वैष्णवसम्प्रदायः
From Wikipedia, the free encyclopedia
विदित एव खल्वयमर्थ: सर्वेषामपि विदुषां यत् किल जगन्नियन्त्रकं पारमेश्वरं तत्त्वं यथा भारतीयानां सारस्वते प्रतिपादितं नैवमन्यत्र क्वापीति । भारतीयानां च निरतिशयप्रमाणभूता ग्रन्था नाम वेदा एव । तन्मूलकत्वेनैव स्मृतिप्रमाणादीनां प्रामाण्यम् । यच्च वेदविरोधि तत्पुनस्त्याज्यमेवेति निश्चिन्वते श्रुतिमात्रनिष्ठा भारतीया: । सृष्टिनिर्माणविधौ सर्वाद्यतमा: खलु श्रुतय: । तथाहि आर्चिके पौरुषे सूक्ते
तस्माद् यज्ञात् सर्वहुतः ऋच: सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्माद् यजुस्तस्मादजायत ॥
इति सर्वादौ वेदानामाविर्भावमुद्घोष्य तदनन्तरमेव अश्व-गो-मेध-याग-ब्राह्मणादिवर्णा सञ्जाता इति प्रत्यपादि । श्रुतय एव सर्वं ज्ञानविज्ञानानां मूलमिति मन्यन्ते भारतीया: । सर्वं वेदात् प्रसिद्ध्यति इत्यभियुक्त्योक्तिरेतदेव कथयति । विशेषत: खलु यज्ञार्थमेव वेदानामवतार:। यज्ञश्च नाम परमात्मन उपासना । परमात्मनो ज्ञानमेव परमश्रेयसो मोक्षाख्यस्य सम्पादकमिति “तमेव विदित्वाऽतिमृत्युमेति नान्य: पन्था विद्यतेऽयनाय” इति श्रुति: प्रतिपादयति । सर्वव्यापक: परमात्मैव भगवान् विष्णु: । “तत्सृष्ट्वा तदेवानुप्राविशत्” इति श्रुत्या विष्णुपदार्थो विज्ञायते । विशतीति विष्णुरिति व्यापक इत्यर्थ: ।