From Wikipedia, the free encyclopedia
अरनाथः ( ( शृणु) /ˈərənɑːθəhə/) (हिन्दी: अरनाथ,आङ्ग्ल: Aranath) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु अष्टादशः तीर्थङ्करः अस्ति । भगवतः अरनाथस्य वर्णः सुवर्णः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं मत्स्यः च अस्ति । भगवान् अरनाथः इक्ष्वाकुवंशीयः, काश्यपगोत्रीयश्चासीत् ।
अरनाथः | |
---|---|
अष्टादशः जैनतीर्थङ्करः | |
अरनाथस्य प्रतिमा | |
विवरणम् | |
परिवारः | |
पिता | सुदर्शनः |
माता | महादेवी |
वंशः | इक्ष्वाकुः |
स्थानम् | |
जन्म | हस्तिनापुरी |
निर्वाण | सम्मेदशिखरम् |
लक्षणम् | |
वर्णः | सुवर्णः |
चिह्नम् | मत्स्यः |
औन्नत्यम् | ३० धनुर्मात्रात्मकम् (९० मीटर्) |
आयुः | ८४,००० वर्षाणि |
शासकदेवः | |
यक्षः | यक्षेन्द्रः |
यक्षिणी | धारिणी |
जैनध्वजः | |
जैनधर्मस्य प्रतीकम् | |
धर्मावलम्बीनां संख्या | |
---|---|
प्रायः ५० लक्षजनाः | |
प्रवर्तकः | |
आदिनाथः | |
विस्तारः | |
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः | |
शिल्पकृतयः | |
जैनागमः | |
भाषा(ः) | |
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी |
कौमारावस्थायाम् अरनाथस्य शरीरस्य औन्नत्यं त्रिंशत् (३०) धनुर्मात्रात्मकम् आसीत्[1] । भगवतः धार्मिकपरिवारे “यक्षेन्द्र” इत्याख्यः यक्षः, “धारिणी” इत्याख्या यक्षिणी च आसीत् । भगवान् अरनाथः आजीवनं सत्यस्य, अहिंसायाः च नियमानां पालनं कृतवान् । सः जनान् सत्यमार्गम् अनुसर्तुम् अवबोधयति स्म ।
देवायुष्यं समाप्य भगवान् अरनाथस्य जीवः पुनः मृत्युलोकम् आगच्छत् । हस्तिनापुर-नामिका नगरी आसीत् । तस्यां नगर्यां मार्गशीर्ष-मासस्य शुक्लपक्षस्य दशम्यां तिथौ रेवती-नक्षत्रस्य मध्यरात्रौ भगवतः अरनाथस्य जन्म अभवत् [2]।
सुदर्शन-नामकः हस्तिनापुरनगर्याः राजा आसीत् । सुदर्शनः अरनाथस्य पिता आसीत्, माता च महादेवी आसीत् । फाल्गुन-मासस्य शुक्लपक्षस्य तृतीयायां तिथौ रेवती-नक्षत्रे रात्रौ महादेवी तीर्थङ्करत्वसूचकान् चतुर्दश स्वप्नान् दृष्टवती । रात्रौ एव महादेवी राज्ञे सुदर्शनाय चतुर्दशस्वप्नान् श्रावितवती । तस्यां रात्रौ एव भगवतः अरनाथस्य जीवः महादेव्याः गर्भं प्राविशत् [3]। इन्द्रादिभिः देवैः च्यवनकल्याणकमहोत्सवः आचरितः आसीत् ।
आगामि-दिने राजा स्वप्नशास्त्रिणः आहूतवान् । स्वप्नशास्त्रेण एव स्वप्नानां फलादेशः भवितुं शक्यते । स्वप्नशास्त्रिणां पूजनं कृत्वा महादेवी चतुर्दश स्वप्नान् श्रावितवती । स्वप्नशास्त्रिणः स्वप्नानां फलादेशं कृतवान् यत् – “महादेव्याः गर्भे एकः श्रेष्ठः, विशिष्टश्च बालकः अस्ति । सः तीर्थङ्करः भविष्यति” इति ।
