तलस्य गहने सति तापमानः, प्रबलता च वर्धते । अधिके गहने सति पदार्थस्य घनत्वम् अपि वर्धते । अतः पृथिव्याः परिवर्तनमानस्य अनुमानं भवति ।[7]
पृथिव्याः आन्तरिकसंरचनायाः संशोधनाय उल्काः द्वितीयस्रोतः अस्ति । ताः उल्काः यदा कदा पृथिव्यां पतन्ति । किन्तु उल्कासु ये पदार्थाः भवन्ति ते पदार्थाः पृथिव्याः आन्तरिकभागेषु न प्राप्यन्ते । उल्काभ्यः प्राप्तपदार्थानां संरचना पृथिव्याः आन्तरिकसंरचनया सह किञ्चित् सम्मिलति । यैः पदार्थैः पृथिवी निर्मिता अस्ति, तैः पदार्थैः एव एताः उल्काः निर्मिताः सन्ति । अतः पृथिव्याः आन्तरिकसंरचनायाः संशोधनाय उल्काः महत्वपूर्णं स्रोतः अस्ति ।
गुरुत्वाकर्षम्, अयस्कान्तीयक्षेत्रं, भूकम्पः इत्यादयः अप्रत्यक्षाणि स्रोतांसि सन्ति । पृथिव्याः धरातले अपि विभिन्नेषु अक्षांशेषु गुरुत्वाकर्षणबलं समानं नास्ति । इदं गुरुत्वाकर्षणबलं ध्रुवेषु अधिकं भूमध्यरेखायां न्यूनं भवति । गुरुत्वस्य मानं पदार्थस्य तापमानानुसारम् अपि परिवर्तते ।[8] यतः भूगर्भस्य आन्तरिकसंरचनायां स्थितेषु पदार्थेषु अपि बहूनि परिवर्तनानि भवन्ति । पृथिव्याः आन्तरिकसंरचनायाः बहवः विभागाः सन्ति । यथा – भूपर्पटी (The Crust), आवरणं (मैंटल), अन्तर्भागः (क्रोड) ।
भूपर्पटी पृथिव्याः बहिर्भागः वर्तते । अयं भगुरः भागः अस्ति । इयं भूपर्पटी न्यूनप्रबलातया (pressure) एव भङ्गः भवति । महासागरेषु भूपर्पट्याः विस्तीर्णता महाद्वीपेभ्यः न्यूना वर्तते । महासागरेषु अस्याः विस्तीर्णता प्रायः ५ कि. मी. अस्ति । किन्तु द्वीपेषु ३० कि. मी. अस्ति । पर्वतीयासु शृङ्खलासु अस्य विस्तीर्णता सर्वाधिका वर्तते । हिमालयपर्वतशृङ्खलायाः भूपर्पट्याः विस्तीर्णता ७० कि. मी. अस्ति ।
भूपर्पटी गहनाभ्यः शिलाभ्यः निर्मिता अस्ति । अस्याः घनत्वं ३ ग्राम् प्रतिघनं से. मी. अस्ति । महासागरेषु स्थिता भूपर्पटी बेसाल्ट् इत्यनेन निर्मिता अस्ति । अतः महासागरेषु अस्याः घनत्वं २.७ ग्राम् प्रतिघनं से. मी. अस्ति ।[9]
भूपर्पट्याः अधः भागः मैंटल इति कथ्यते । अस्याः गहनता २९०० कि. मी. पर्यन्तम् अस्ति । मैंटल इत्यस्य ऊर्ध्वभागः दुर्बलतामण्डलं (Asthenosphere) कथ्यते । एस्थेनो (Astheno) इत्यस्य शब्दस्य अर्थः दुर्बलता इति । अस्य मण्डलस्य विस्तीर्णता प्रायः ४०० कि. मी. पर्यनतम् अस्ति । ज्वालामुखिनः बहिरागतस्य अत्युष्णपदार्थस्य मुख्यं स्रोतः इदं मण्डलम् एव अस्ति । अस्य घनत्वं भूपर्पट्याः शिलाभ्यः अधिकं वर्तते । ३.४ ग्राम् प्रति से. मी. इत्यस्मात् अपि अधिकम् अस्य घनत्वं वर्तते ।
