श्रीकृष्णविलासकाव्यम्
From Wikipedia, the free encyclopedia
महाकवि सुकुमारविरचितं महाकाव्यं भवति श्रीकृष्णविलासम् । सुकुमारकवेः जीवनविषये पण्डितानां मतभेदः अस्ति । तथापि कालिदासादर्वाचीनः श्रीशङ्करात्प्राचीनश्चायमिति ज्ञातुं शक्यते । केरलीयकविषु प्राचीनतमः आसीत् सुकुमारकविः । तस्य श्रीकृष्णविलासकर्तृत्वं - इति श्रीकृष्णविलासकाव्ये सुकुमारकृतौ - इति सर्गान्तनिर्देशेन ज्ञायते । अपूर्णे श्रीकृष्णविलासे काव्ये इदानीं द्वादशसर्गाः लभ्यन्ते । श्रीमगद्भागवतदशमस्कन्धोक्तरीत्या श्रीकृश्णकथाः अत्र वर्ण्यन्ते । असुरपीडितायाः भूमीदेव्याः ब्रह्माणं प्रति प्रार्थना, ब्रह्मणा, तया, इतरैः देवै च साकं विष्णुसमीपागमनम् इत्यादिरीत्या काव्यमिदमारभ्यते । श्रीकृष्णस्य व्योमयात्रा, समुद्रवर्णनम् इत्यादिषु भागेषु रघुवंशस्यानुकरणं सम्यक् दृश्यते । नगरार्णवशैलर्तु.......इत्यादि महाकाव्यलक्षमं रससन्निवेशश्च सम्यक् कृतं कविना। मधुरा सरला च कवेः शैलिः । सप्तमे सर्गे ऋतूनां वर्णनम् अत्यन्तं रमणीयं भवति । तत्र वसन्तवर्णनात् एकमुदाहरणम् -
- धृतमौनमनारतोपवासं व्रतमुद्यानतपोवने चरित्वा ।
- उदयुञ्चत पारणां विधातुं परपुष्टास्सहकारमञ्जरीभिः ।।
तृतीये सर्गे एकस्मिन् श्लोके यशोदा कृष्णं चन्द्रं एवं दर्शयति -
- पश्य मातुलमिति प्रदर्शितं यामिनीषु गगने यशोदया ।
- आजुहाव ललितेन पाणिना शीतभानुमरविन्दलोचनः ।।
अधुनापि केरलीयाः चन्द्रं मातुल इत्येव अभिधीयन्ते । अत एव अयं श्लोकः श्रीकृष्णकवेः केरलीयत्व द्योतकः । श्रीकृष्णविलासस्य माधुर्यात् सारल्यात् च काव्यपठने प्रवृत्तानां बालानां इदमेव काव्यम् प्रथमम् आसीत् ।
सुकुमारकविविरचितं महाकाव्यं भवति श्रीकृष्णविलासम् । सुकुमारकवेः कालः परमार्थतया न ज्ञायते । केरलीय़ेषु संस्कृतकविषु प्राचीनः भवति सुकुमारकविः इति मन्यते । अपूर्णे श्रीकृष्णविलासकाव्ये इदानीं द्वादशसर्गाः लभ्यन्ते ।