अवुकाना प्रतिमा
From Wikipedia, the free encyclopedia
अवुकाना-प्रतिमा ( ( शृणु) /ˈəvʊkɑːnɑː prətɪmɑː/) (हिन्दी: अवुकाना प्रतिमा, आङ्ग्ल: Avukana Buddha statue) मध्यश्रीलङ्कायाः केकीरवा-विभागे स्थिता बुद्धस्य प्रतिमा अस्ति । सा प्रतिमा ४० फीटपरिमिता (१२ मी.) उन्नता अस्ति । विशालायां ग्रेनाट्-शिलायाम् उत्कीर्णा सा प्रतिमा पञ्चम्यां शताब्द्यां निर्मिता इति अनुमीयते । सा प्रतिमा अभयमुद्रायाः भिन्नं स्वरूपं दर्शयति । तस्यां प्रतिमायां सुक्ष्मोत्कीर्णनं जातम् अस्ति । मुख्यतया वस्त्रस्य सुष्ठु उत्कीरितुम् अधिकं कार्यं कृतम् इति दृश्यते । धातुसेननामकस्य राज्ञः समये उत्कीर्णा एषा प्रतिमा शिक्षकविद्यार्थिषु योजितायाः स्पर्धायाः फलम् अस्ति । सद्यः तत्स्थलं पर्यटनाय उत्तमस्थलं मन्यते ।
त्वरिततथ्यानि Year, Type ...
पिदधातु