भूपर्पटी मैंटल इत्येतौ द्वौ मिलित्वा स्थलमण्डलं (Lithosphere) कथ्यते । अस्य मण्डलस्य विस्तीर्णता १० तः २०० कि. मी. पर्यन्तम् अस्ति । अधस्थस्य मैंटल इत्यस्य विस्तीर्णता दुर्बलतामण्डलस्य समाप्तेः परम् अपि अस्ति । अयं भागः कठोरः वर्तते ।[10]
भूकम्पीयानां तरङ्गाणां वेगेन पृथिव्याः अन्तर्भागस्य संशोधने साहाय्यम् अभवत् । २९०० कि. मी. इत्यस्मात् परं अन्तर्भागस्य (क्रोड- The core) आरम्भः भवति । अस्य भागस्य द्वौ भागौ स्तः । बाह्यक्रोडः, आन्तरिकक्रोडः च । बाह्यभागः तरलावस्थायाम् अस्ति । आन्तरिकक्रोडः कठोरावस्थायां वर्तते । मैंटल क्रोड् इत्येतयोः सीमायां स्थितानां शिलानां घनत्वं प्रायः ५ ग्राम् प्रतिघनं से. मी. अस्ति । किन्तु ६३०० कि. मी. पर्यन्तं पृथिव्याः केन्द्रे घनत्वं १३ ग्राम् प्रतिघनं से. मी. अस्ति । तेन ज्ञायते यत् भारवद्भिः पदार्थैः अन्तर्भागः (क्रोड- The core) निर्मितः अस्ति । तेषु पदार्थेषु मुख्यतः निकल (Nickle), लोहः (Ferrum) इत्यादयः सन्ति । अयं ’निफे’ (Nife) इति नाम्ना अपि ज्ञायते ।[11]
पृथिव्याः उत्पत्तेः अनन्तरम् अन्ते जीवनस्य उत्पत्तिः, विकासश्च अभवत् । प्रारम्भे पृथिव्याः प्रारम्भिकं वायुमण्डलं जीवनाय अनुकूलं नासीत् । सा एका रासायनिका प्रक्रिया आसीत् इति आधुनिकाः वैज्ञानिकाः कथयन्ति । तस्यां प्रक्रियायां पुरा जैव-अणोः निर्माणम् अभवत् । तदनन्तरं तेषां जैव-अणूनां समूहाः अभवन् । ते समूहाः निर्जीवपदार्थानां जीवतत्त्वे परिवर्तनं कृतवन्तः । ३८० कोटिवर्षाणि पुरा पृथिव्यां जीवनविकासस्य आरम्भः अभवत् इति मान्यता ।[12]
ग्रहेषु पृथिव्याम् एव जीवनं सम्भवम् अस्ति । यतः जीवनाय भूमेः, जलस्य, वायोः च आवश्यकता वर्तते । तानि सर्वाणि तत्त्वानि पृथिव्याम् उपलब्धानि सन्ति । पृथिव्याः पर्यावरणस्य त्रयः महत्वपूर्णाः घटकाः परस्परं मिलन्ति, परस्परं प्रभावयन्ति च ।
भूमण्डलं नामकः प्रथमः घटकः अस्ति । भूमण्डले जीवाः निवसन्ति । वायोः स्तरैः पृथ्वी आवृता अस्ति । तत्स्तराः वायुमण्डलम् इति कथ्यन्ते। ऑक्सीजन, नाइट्रोजन, कार्बन डाइऑक्साइड् इत्यादयः वायवः वायुमण्डले भवन्ति । पृथिव्याः अधिकतमेषु स्थानेषु जलम् अस्ति । तज्जलमण्डलम् इति कथ्यते । हिमः, जलं, जलबाष्पः इत्यादयः अवस्थाः जलमण्डले सम्मिलिताः सन्ति । एतानि मण्डलानि जैवमण्डले सम्मिलन्ति । जैवमण्डले समस्तप्रकारकाणि जीवनानि प्राप्यन्ते ।[13]
