From Wikipedia, the free encyclopedia
वडोदरा ( ( शृणु) /ˈvədoʊdərɑː/) (गुजराती: વડોદરા, आङ्ग्ल: Vadodara)महानगरं गुजरातराज्यस्य मध्यभागे स्थितस्य वडोदरामण्डलस्य केन्द्रमस्ति । एतन्महानगरं विश्वामित्रीनद्याः तीरे विकसितमस्ति । एतत् पूर्वं गायकवाडराज्यस्य राजधानी आसीत् । सद्यः गुजरातराज्यस्य बृहत्तमनगरेषु तृतीयमस्ति एतन्महानगरम् । अस्य बरोडा, सयाजीनगरी, वटोदरम् इति नामान्तराणि सन्ति ।
वटोदरमहानगरम् વડોદરા Vadodara | |
---|---|
Heritage City Vadodara | |
वडोदरा | |
देशः | भारतम् |
राज्यम् | गुजरातराज्यम् |
मण्डलम् | वडोदरामण्डलम् |
महानगरविस्तारः | १४८.९५ चतुरस्रकि.मी. |
जनसङ्ख्या(२०११) | १,६०२,४२४ |
Government | |
• Type | महापौरपरिषद्-सर्वकारः(Mayor–council government) |
• Body | राजकोट म्युनिसिपल् कोर्पोरेशन् |
• महापौरः | भरत शाह |
• म्युनिसिपल कमीशनर् | अश्विनीकुमार |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
पीनकोड |
३९० ०XX |
Area code(s) | ०२६५ |
Vehicle registration | जीजे-०६,जीजे-२९ |
साक्षरता | ८१.२१% |
भाषाः | गुजराती, हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४९% |
Website | www.vmcegov.com |
|
पुरातत्वविदां मतमस्ति यत् २००० वर्षपूर्वम् अत्र आङ्कोत्तरानामकः ग्रामः आसीत् (तं ग्रामम् अद्य अकोटा इति जानन्ति जनाः)। तस्मात् ग्रामात् १ कि.मी. दूरे वटवृक्षाणां वनमासीत् । अतः तस्य स्थलस्य नाम वाडपाद्रका इति जातम् । वाडपाद्रकास्थलमधुना वडोदरा इति प्रख्यातमस्ति । परन्तु वडोदरा इति शब्दस्तु वटोदरम् इति संस्कृतशब्दात् आगतः । यस्यार्थः भवति वटवृक्षस्य उदरमिति । अतः अस्य वटोदरम् इति नामानतरमपि उक्तम् । अस्पष्टवक्तारः आङ्ग्लाः स्पष्टतया वडोदरा इति उच्चारणं कर्तुम् असमर्थाः आसन्, अतः ते बरोडा इति वदन्ति स्म । १९७४ तमे वर्षे गुजरातसर्वकारेण मूलनाम यदा प्रशासनिकनामत्वेन घोषितं, तदा वडोदरा इति नाम प्रसिद्धं जातम् । ततः पूर्वं सर्वे बरोडा इत्येव वदन्ति स्म आङ्ग्लजनसङ्गदोषत्वात् ।
१० शताब्दे अत्र चालुक्यवंशीयराजानां राज्यम् आसीत् । ततः क्रमेण सोलङ्की-वाघेला-मुघलवंशीयराजानां शासनमासीदत्र । १६७४ तमे वर्षे मराठावंशीयराज्ञौ दामजीगायकवाड-रघुनाथौ च मध्यगुजरातराज्यं स्वाधीनं कृत्वा मुघलसाम्राज्यस्य विनाशं स्पष्टं कृतवन्तौ । १९ तमे शताब्दे ‘एङ्गल्-मराठा’-जनयोः युद्धे जाते सति Divide and Rule इति कूटनीतेः उपयोगं कृत्वा आङ्ग्लाः गुजरातराज्योपरि स्वप्रभुत्वं प्रास्थापयन्त । ततः पुणेमहानगरस्य गायकवाडवंशीयाः मराठायोधाः 'पेशवा'जनैः सह युद्धाय उद्यताः अभूवन् । युद्धे स्वरक्षणं भवेत् इति चिन्तयित्वा गायकवाडराजानः आङ्ग्लैः सह सन्धिं कृतवन्तः । तस्यां सन्ध्यां वडोदरामहानगरम् आङ्ग्लानाम् आधिपत्यान्तर्गतम् अभूत् । परन्तु गायकवाडपरम्परायाः राजानः स्वस्य इतिहासस्य संरक्षणे सफलाः अभूवन् । ते वडोदरास्थितानां स्वप्रासादादीनां संरक्षणं कृतवन्तः । हैदराबाद्-मैसूरुमहानगरयोः अपि ते स्वस्य परम्परागतस्थानानां रक्षणं कृतवन्तः । वडोदरामहानगरस्य विकासः महाराजसयाजीराव-III इत्यस्य कुशलनेतृत्वेन जातः अस्ति । तस्य मुख्योद्देशः सामाजिक-आर्थिकस्थिरते भवेताम् इति आसीत् । अतः सः वस्त्रनिर्माणप्रक्रियायां क्रान्तिकारिपरिवर्तनं कृत्वा वडोदरामहानगरम् उद्योगक्षेत्रे अग्रे नीतवान् । सः शिक्षणक्षेत्रेऽपि क्रान्तिकारिपरिवर्तनानि कृतवान् । सः प्राथमिकशिक्षणम् अनिवार्यं भवेत् इति घोषितवान् । कन्याशिक्षणं भवेत् इति तस्य मुख्यलक्ष्यम् आसीत् । कारणं तदा भारते कन्याशिक्षणं नासीत् । एतावति उत्कृष्टे निर्णये सति न केवलम् आङ्ग्लाः, अन्ये जनाः अपि तस्य भूरिप्रशंसां कृतवन्तः । सः आदिवासि-यवनबालेभ्यः शालायाः निर्माणमपि कारितवान् । पौढशिक्षणस्य प्रोत्साहकः सः पुस्तकालयानां स्थापनां कृतवान् । तस्य शिक्षणक्षेत्रे बहु योगदानम् आसीत् । कलाप्रोत्साहनायापि सः भारतीयराज्ञेषु आदर्शः आसीत् ।
वडोदराविमानस्थानकं मुख्यनगरात् ५.७ कि.मी. दूरे अस्ति । भारतस्य विविधेभ्यः नगरेभ्यः, गुजरातराज्यस्य अन्यनगरेभ्यः च वडोदरामहानगराय वायुयानानि सन्ति ।
भारतस्य, गुजरातराज्यस्य च अन्यभागेभ्यः वडोदरामहानगराय धूमशकटयानानि सन्ति । मुख्यतः अहमदाबाद-मुम्बई-देहली-हैदराबाद्-पुणे-बेङ्गळूरु-तिरुपति-हावडा-जयपुरम्-हरिद्वार-भोपालादिनगरेभ्यः धूमशकटयानानि सन्ति ।
भारतस्य, गुजरातराज्यस्य च अन्यभागेभ्यः वडोदरामहानगराय 'बस्'यानानि अपि सन्ति । मुख्यतः अहमदाबाद-मुम्बई-देहली-जयपुरादिनगरेभ्यः 'बस्'यानानि सन्ति ।
महाराजा सयाजीराव गायकवाड
महाराजा सयाजीराव विश्वविद्यालयः
सरयजीरावोद्यानम्
विकिमीडिया कॉमन्स् मध्ये वडोदरा सम्बन्धिताः सञ्चिकाः सन्ति। |
http://timesofindia.indiatimes.com/city/vadodara
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.