From Wikipedia, the free encyclopedia
श्री श्री रविशङ्करः (Sri Sri Ravishankar) (तमिळ: ஸ்ரீ ஸ்ரீ ரவி ஷங்கர்) (जार्जियन: ಶ್ರೀ ಶ್ರೀ ರವಿಶಂಕರಗುರುಃ) ಶ್ರೀ ಶ್ರೀ ರವಿಶಂಕರಗುರುಃकश्चित् सनातनधर्मगुरुः । क्रि.श. १९५६तमे वर्षे तमिळुनाडुप्रदेशे अजायत । भारतस्य अध्यात्मगुरोः अस्य प्रथमः आचार्यः महर्षिः महेशयोगी । [1]अस्य मूलं नाम रविशङ्कररत्नम् । आर्ट् आफ् लिविङ्ग् प्रतिष्ठानस्य संस्थापकः (क्रि.श.१९८२) अस्ति। एतत् प्रतिष्ठानं वैयक्तिकजीवनस्य क्लेशानां, सामाजिकसमस्यानां, हिंसाचारादीनां च शमनाय उद्दिष्टम् अस्ति । अपि च विश्वसंस्थायाः शैक्षणिकवैज्ञानिकसांस्कृतिकायोगस्य (UNESCO) सूचनास्थानमानेन विद्यमाना सर्वकारेतरसंस्था (NGO) अस्ति । सरलतया श्री श्री इति गौरवसूचकपदेन अथवा गुरुजी, गुरुदेव इति वा अनुयायिनः एतं सम्बोधयन्ति ।[2] एषः क्रि.श. १९९७तमे वर्षे जिनिवामूलस्य इण्टर्न्याषनल् संस्था फार् ह्यूमन् व्याल्यूस् इति धर्मदत्तिसंस्थाम् आरब्धवान् । एषा अपि असर्वकारीयसंस्था (NGO) परिहारकार्ये, ग्रामीणाभिवृद्धिकार्ये च निरता अस्ति ।
श्री श्री रविशङ्करः । | |
---|---|
ಶ್ರೀ ಶ್ರೀ ರವಿಶಂಕರಗುರುಃ | |
जन्मतिथिः | क्रि.श. १९५६तमवर्षस्य मे मासस्य १३दिनाङ्कः । |
जन्मस्थानम् | तमिळुनाडुराज्यम्, भारतम् |
पूर्वाश्रमनाम | रवि रत्नम् । |
तत्त्वचिन्तनम् | अध्यात्म |
क्रि.श. १९५६तमे वर्षे रविशङ्करस्य पिता आर्.एस्.वेङ्कटरत्नं वाहनोद्यमे निरतः आसीत् ।[3] ग्रामीणमहिलानां सबलीकरणसंस्थायाः निदेशकः भारतीयभाषाणां विद्वान् चासीत् । रविशङ्करस्य माता विशालाक्षी रत्नम् । एतस्य बाल्यनाम रवि इति रविवासरे जातः इति अङ्कितम् । आदिशङ्कराचार्यस्य जन्मतिथौ (वैशाखशुद्धपञ्चम्याम्) जातः इति शङ्करः इति अपि नाम योजितम् । अतः रविशङ्करः इति अभवत् । [2][4] बेङ्गळूरुविश्वविद्यालयस्य सेण्ट् जोसेफ् महाविद्यालयतः स्वस्य २१तमे वयसि विज्ञानपदवीम् अवाप्नोत् । स्नातकपदव्याः पश्चात् वेदविज्ञानस्य विषये उपन्यस्तुं, वेदविज्ञानस्य च सम्मेलनं व्यवस्थापयितुम् आयुर्वेदकेन्द्राणि स्थापयितुं च आह्वानम् अङ्गीकृत्य महर्षिणा महेशयोगिना सह प्रवासम् अकरोत् ।[5] एतं पूर्वं पण्डितः रविशङ्करः (अथवा पण्डितजी) इति सम्बोधयन्ति स्म । किन्तु पण्डितः रविशङ्करः इति प्रसिद्ध सितार् वादकः अस्तीति क्रि.श. १९९०तमे वर्षे श्री श्री रविशङ्करः इति सम्बोधनं परिवर्तितम् ।[2]क्रि.श. १९८०तमे दशके रविशङ्करः आध्यात्मिकतायाः प्रयोगिकप्रणालीं विश्वे बहुत्र आयोजितवान् । सुदर्शनक्रियानामिकां विशिष्टां क्रमबद्धस्य श्वासोच्छ्वासस्य अभ्यासपद्धतिम् आविष्कृतवान् [3] प्रत्येकं भावः अपि श्वासोच्छ्वासस्य गतिना सम्बद्धः भवति । श्वासः सक्रमः भवति चेत् शरीरस्य मनसः च सङ्कष्टस्य शमनं भवति इति रविशङ्करः वदति ।[6] अस्य प्रोत्साहनेन अस्य पिता अन्यैः बेङ्गळूरुनगरप्रमुखैः सह मिलित्वा वेदविज्ञानमहाविद्यापीठम् इति संस्थाम् आरब्धवान् । अस्याः संस्थायाः आश्रयेण ग्रामीणभागस्य शिक्षावञ्चितबालानां विद्यालयः एकः आरब्धः । एषा शाला इदानी २०००छात्रेभ्यः विद्यादानं कुर्वती अस्ति ।[7]क्रि.श. १९८३तमे वर्षे प्रथमवारं रविशङ्करः युरोप् देशस्य स्विट्झर्ल्याण्ड् नगरे सर्वप्रथमं जीवनकलाप्रणालीं समचालयत् । क्रि.श. १९८६तमे वर्षे अमेरिकादेशस्य क्यालिफोर्नियायाः एपल् व्यालिमध्ये एतत् चालितवान् ।[8]