पृथिव्याः कठोरभागः भूमण्डलम् इति कथ्यते । भूपर्पट्याः शिलानां, मृत्तिकायाः च स्तरैः इदं मण्डलं निर्मितम् अस्ति । मण्डलेऽस्मिन् जीवेभ्यः पोषकत्त्वानि प्राप्यन्ते ।
अस्य भूमण्डलस्य भागद्वयं कृतम् अस्ति । महाद्वीपाः, महासागरीयः बेसिन इति । विश्वस्य सर्वे महासागराः परस्परं सम्बद्धाः सन्ति । समुद्रजलस्य तलम् अपि सर्वत्र समानम् एव भवति । समुद्रतलात् स्थलस्य औन्नत्यस्य मानं क्रियते । तत् शून्यम् इति मन्यते ।
माउण्ट एवरेस्ट विश्वस्य उच्चतमं शिखरं वर्तते । अस्य औन्नत्यं ८,८४८ मी. अस्ति । विश्वस्य गहनतमः गर्तः प्रशान्तमहासागरस्य मेरियाना गर्तः अस्ति । तस्य गर्तस्य गहनता ११,०२२ मी. अस्ति । पृथिव्याः उच्चतमात् स्थलात् अपि समुद्रस्य गहनता अधिका वर्तते ।[14]
पृथिव्यां सप्त महाद्वीपाः सन्ति । तान् परितः जलम् एव अस्ति । ते – एशिया, यूरोप्, आफ्रिका, उत्तर अमेरिका, दक्षिण अमेरिका, आस्ट्रेलिया, अण्टार्कटिका च ।
एशिया-महाद्वीपः सप्तमहाद्वीपेषु बृहत्तमः वर्तते । अयं महाद्वीपः पूर्वगोलार्धे स्थितः अस्ति । कर्क-रेखायाम् अयं द्वीपः स्थितः अस्ति । एशियामहाद्वीपस्य पश्चिमे एशिया-यूरोपमहाद्वीपयोः मध्ये युराल नामकः पर्वतः अस्ति । सः पर्वतः एशियामहाद्वीपात् यूरोपमहाद्वीपं पृथक्करोति । यूरोप-एशिया इत्येतयोः संयुक्तः भागः यूरेशिया (यूरोप+एशिया) इति कथ्यते ।
आर्कटिक-वृत्ते अयं महाद्वीपः स्थितः अस्ति । यूरोप-महाद्वीपः एशियामहाद्वीपात् लघुः वर्तते । अयं महाद्वीपः एशिया-महाद्वीपस्य पश्चिमे स्थितः अस्ति । अस्य महाद्वीपस्य तिसृषु दिक्षु जलम् अस्ति ।
अफ्रिका-महाद्वीपः विश्वस्य द्वितीयक्रमाङ्कस्य बृहत्तमः महाद्वीपः वर्तते । अस्य महाद्वीपस्य मध्ये विषुवत् वृत्तरेखा अस्ति । अस्य महाद्वीस्य अधिकतमः भागः उत्तरीये गोलार्धे स्थितः अस्ति । अस्मिन् महाद्वीपे कर्करेखा, विषुवत्-रेखा, मकररेखा इति तिस्रः रेखाः वर्तन्ते ।
विश्वस्य बृहत्तमः सहारा-नामकः मरुः अफ्रिका-महाद्वीपे स्थितः अस्ति । अफ्रिका-महाद्वीपं परितः महासागराः वर्तन्ते । विश्वस्य दीर्घतमा नीलनदी अपि अफ्रिका-महाद्वीपे प्रवहति ।[15]
उत्तर अमेरिका-महाद्वीपः विश्वस्य तृतीयक्रमाङ्कस्य बृहत्तमः महाद्वीपः वर्तते । अयं महाद्वीपः पनामा-स्थलसन्धिना, दक्षिण अमेरिका-महाद्वीपेन च सह संलग्नः अस्ति । अयं महाद्वीपः उत्तरीय-पश्चिमगोलार्धे स्थितः अस्ति । अस्य महाद्वीपस्य तिसृषु दिक्षु महासागराः सन्ति ।