सर्वे बालकस्य जन्मनः प्रतीक्षां कुर्वन्तः आसन् । गर्भकालस्य समाप्त्यनन्तरं भगवतः अरनाथस्य पीडारहितं जन्म अभवत् । भगवतः जन्मसमये सम्पूर्णे जगति शान्तवातावरणम् आसीत् । राजा सुदर्शनः सम्पूर्णे राज्ये पुत्रोत्सवस्य घोषणां चकार ।
ये बन्धिनः आसन्, तेभ्यः राजा मुक्तिम् अददात् । राज्ञा पुत्रप्राप्त्याः प्रसन्नतायां सर्वेभ्यः दानं कृतम् । नगरजनाः अपि प्रसन्नाः आसन् । एकादशदिनानि यावत् भगवतः अरनाथस्य जन्मोत्सवः आचरितः ।
जम्बूद्वीपस्य पूर्वविदेहक्षेत्रे सुसीमा-नामिका नगरी आसीत् । तस्याः नगर्याः राजा धनपतिः आसीत् । भगवान् अरनाथः पूर्वजन्मनि धनपतिः नामकः राजा आसीत् । धनपतिना तस्मिन् जन्मनि धर्मस्य साधना कृता । तेन बहुवर्षाणि यावत् राज्यसञ्चालनमपि कृतम् आसीत् ।
धनपतेः राज्ये जनाः नीतिमन्तः आसन् । अतः राज्ञा कदापि कस्मैचित् अपि दण्डः न प्रदत्तः । अन्ते राजा धनपतिः विरक्तः अभवत् । सः संवरमुनेः दीक्षां स्वीकृतवान् । अभिग्रहस्य, स्वाध्यायस्य, ध्यानस्य च विशिष्टा साधना धनपतिना कृता । सः आर्यजनपदि निरपेक्षभावेन विचरन् आसीत् ।
एकदा जिनदासस्य गृहे धनपतेः चातुर्मासीतपसः आहारस्या आयोजनम् आसीत् । तत्र देवैः दानकर्तुः, मुनेः च महिमा कथितः । तथापि मुनिः निरपेक्षः एव आसीत् । तस्य मनसि लेशमात्रम् अपि अहङ्कारः नासीत् । अनेन प्रकारेण धनपतिना घोरसाधनया तीर्थङ्करगोत्रस्य बन्धनं कृतम् । अन्ते आराधकपदं प्राप्य सः ग्रैवेयके महर्धिकदेवः जातः ।
भगवतः अरनाथस्य जन्मनः एकादशदिनोत्तरं नामकरणसंस्कारस्य विधिः अभवत् । तस्मिन् दिने जनाः उत्सवम् अपि आचरितवन्तः । स्वर्गलोकात् बहवः देवाः भगवतः अरनाथस्य दर्शनार्थं समागताः । चतुष्षष्टिः इन्द्राः, लोकान्तिकाः देवाः च अपि उत्सवम् आचरितवन्तः । उत्सवे तेषां देवानाम् उपस्थितिः आवश्यकी वर्तते ।
राज्यस्य जनाः अपि प्रसन्नाः आसन् । नामकरणोत्सवे बालकस्य नामकरणं भवति । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । अन्ते राज्ञा स्वस्य विचारः कथितः यत् – “यदा महादेवी गर्भवती आसीत्, तदा महादेव्या रत्नमयम् एकम् अरचक्रं दृष्टम् आसीत् । अतः अस्य बालकस्य नाम अरकुमारः इति करणीयम् । सर्वैः जनैः, देवैः च समर्थनं प्रदत्तम् । तावत् एव अरनाथः इति नाम प्रसिद्धम् अस्ति ।
भगवतः अरनाथस्य बाल्यावस्था मनोरञ्जनेन व्यतीता । समयान्तरे सः तारुण्यावस्थायां प्राविशत् । भगवतः मनसि विरक्तेः भावः आसीत् । किन्तु राज्ञा सुदर्शनेन भगवतः अरनाथस्य अनेकाभिः राजकन्याभिः सह विवाहः कारितः । अरनाथस्य अरविन्द-नामकः पुत्रः अभवत् । अरनाथस्य विवाहानन्तरं राज्ञः सुदर्शनस्य मनसि राज्यात् निवृत्तेः विचारः आगतः । अतः सः अरनाथस्य राज्याभिषेकं कृतवान्, अरनाथाय राज्यस्य दायित्वं च प्रदत्तवान् । ततः परं सुदर्शनः स्थवीरमुनेः दीक्षां प्रापत् । दीक्षानन्तरं सः गृहं त्यक्त्वा साधनायां लीनः अभवत् ।
