साङ्ख्यदर्शनम्
From Wikipedia, the free encyclopedia
सांख्यदर्शनं (Sāṃkhya) प्राचीनतमं दर्शनमस्ति । अस्य सांख्यशास्त्रस्य प्रवर्तकः भगवान् कपिलः । वेदेषु यद्यपि स्पष्टरूपेण सांख्यस्य पारिभाषिकपदानाम् उपलिब्धिर्न भवति तथापि बृहदारण्यक-कठोपनिषद्-श्वेताश्वतर-प्रभृतिषु ग्रन्थेषु सांख्यतत्त्वानां स्पष्टं दर्शनं भवति । यद्यपि तास्वेव उपनिषत्सु इतरदर्शनानां मूलबीजान्यपि उपलभ्यन्ते तथापि अनेन दर्शनानां वैदिकस्रोतसां समर्थनमेव भवति । कपिलकृतेन सांख्यसूत्रेण विज्ञायते यत् सूत्रकाल एव सांख्यतत्त्वानि पर्याप्तं प्रसृतानि आसन् तेषां सुरक्षायै निश्चितमनाः कपिलः तत्सन्दर्भितं सकलं ज्ञानं सूत्ररूपेण सङ्कलितवान् । शास्त्रेऽस्मिन् संक्षेपतः तत्त्वचतुष्टयस्य अस्तित्वमभ्युपगतम् । तानि यथा- प्रकृतिः, प्रकृतिविकृत्युभयात्मकम्, केवलविकृतिः, अनुभयात्मिकम् चेति । प्रकृतिः मूलप्रकृतिः अथवा प्रधानमित्युच्यते । यतः सा एव सकलप्रपञ्चस्य मूलकारणभूता भवति । प्रकर्षेण करोति - कार्यमुत्पादयति इति प्रकृतिः इति तस्याः व्युत्पत्तिः । अथवा या स्वभिन्नतत्त्वान्तराणाम् उत्पत्तिं करोति सा प्रकृतिरिति ।
प्रकृतिरित्यत्र ’प्र’ इति शब्देन प्रकर्षस्य प्रतीतिः द्योत्यते, स तु प्रकर्षः तत्त्वारम्भकः भवति । अत्रेदानीमयं प्रश्नः उदेति यत् घटस्य मृत्तिका प्रकृतिः इति व्यवहारोऽयं लोके दृष्टः, यदि घटप्रकृतिमृत्तिका, तर्हि मृत्तिकाभिन्नत्वेन तत्त्वान्तरभूतः घटः इति परं न सिध्यति अथापि घटप्रकृतिमृत्तिका इति कथमुच्यते इति चेत्, उच्यते । यद्यपि मृत्तिका घटप्रकृतिः वस्तुतः तथापि प्रकृतिशब्देन प्रकर्षाविवक्षया केवलोपादानकारणमेव प्रकृतित्वेन स्वीकृत्य उक्तदृष्टान्ते व्यवहारः। अनेन एतत्सिद्धं भवति यत् स्वभिन्नतत्त्वान्तरोत्पत्तौ कारणात्मिका या सा प्रकृतिरिति एतल्लक्षणं तस्याः सामान्यलक्षणं भविष्यतीति ।