दक्षिण अमेरिका इत्यस्य महाद्वीपस्य अधिकतमः भागः दाक्षिणात्यगोलार्धे स्थितः अस्ति । अस्य महाद्वीपस्य उत्तरतः दक्षिणपर्यन्तं विश्वस्य दीर्घतमा पर्वतशृङ्खला वर्तते । अस्मिन् महाद्वीपे विश्वस्य बृहत्तमा अमेजन-नदी प्रवहति ।
आस्ट्रेलिया-महाद्वीपः विश्वस्य लघुत्तमः महाद्वीपः वर्तते । अयं महाद्वीपः दाक्षिणात्यगोलार्धे स्थितः अस्ति । इमं महाद्वीपं परितः सागराः, महासागराः च सन्ति । अयं द्वीपीयमहाद्वीपः अपि कथ्यते ।
अण्टार्कटिका-महाद्वीपः बृहत् महाद्वीपः अस्ति । अयं दाक्षिणात्यगोलार्धे स्थितः अस्ति । अस्य महाद्वीपस्य मध्ये दक्षिणध्रुवः अस्ति । अतः अयं महाद्वीपः हिमाच्छादितः भवति । अस्मिन् महाद्वीपे मानवनिवासः असम्भवः । अतः केवलं विभिन्नदेशानां शोधकेन्द्राणि अत्र स्थापितानि सन्ति । भारतदेशस्य अपि मैत्रीशोधसंस्थानं, दक्षिणगङ्गोत्रीशोधसंस्थानम् इत्येते शोधसंस्थाने अत्र स्थिते स्तः ।[16]
सूर्यस्य अत्यधिकप्रकाशेन वयं नक्षत्राणि, चन्द्रमसः इत्यादीनि मध्याह्ने दृष्टुं न शक्नुमः । सूर्यः, चन्द्रमा, रात्रौ आकाशे दृश्यमानानि यानि सन्ति, तानि सर्वाणि खगोलीयपिण्डः इति उच्यन्ते ।
केषाञ्चित् खगोलीयपिण्डानाम् आकृतिः बृहती भवति । ते उष्णाः अपि भवन्ति । ते वायोः निर्मिताः सन्ति । तेषां समीपं प्रकाशः, उष्मा च भवतः । ते खगोलियपिण्डाः नक्षत्राणि कथ्यन्ते । सूर्यः अपि नक्षत्रम् अस्ति ।
ग्रहाणुः, अन्ये खगोलियपिण्डाः च लघुभारपदार्थानां मिश्रणैः निर्मिताः सन्ति । अतः बहूनाम् अणूनां मिश्रणेन ग्रहाः निर्मिताः जाताः । पृथिव्याः रचना अपि अनेन प्रकारेण एव अभवत् । गुरुत्वबलात् पदार्थाः एकत्रिताः अभवन् । तस्मिन् समये पदार्थाः पिण्डेभ्यः प्रभाविताः जाताः । तेन कारणेन तेभ्यः उष्मा उत्पन्ना अभवत् । अत्यधिकतापेन पृथ्वी आंशिकरूपेण द्रवावस्थायां परिवर्तिता जाता । लघुभारयुताः भारयुतेभ्यः पदार्थेभ्यः पृथगभवन् । अनेन कारणेन भारयुताः पदार्थाः पृथ्व्याः केन्द्रं गतवन्तः । यथा – लौहः इत्यादयः । भारहीनाः पदार्थाः पृथ्व्याः उपरि आगतवन्तः । समयान्तरे ते पदार्थाः शीतलाः जाताः । कठोररूपे अपि परिवर्तिताः जाताः । अन्ते ते पदार्थाः भूस्थलत्वेन स्थापिताः अभवन् । सा पृथक्करणप्रक्रिया विभेदनम् (Differentiation) इत्युच्यते ।[17]
चन्द्रमसः उत्पत्तिसमये भीषणसङ्घट्टेन (Giant impact) पृथ्व्याः तापमाने पुनः वृद्धिः जाता । पुनः ऊर्जायाः वृद्धिरभवत् । इदं विभेदनस्य द्वितीयचरणम् आसीत् । अनया प्रक्रियया पृथ्व्याः पदार्थाः अनेकेषु भागेषु विभक्ताः अभवन् । तेषु – पर्पटी(Crust), प्रावार(Mantle), बाह्यकोड(Outer core), आन्तरिकक्रोड(Inner core) । पृथिव्याः पर्पटी तः आन्तरिकभागपर्यन्तं पदार्थानां घनत्वं वर्धते ।[18]
