हरिद्रा
From Wikipedia, the free encyclopedia
हरिद्रासस्यम्
- संस्कृतं नाम - हरिद्रा, काञ्चनी, पीता, निशाख्या, क्रिमिघ्ना, हलदी योषित्प्रिया, इट्टविलासिनी
- वैज्ञानिकं नाम -Curcume Longa, Linn
- कन्नडनामानि - अरशिन /अर्शिना
- आङ्ग्लनाम - Turmeric/n
- हिन्दीनामानि - हल्दी, हर्द
- तमिळुनामानि -मञ्जल् / हलद, हलदर
- तेलगुनामानि - पसपु/ फा,जरद चोव
- मराठीनामानि - हळद
हरिद्रा/ Turmeric | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
Curcuma longa | ||||||||||
जैविकवर्गीकरणम् | ||||||||||
| ||||||||||
द्विपदनाम | ||||||||||
Curcuma longa Linnaeus[1] | ||||||||||
इयं हरिद्रा भारते वर्धमानः कश्चन सस्यविशेषः । हरिद्रा सस्यजन्यः आहारपदार्थः । एषा हरिद्रा भारते पाकशालातः स्नानगृहपर्यन्तम् अपि स्थानं प्राप्तवती अस्ति । हरिद्रायाम् अत्यधिकप्रमाणेन रोगनिरोधकशक्तिः अस्ति इति उच्यते । देवस्य पूजार्थम् अपि हरिद्रा आवश्यकी एव । अस्याः हरिद्रायाः पीतिका, पिङ्गा, रजनी, रञ्जनी, निशा, गौरी, वर्णवती, पीता, हरिता, वरवर्णिनी, हलदिका, भद्रलता, वर्णविलासिनी, विषघ्नी, जयन्ती, दीर्घरङ्गा, रङ्गिणी इत्यादीनि अन्यानि अपि नामानि सन्ति । एषा हरिद्रा यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते ।
हरिद्रा एका वर्णकारिका , अस्य लेपनेन देहः सुन्दरं वर्णं प्राप्नोति । पिटकानां व्रणानां च अस्य लेपनं शीघ्रगुणकारी । हरिद्रामिश्रितजलेन नेत्रस्य क्षालनेन रक्तनेत्रदोषः निवारितः भवति । इयं रुचिवर्धिका । अजीर्णं, झांण्डीस्, जलोदरः दूषितरक्तरोगाः कण्डूया, शीतपित्तं, रक्तहीनता इत्यादीनां इयं उत्तमः औषधिः । प्रमेहरोगनिवारणे अस्य रसस्य चूर्णस्य वा सेवनं फलकारी ।