User:Yaajushi/subpage
From Wikipedia, the free encyclopedia
विकिपीडिया इत्येका निःशुल्का[1] संजालाधारिता सहयोगजा बहुभाषावर्तिनी विश्वविज्ञानकोश-परियोजना या च निर्लाभिना (non-profit) ’विकिमीडिया-फौण्डेशन’-द्वारा संचाल्यते। अस्य सार्द्धकोट्यधिकाः (१५,००,०००+) लेखाः (त्रिलक्षाधिकाः आङ्ग्लभाषायाम्) जगतः सर्वेषु स्थानेषु निवसद्भिः सहयोगिभिः सहयोगेन लिखिताः केनापि संजालपुट-गमन-समर्थेन[2] सम्पाद्यन्ते च। विकिपीडिया २००१तमे वर्षे जिमीवेल्स-लॅरीसैंगर-द्वयेन]][3] प्रकाशिता। अद्यावधि चैषा संजाले बृहत्तमा सर्वाधिक-लोकप्रिया सामान्य-सन्दर्भ-कृतिरिति मन्यते[4][5][6][7] अलेक्सायां सर्वसंजालस्थानेषु सप्तम-स्थानग्राहिणी ३६-कोटि-पाठकवती[8][9] च।
विकिपीडिया इति नाम लॅरीसैंगर-महाभागेन[10] ’विकि’-इति (सहयोगज-संजाल-स्थान-निर्माणक्षम-तन्त्रज्ञानं हवाईभाषायाः जलदार्थीयात् ’विकि’शब्दात् आख्यातम्) encyclopedia-इति (एंसैक्लोपीडिया - विश्वविज्ञानकोशः) अनयोः शब्दयोः संयोगेन निर्मितम्।
यद्यपि विकिपीडिया-नीतयः सत्यापनीयत्वम् उदासीन-मतत्वं चाङ्गीकुर्वन्ति तथापि विकिपीडिया-टीकाकारास्त्वस्यां व्यवस्थागतपक्षपात-असङ्गति-इत्यादीन् दोषान् आरोपयन्ति। लोकसंस्कृतेः[11] अत्यधिक-प्रभावोऽप्यत्र विप्रतिपद्यते। अपदिश्यते च यदस्याः सम्पादनव्यवस्थायां प्रामाणिकत्वापेक्षया मतैक्यमभीष्यते[12]। अस्याः विश्वसनीयता याथार्थता चापि लक्ष्यीकृता[13]। अन्यासु आलोचनासु अस्याः जाल्मधर्षणसहनक्षमता मिथ्या-असत्यापनीय-प्रख्यानस्य योजनादिकम्[14] विचारणीयम्। तत्रापि जाल्मधर्षणस्य अल्पजीविता अध्ययनात् परिक्ऌप्ता[15][16]। नेचर-कृते अन्वेषणे सम्पन्नात् विज्ञानविषयकलेखानां तोलनात् प्रतिपादितं यदेते लेखाः परिशुद्धिमानेन एंसैक्लोपीडिया-ब्रिटानिकायाः सामीप्यं प्रदर्शयन्ति "घोरदोषानाम्" अनुपातोऽपि उभयत्र समानः[17]।
विकिपीडियायाः विश्वविज्ञानकोशानां निर्माणस्य विशेषज्ञ-संचालित-शैली-विसर्जनं अशैक्षणिकसामग्रेः अतिविस्तरश्च बहुधा अभिलक्षितः। Time-पत्रिकया यदा निरन्तरं सफलतया वर्द्धमानं सद्यस्थित-सहयोगं (online collaboration) जगतः लक्षावधिजनानां परस्पर-सम्पर्कं च संप्रतिपाद्य २००६तमे वर्षे Person of the Year-रूपेण भवान् (You) सम्मानितः तदा विकिपीडिया अपि Web 2.0-सेवानां नैकेषु YouTube-MySpace-Facebook-आदिषु उदाहरणेषु अन्यतमासीत्[18]। कतिभिः न केवलं विश्वविज्ञानकोशरूपेण अपितु शश्वदद्यतनीकृत-वार्तास्रोतरूपेणापि विकिपीडियायाः महत्त्वम् अभिलक्षितं यतः सद्यस्क-विषयान् अधिकृत्य झटित्येव अत्र लेखाः लिख्यन्ते[19][20]। विद्यार्थिनः अपि विकिपीडिया-लेखानां लेखनाय संदिश्यन्ते अदीक्षितेभ्यः निःसन्दिग्ध-सङ्क्षिप्त-लेखनाभ्यासरूपेण[21]।