पृथिवीतलं सर्वत्र समानं नास्ति । पृथिव्याम् अनेकेषां प्रकारकाणां स्थलरूपाणि सन्ति । स्थलमण्डलस्य कश्चित् भागः उच्चः, अधः, समतलः च वर्तते । तेषु पर्वतः, उच्चप्रदेशः (पठार), क्षेत्रं च अस्ति ।[19]
पर्वतस्य शिखरं लघु, आधारः विस्तृतः च वर्तते । अयं समीपस्थेभ्यः क्षेत्रेभ्यः उन्नतः भवति । केषुचित् पर्वतेषु सदैव हिमनद्यः भवन्ति । ताः हिमानी इति कथ्यन्ते । पृथिव्यां केचित् पर्वताः समुद्रेषु सन्ति । तेन वयं तान् दृष्टुम् असमर्थाः स्मः । ये पर्वताः क्रमबद्धाः भवन्ति, ते पर्वतशृङ्खला इत्यनेन सम्बोध्यते । पर्वतानाम् आकारे अपि भिन्नता भवति । पर्वतस्य त्रयः प्रकाराः सन्ति । वलितपर्वतः, भ्रंशोत्थपर्वतः, ज्वालामुखिपर्वतः च । यस्य पर्वतस्य तलं कर्कशं, शिखरं शङ्क्वाकारं च वर्तते, सः वलितपर्वतः कथ्यते । हिमालयपर्वतः, आल्प्स-पर्वतः च एतौ वलितपर्वतौ स्तः । भारतस्य अरावली-पर्वतशृङ्खला विश्वस्य पुरातनी वलितपर्वतशृङ्खला अस्ति । उत्तर अमेरिका-महाद्वीपे अप्लेशियन् पर्वताः, रूस-देशे यूराल् पर्वताः सन्ति । ते पर्वताः वृत्ताकाराः सन्ति । तेषाम् उच्चता न्यूना वर्तते । यदा पर्वतस्य बृहद्भागः त्रुटितः, ऊर्ध्वाधरः च भवति, तदा सः भ्रंशोत्थपर्वतस्य निर्माणं करोति । पर्वतस्य ऊर्ध्वभागः उत्खण्डभ्रंशः, ध्वस्तः भागः द्रोणिकाभ्रंशः कथ्यते । यूरोप्-महाद्वीपे वॉसजेस्-पर्वतः, राईन घाटी च भ्रंशोत्थपर्वतः अस्ति ।
ज्वालामुखिक्रियया ज्वालामुखिपर्वतस्य निर्माणं भवति । अफ्रीका-महाद्वीपे किलिमञ्जारो, जापान्-देशे फ्यूजियामा एतौ ज्वालामुखिपर्वतौ स्तः ।
पर्वताः लाभदायकाः, जलसङ्ग्राहकाः च भवन्ति । पर्वतेषु स्थिताः हिमान्यः बह्वीनां नदीनां स्रोतांसि भवन्ति । पर्वतानां जलस्य उपयोगः सेचनाय, जलविद्युतः उत्पादनाय भवति । पर्वतेषु विविधाः वनस्पतयः, जीवजन्तवः च प्राप्यन्ते ।[20]
उच्च-समतलभूमिः शैलप्रस्थः उच्यते । समीपस्थानां स्थलानाम् अपेक्षया अयम् उच्चः भवति । अस्य उपरिभागः उत्पीठिका इव दृश्यते । शैलप्रस्थस्य उच्चता प्रायः मीटर् तः किलोमीटर् पर्यन्तं भवति । भारतदेशे स्थितः दक्कन-शैलप्रस्थः पुरातनेषु शैलप्रस्थेषु अन्यतमः वर्तते । चीन-देशस्य तिब्बत-शैलप्रस्थः विश्वस्य उच्चतमः शैलप्रस्थः वर्तते । समुद्रतलात् तस्य उच्चता ४००० मी. तः ६००० मी. पर्यन्तम् अस्ति ।
