वक्रोक्तिसम्प्रदायः
From Wikipedia, the free encyclopedia
वक्रोक्तेः महनीयभावुनाया बीजरूपेण सूचनकरणस्य श्रेयोभागी आचार्यभामहः अस्ति । तमेव बीजमादाय पूर्णरूपेणाङ्कुरित-पल्लवितकरणस्य सम्मानमाचार्यकुन्तकस्यैव वर्तते । यद्यपि भामहग्रन्थपर्यालोचनयाऽलङ्काराणामेव भामहेन प्राधान्यं दत्तम् तथापि रसवक्रोक्तिरीतिसम्प्रदायानां बीजमपि प्रदर्शितं मिलति । अनेन महात्मना हि वक्रोक्तेर्व्यापकत्वं प्रदर्श्य काव्यार्थमावश्यकत्वमेतस्याः इति प्रदर्शितम् । तथाहि - “युक्तं स्वभावोक्त्या सर्वमेतदिष्यते।"[1] एनामेवाधारशिलामादाय कुन्तकेन ‘वक्रोक्तिजीवित-नामको ग्रन्थो विनिर्मितः । अयमेवातिशयोक्तिं च वक्रोक्तिनाम्ना व्यवहरति, ताञ्च सर्वालङ्काराणां जीवनाधायकत्वं व्यवस्थापितवान् । तथा च स्पष्ट मेवोक्तिः -
सैषा सर्वत्र वक्रोक्तिरनयाऽर्थों विभाव्यते ।
यत्नोऽस्यां कविना कार्यः कोऽलङ्कारोऽनया विना ।।
भामहसम्मत्या वक्रार्थप्रतिपादकशब्दानां प्रयोगो हि काव्यऽलङ्कारमुत्पादयति। तथा हि -
"वाचां वक्रार्थशब्दोक्तिरलङ्काराय कल्पते"[2] हेतोरलङ्कारानङ्गीकारे वक्रोक्तिशून्यत्वमेव कारणं वर्त्तते। लोचनकारेणाऽपि भामहमुद्धृत्य स्पष्टमेवोक्तं लोचने - शब्दस्य हि वक्रता अभिधेयस्य च वक्रता लोकोत्तीर्णेन रूपेणावस्थानम्। दण्डिना तु वक्रोक्तिस्वभावोक्तिरूपाभ्यां वाङ्मयस्य द्वैविध्यं प्रदर्शितम्। तथा हि -
श्लेषः सर्वासु पुष्णाति प्रायो वक्त्रोक्तिषु श्रियम्।
भिन्नं द्विधा समासोक्तिर्वक्रोक्तिश्चेति वाङ्मयम्।।[3]
दण्डिनः सूत्रमादाय एव वामनः अग्रे वृद्धिं प्राप्नोति इति केचति् वदन्ति। प्रायो भामहादर्वाचीनाः सर्वे अपि आलङ्कारिकाः वक्रोक्तिं समाद्रियन्ते।