यदा अरनाथः राजा अभवत् तदा तेन राज्यस्य निष्ठापूर्वकं, विरक्तिपूर्वकं च पालनं कृतम् आसीत् । अरनाथस्य राज्ये अपराधिनः अपि न्यूनाः अभवन् । भगवान् अरनाथः सम्पूर्णे राज्ये जनेभ्यः सर्वाणि सौलभ्यानि यच्छति स्म । कस्यापि वस्तुनः अभावः एव नासीत्, अतः अपराधाः अपि न भवन्ति स्म । जनाः अपि आन्तरिकविवादान् विस्मृतवन्तः । जनाः परस्परम् एव विवादानां निवारणं कुर्वन्ति स्म । यथा कमले पङ्के उत्पन्ने सत्यपि, पङ्कात् मुक्तः भवति, तथैव भगवति अरनाथे अपि राज्यस्य सर्वभोगेषु सम्पृक्ते सति अपि मोहात् मुक्तः आसीत् । अतः तस्य जीवनं कमलम् इव आसीत् ।
राज्ञः अरनाथस्य मनसि अपि राज्यस्य सञ्चालनस्य सन्तोषः आसीत् । जनानाम् एकात्मतायाः कारणेन एव सम्पूर्णं राज्यं कुटुम्बम् इव प्रतिभाति स्म । राज्ये प्रजा सुखीनी आसीत् । यतः अरनाथः सदैव जनानां सौकर्येभ्यः जाग्रतः भवति स्म । जनाः पूर्ववर्तिनः राजानः विस्मृतवन्तः आसन् । जनेभ्यः अरनाथः एव सर्वस्वम् आसीत् ।
बहुवर्षाणि यावत् अरनाथः माण्डलिकः राजा आसीत् । तत्पश्चात् राज्ये चक्ररत्नं समुद्भूतम् । अतः चक्ररत्नेन तेन सम्पूर्णं भूमण्डलं जितम् । अतः अरनाथः चक्रवर्तिपदं प्राप्तवान् । द्वात्रिंशत् राजानः अरनाथस्य सेवायां रताः आसन् ।
भगवता अरनाथेन द्विचत्वारिंशत्सहस्रवर्षाणि यावत् चक्रवर्तित्वेन राज्यसञ्चालनं कृतम् आसीत् । तीर्थङ्कराः त्रिकालज्ञाः भवन्ति । अतः यदा तेन दीक्षायाः समयः ज्ञातः, तदा स्वस्य पुत्रस्य अरविन्दस्य राज्याभिषेकं कृत्वा अरविन्दाय राज्यस्य दायित्वं प्रदत्तम् । ततः परं सः वार्षिकीदानं कर्तुं सज्जः अभवत् । राज्ये अपि अरनाथेन वार्षिकीदानस्य घोषणा कृता । स्वर्गलोकात् बहवः देवाः, चतुष्षष्टिः इन्द्राः चापि तत्र समुपस्थिताः आसन् ।
ततः परं भगवान् अरनाथः वार्षिकीदानम् अकरोत् । एकवर्षं यावत् तेन वार्षिकीदानं कृतम् । वार्षिकीदाने सुवर्णमुद्रिकाः दीयन्ते स्म । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।
अरनाथः पराक्रमी, तेजस्वी च आसीत् । अतः राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः अभवन् । यदा वार्षिकीदानं समाप्तं जातं, तदा मार्गशीर्ष-मासस्य शुक्लपक्षस्य एकादश्यां तिथौ रेवती-नक्षत्रे भगवान् अरनाथः सहस्रजनैः सह हस्तिनापुरनगर्याः सहस्राम्रोद्यानं गतवान् । तत्र देवाः, इन्द्राः चापि समुपस्थिताः आसन् । तस्मिन् दिवसे एव सर्वेषां समक्षे भगवता अरनाथेन दीक्षा अङ्गीकृता । तेन सावद्ययोगानां सर्वथा प्रत्याख्यानं कृतम् आसीत् ।
दीक्षायाः दिवसे सः षष्ठीतपः कृतवान् । दीक्षायाः अपरे दिने भगवान् अरनाथः राजपुरस्य अपराजितनामकस्य राज्ञः गृहे प्रथमं क्षीरान्नं भुक्तवान् । देवैः जनेभ्यः दानस्य माहात्म्यम् अवबोधितम् आसीत् ।