शैलप्रस्थेषु प्रचुरमात्रायां खानिजाः प्राप्यन्ते । व्यापारिणः शैलप्रस्थे खननं कारयन्ति । अफ्रीका-देशस्य शैलप्रस्थः स्वर्णहीरकयोः खननाय प्रसिद्धः अस्ति । भारतेऽपि छोटानागपुरस्य शैलप्रस्थे लोहः, अङ्गारः, मैङ्गनीज इत्येते प्राप्यन्ते । शैलप्रस्थेषु वीक्षणीयस्थानानि अपि भवन्ति । जनाः भ्रमणार्थम् अपि तत्र गच्छन्ति ।[21]
समतलभूमेः बृहद्भागः क्षेत्रम् कथ्यते । क्षेत्रस्य उच्चता समुद्रतलात् २०० मी. इत्यस्मात् अधिकः न भवति । नदीनां ग्रासप्रक्रियया क्षेत्राणां निर्माणं भवति । क्षेत्राणि उर्वराणि अपि भवन्ति । क्षेत्रेषु परिवहनस्य साधनानां निर्माणं सरलम् अस्ति । क्षेत्रेषु जनसङ्ख्या अधिका भवति । मनुष्येभ्यः क्षेत्राणि उपयोगीनि भवन्ति । यतः भवननिर्माणे समतलभूमेः आवश्यकता भवति । क्षेत्रेषु कृषिः अपि क्रियते । विश्वस्य बृहत्तमेषु भागेषु क्षेत्राणि सन्ति ।[22]
पृथ्वी नीलग्रहः अपि कथ्यते । पृथिव्याः जलभागः ७१%, स्थलभागः २९% अस्ति । जलमण्डले जलस्य सर्वाणि स्वरूपाणि भवन्ति । तेषु – महासागराः, नद्यः, सरोवराणि, हिमनद्यः, भूमिगतजलं, वायुमण्डलस्य जलबाष्पः च सम्मिलिताः सन्ति ।
पृथिव्यां स्थितस्य जलभागस्य ९७.२% भागः महासागरेषु अस्ति । तज्जलं बहुक्षारयुतं भवति । अतः मनुष्येभ्यः अनुपयोगि वर्तते । २.७७% भागः हिमनदीनां, भूमिगतजलस्य, हिमस्तराणां च स्वरूपे अस्ति । ०.०३% भागे एव लवणहीनं जलं वर्तते । मानवाः तस्य जलस्य उपयोगं कर्तुं शक्नुवन्ति । यद्यपि नीलग्रहः अस्ति, तथापि जलस्य अभावः अस्ति ।[23]
महासागराः जलमण्डलस्य मुख्यभागाः सन्ति । एते सर्वे परस्परं सम्बद्धाः सन्ति । महासागरीयजलं गतिशीलं भवति । महासागरीयजलस्य मुख्याः तिस्रः गतयः सन्ति । तरङ्गाः, वेलाः (ज्वार-भाटा, (Tide), महासागरीयधाराः च ।
पृथिव्यां चत्वारः महासागराः सन्ति । तेषु – प्रशान्तमहासागरः, अटलांटिक महासागरः, हिन्दमहासागरः, आर्कटिक महासागरः च ।
प्रशान्तमहासागरः पृथिव्याः बृहत्तमः महासागरःवर्तते । पृथिव्याः ६६% भागे अयं विस्तृतः अस्ति । मेरियाना इति नामकः पृथिव्याः गहनतमः गर्तः अस्मिन् महासागरे एव स्थितः अस्ति । अयं प्रायः वृत्ताकारः वर्तते । अस्य महासागरस्य चतसॄषु र्दिक्षु एशियामहाद्वीपः, आस्ट्रेलियामहाद्वीपः, उत्तर अमेरिका-महाद्वीपः, दक्षिण अमेरिका-महाद्वीपः च स्थितः अस्ति ।
