![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/9/91/SennMicrophone.jpg/640px-SennMicrophone.jpg&w=640&q=50)
शब्दः
sound / From Wikipedia, the free encyclopedia
जनाः जीवाः, जन्तवश्च यदा किमपि कार्यं कुर्वन्ति, किमपि अभिव्यक्तिं कुर्वन्ति, तदा तैः काचन क्रिया क्रियते, तया क्रियया वायुमण्डले काचन विकृतिः आगच्छति । वायुमण्डले (दबाब)बलम् आपतति । तेन वायुतरङ्गानामुत्पत्तिः जायते । अर्थात् यदा जीवैः काचन क्रिया क्रियते तदा तस्याः क्रियायाः वायुमण्डले प्रतिक्रिया- स्वरूपं किञ्चन कम्पनमुत्पद्यते । तदेव कम्पनं ध्वनिः इति कथ्यते । यद्यपि अस्माकं संस्कृतसाहित्ये ध्वनिरिति शब्दस्य व्यापकं वर्णनं कृतं वर्तते, विविधरूपेण ध्वनिशब्दस्यार्थोऽपि प्रतिपादितः वर्तते । परमत्र ध्वनिशब्दस्यार्थः भवति सामान्या ध्वनिः । अर्थात् यः श्रूयते तदेव ध्वनिः इत्यादयः । अर्थात् ध्वन्यते इति ध्वनिः । भवन्तु ते प्राकृतिकाः, मानवकृताः वा ध्वनयः । अस्योत्पत्तिः सर्वत्र अनायासेनैव भवति । कदाचिदयं विद्युल्लतया जायते, जलेन जायते, पवनेन जायते, वस्तुपतनेन जायते, वात्यया जायते, अद्या जायते, सागरेण वा जायते । मूलतः ध्वनिः कस्याश्चित् सामान्यप्रक्रियायाः परिणामः भवति ।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/9/91/SennMicrophone.jpg/640px-SennMicrophone.jpg)