दीक्षानन्तरं वर्षत्रयं यावत् भगवान् अरनाथः रहसि साधनां कुर्वन् आसीत् । भगवतः रहस्यविषये बहुनि मतानि सन्ति । केषुचित् ग्रन्थेषु वर्षत्रस्यस्य रहस्यकालविषयकः उल्लेखः प्राप्यते । केषुचित् ग्रन्थेषु केवलं त्रयाणाम् अहोरात्राणां रहस्यकालस्य उल्लेखः दृश्यते ।
भगवता अरनाथेन विविधाः तपस्याः, साधनाः च कृता । सः सर्वत्र विचरन् पुनः हस्तिनापुर-नगर्याः सहस्राम्रोद्यानं प्राप्तवान् । आम्रवृक्षस्याधः ध्यानारूढः सन् सः क्षपकश्रेणीमलभत ।
वर्षत्रयस्य साधनाकाले भगवान् अरनाथः साधनया घातकर्मणां नाशं कृतवान् आसीत् । हस्तिनापुर-नगर्यां कार्त्तिक-मासस्य शुक्लपक्षस्य द्वादश्यां तिथौ रेवती-नक्षत्रे तस्मै कैवल्यज्ञानम् अभवत् । तस्मिन् दिवसे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः, नगरजनाः च तत्र समुपस्थिताः आसन् । सर्वैः मिलित्वा कैवल्यमहोत्सवस्य आयोजनं कृतम्, उत्सवः आचरितः च ।
अनन्तरं भगवता अरनाथेन प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः अरनाथस्य प्रवचनस्य तादृशः प्रभावः आसीत्, येन जनाः मुग्धाः, तल्लीनाः च अभवन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः संसारसागरात् निवृत्तिं प्राप्तुम् ऐच्छन् । भगवतः अरनाथस्य प्रथमे प्रवचने एव तीर्थस्य स्थापना जाता । तदैव अरनाथः तीर्थङ्करः इति पदं प्रापत् ।
पुरा राजा अरनाथः चक्रवर्ती आसीत् । अतः जनेषु तस्य प्रभावः अत्यधिकः वर्तते स्म । भगवान् अरनाथः सर्वज्ञः आसीत् । अतः जनानां मनसि अरनाथाय महती आस्था आसीत् । जनानां जीवने अपि अरनाथस्य महान् प्रभावः अभवत् ।
यदा भगवान् अरनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा अरनाथेन धार्मिकपरिवारस्य अपि रचना कृता[4]।
अयं भगवतः धार्मिकः परिवारः वर्तते । तेषु परिवारजनेषु त्रयस्त्रिंशत् गणधरेषु “कुम्भस्वामी” इत्याख्यः प्रथमः गणधरः आसीत् ।
तीर्थङ्कराः पूर्वमेव सर्वं जानान्ति । तथैव यदा भगवता अरनाथेन अपि स्वस्य निर्वाणकालः ज्ञातः, तदा सः सप्तसहस्रसाधुभिः सह सम्मेदशिखरं गतवान् । तत्र सः एकमासं यावत् अनशनञ्चकार । तेन एकमासं यावत् पुनः तपस्या, साधना च कृता । एकमासानन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः अभवत् । अनन्तरं सः सिद्धपदं प्रापत् ।
एकमासस्य अनशनान्ते मार्गशीर्ष-मासस्य शुक्लपक्षस्य दशम्यां तिथौ रेवती-नक्षत्रे सम्मेदशिखरे भगवतः अरनाथस्य निर्वाणम् अभवत् । भगवतः अरनाथस्य जन्मनिर्वाणयोः मासपक्षतिथिनक्षत्राणि समानानि एव सन्ति । भगवता सह बहुभिः मुनिभिः अपि मोक्षः प्राप्तः आसीत् [5]।
|
विकिमीडिया कॉमन्स् मध्ये अरनाथः सम्बन्धिताः सञ्चिकाः सन्ति। |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.