अटलांटिकमहासागरः विश्वस्य द्वितीयः बृहत्तमः महासागरः अस्ति । अस्य महासागरस्य आकारः आङ्ग्लभाषायाः S इति अक्षरम् इव वर्तते । अस्य महासागरस्य पश्चिमदिशि उत्तर अमेरिका-महाद्वीपः, दक्षिण अमेरिका-महाद्वीपः च अस्ति । पूर्वदिशि यूरोप-महाद्वीपः, अफ्रीका-महाद्वीपः च वर्तते । अस्य महासागरस्य माध्यमेन अधिकमात्रायां व्यापारः भवति । अतः सर्वेषु महासागरेषु व्यापारदृष्ट्या व्यस्ततमः महासागरः अस्ति ।
हिन्दमहासागरस्य नाम भारत-देशस्य नामोपरि अस्ति । अयं महासागरः त्रिभुजाकारः वर्तते । अस्य उत्तरदिशि एशिया-महाद्वीपः, पश्चिमदिशि अफ्रीका-महाद्वीपः, पूर्वदिशि ऑस्ट्रेलिया-महाद्वीपः च अस्ति ।
आर्कटिकमहासागरः उत्तरध्रुववृत्ते स्थितः अस्ति । अयम् उत्तरध्रुवं परितः विस्तृतः अस्ति । अयं प्रशान्तमहासागरेण सह सम्बद्धः अस्ति । सा बेरिङ्ग नामिकः जलसन्धिः उच्यते ।[24]
पृथिवी वायूनां स्तरैः आवृता अस्ति । तत् वायुमण्डलम् कथ्यते । वायोः स्तरः अस्य ग्रहस्य महत्वपूर्णः भागः वर्तते । वायुमण्डले बहवः वायवः सन्ति । मानवानां जीवनाय ते वायवः साहाय्यं कुर्वन्ति । इदं वायुमण्डलं सूर्यस्य हानिकारकेभ्यः किरणेभ्यः जीवान् रक्षति ।
वायुमण्डलं स्थलमण्डलात् १६०० कि. मी. पर्यन्तम् उन्नतम् अस्ति । घटकानां, तापमानस्य च आधारेण वायुमण्डलस्य पञ्च भागाः कृताः । स्थलमण्डलात् तेषां मण्डलानां क्रमशः स्थानं वर्तते । तेषु – क्षोभमण्डलं, समतापमण्डलं, मध्यमण्डलम्, आयनमण्डलं, बहिर्मण्डलं च ।
नाइट्रोजन-ऑक्सीजन इत्येतौ द्वौ वायू वायुमण्डले मुख्यत्वेन स्तः । विस्तारानुसारेण वायुमण्डलस्य ७८% भागे नाइट्रोजन वायुः, २१% भागे ऑक्सीजन वायुः, १% भागे अन्ये वायवः(कार्बन डाई ऑक्साइड, ऑर्गन) सन्ति ।[25] ऑक्सीजन वायुः श्वसनक्रियायाम् आवश्यकः वर्तते । यद्यपि कार्बन डाई ऑक्साइड इत्यस्य वायोः अल्पमात्रा अस्ति । तथापि अयं पृथिव्या निष्कासितायाः उष्मायाः अवशोषणं करोति । अयं वायुः पादपानां वृद्ध्यर्थम् अपि आवश्यकमः अस्ति ।
स्थलमण्डलात् औन्नत्ये वायुमण्डलस्य घनत्वे अपि भिन्नता भवति । समुद्रतले घनत्वस्य मात्रा सर्वाधिका वर्तते । किन्तु यथा यथा वायुमण्डले उर्ध्वं गच्छामः, तथैव घनत्वं न्यूनं भवति ।
पृथिव्याः वायुमण्डलस्य वर्तमानसंरचनायां नाइट्रोजन, ऑक्सीजन च वायुः प्रमुखः अस्ति । वर्तमानवायुमण्डलस्य अवस्थात्रयम् अस्ति । प्रथमायाम् अवस्थायाम् आदिकालिकानां वायुमण्डलीयानां वायूनां ह्रासः भवति । द्वितीयावस्थायां पृथिव्याः उत्पन्नः जलवाष्पः वायुमण्डस्य विकासे साहाय्यं कृतवान् ।
पृथिव्याः शीतलीकरणे विभेदनकाले पृथिव्याः आन्तरिकभागात् अनेकाः जलवाष्पः, वायवः च निर्गताः । अनेन वायुमण्डलस्य उद्भवः जातः । प्रारम्भे वायुमण्डले जलवाष्पः, नाइट्रोजन, कार्बनडाइ ऑक्साइड, मीथेन, अमोनिया इत्यादयः वायवः अधिकमात्रायां प्राप्ताः अभवन्, किन्तु स्वतन्त्रः ऑक्सीजन-वायुः न्यूनः आसीत् । पृथ्व्याः आन्तरिकभागात् वायवः बहिरागताः, इयं प्रक्रिया वायु-उत्सर्जनम् (Degassing) इति कथ्यते । ज्वालामुखिनां विस्फोटैः वायुमण्डले जलवाष्पः, वायुः च अवर्धत । कार्बन् डाई ऑक्साइड वायुः वर्षाजले सम्मिश्रितः जातः । तेन कारणेन तापमानं न्यूनम् अभवत् । अतः अत्यधिकवर्षा अभवत् । अधिकवर्षया पृथिव्यां महासागराणां निर्माणम् अभवत् । पृथिव्याः उत्पत्यनन्तरं ५० कोटिवर्षेषु महासागाराणां निर्माणं जातम् । प्रायशः २५०-३०० कोटिः वर्षाणि पुरा प्रकाशसंश्लेषणस्य प्रक्रियायाः विकासः अभवत् । अनया प्रक्रियया महासागरेभ्यः ऑक्सीजन् वायोः वृद्धिः जाता । किञ्चित् कालान्तरे वायुमण्डले ऑक्सीजन् वायोः आवश्यकता पूर्णा अभवत् ।[26]
जीवमण्डलं स्थलमण्डले, जलमण्डले, वायुमण्डले च स्थितः कश्चित् भागः वर्तते । अस्मिन् मण्डले जीवनं शक्यम् । मण्डलेऽस्मिन् बह्वीनां प्रजातीनां जीवाः सन्ति । तेषु सूक्ष्मजीवाः, बैक्टीरिया, स्तनधारिणः इत्यादयः सर्वे जीवाः जीवमण्डले निवसन्ति । मनुष्यैः सह अन्ये प्राणिनः परस्परं जीवमण्डलैः सह सम्बद्धाः सन्ति । जीवमण्डलस्य प्राणिनः द्वयोः भागयोः विभक्ताः सन्ति । जन्तुजगत्, पादपजगत् च ।[27]
पृथिव्याः पर्यावरणे त्रीणि मण्डलानि सन्ति । स्थलमण्डलं, जलमण्डलं, वायुमण्डलं च । पृथिव्यां जैवमण्डलम् अपि वर्तते । पृथिव्याः सर्वैः जीवधारिभिः जैवमण्डलस्य (Biosphere) रचना अभवत् । एते सर्वे जीवधारिणः अन्यैः मण्डलैः सह पारस्परिकक्रियां कुर्वन्ति । पृथिव्याः सर्वे जीवितघटकाः जैवमण्डले विद्यन्ते । तेषु – पादपाः, जन्तवः, प्राणिनः, सूक्ष्मजीवाः च सन्ति । अधिकाः जीवाः स्थलमण्डले एव प्राप्यन्ते । किन्तु तेषु बहवः जीवाः वायुमण्डले जलमण्डले अपि प्राप्यन्ते । केचित् जीवाः मण्डलद्व्ये अपि स्वतन्त्रतया विचरणं कर्तुं शक्नुवन्ति ।
जैवमण्डलं, जैवमण्डलानां घटकाः च पर्यावरणस्य महत्वपूर्णानि तत्त्वानि सन्ति । एतानि तत्त्वानि भूम्या, जलेन, मृत्तिकया इत्यादिभिः सह पारस्परिकक्रियां कुर्वन्ति । तापमानेन, वर्षया, आर्द्रतया, सूर्यप्रकाशेन एतानि तत्त्वानि प्रभावितानि भवन्ति । जैविकघटकानां भूमिवायुजलैः सह परस्परम् आदानं, प्रदानं च जीवानां विकासाय च साहाय्याय कल्पते ।[28]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.