रविशङ्करः वदति आध्यात्मं मनुष्ये प्रीतिं करुणाम् उत्साहं जीवनमौल्यानि च वर्धयति । एतत् कस्यचिदपि एकस्य मतस्य धर्मस्य वा परिमितौ न विद्यते । एतत् विश्वधर्मस्य हृदयभागः अस्ति । अतः एतत् सर्वजनेभ्यः मुक्तम् अस्ति।[9] श्वासः अस्माकं देहमनसोः मध्ये विद्यमानः अनुबन्धः इति रविशङ्करस्य प्रतिपादनम् । अतः मनसः शान्त्यै साधनं ध्यानं परोपकारः च इति अस्य वादः । विज्ञानम् अध्यात्मं च परस्परं सम्बद्धम् । मनसः विबाधानिवारणं हिंसामुक्तजगतः निर्माणम् एव अस्य परमं लक्ष्यम् अस्ति । [10]
क्रि.श.१९९०तमे काले जीवनकलासंस्थायाः अन्यराष्ट्रियसंस्थायाः चाश्रयेण नैकानि मानवहितकारिकार्याणि आरब्धानि । तानि अद्यापि अनुवर्तन्ते । क्रि.श. १९९२तमे वर्षे कारागारेषु बद्धानां पुनश्चेतनेन प्रधानवाहिन्याम् आनेतुं तत्र अनेकाः कार्यक्रमाः कृताः । [11]क्रि.श. १९३७तमे वर्षे मानवमौल्यानाम् अन्ताराष्ट्रियसंस्था इति मानवहितकारी सङ्घः आरब्धः । तस्य 5Hकार्यक्रमेण ग्रामीणप्रदेशेषु सुस्थिराभिवृद्धिः, मानवीयमौल्यपुनश्चेतनं च लक्षितम् ।[12]न्यूयार्क नगरस्य विश्ववाणिज्यकेन्द्रस्य उदर्के क्रि.श.२००१तमे वर्षे सम्भूते भयोत्पादकाक्रमणावसरे सञ्जातजनमानसविबाधानिवारणार्थं [6]एतत् प्रतिष्ठानं कोसोवो युद्धपीडितस्य प्रदेशे परिहारकार्याणि, आरोग्यसंरक्षणकार्याणि च अकरोत् । क्रि.श. २००३तमे वर्षे आक्रान्ते इराक् देशे कार्यनिरतः भूत्वा जनमानसस्य विबाधां शमयितुं प्रयत्नम् अकरोत् । [13] अफगानिस्ताने क्रि.श. २००३तः २००६पर्यन्तम् एतादृशानि एव परिहारकार्याणि अकरोत् । क्रि.श. २००७ श्री श्री रविशङ्करः प्रधानमन्त्रिणः नौरि अल् मौलिकि इत्यस्य निमन्त्रणम् अङ्गीकृत्य इराक् प्रवासं कृत्वा सुन्नि शिया कुर्दि नायकानां सन्दर्शनं कृतवान् ।[14]एषः क्रि.श.२००४तमे वर्षे पाकिस्तानस्य प्रवासं कृत्वा जागतिकशान्तिप्रेरणां कर्तुं कांश्चन मतीयनायकान् सन्दृष्टवान् ।[15]बहवः कार्यकर्तारः क्रि.श. २००४ तमे वर्षे हिन्दुमहासागरस्य भूकम्पन सुनामी जञ्झावातस्य सन्त्रस्तानां सहायार्थं कार्याणि कृतवान् । SMART इति परिचितस्य कारागृहस्य बन्धिनां मानसविबाधापरिहारार्थं कार्यक्रमान् योजितवान् । रविशङ्करः अन्तर्मतीयकसंवादेषु अपि आसक्तः अस्ति । प्रस्तुतम् एलिजा अन्तर्मतीयसंस्थायाः विश्वमतनायकसमितौ रविशङ्करः स्थानं प्राप्तवान् ।[16]
सुदर्शनक्रिया श्वसोच्छ्वासाधृतं तन्त्रम् । [17] Art of living प्रणाल्याः मुख्यभागः प्रतिष्ठानस्य आघातपरिहारकार्यक्रमस्य मूलशिला भवति ।[17] अस्य केषुचित् उपन्यासेषु सुदर्शनक्रियां लयबद्धा श्वासक्रिया दैहिकमनसिकभावनात्मकस्तरान् परिशोधयति समरसं करोति च इति वर्णितवान् । [18]अस्य तन्त्रस्य विषये नैकानि वैद्यकीयाध्ययननि तज्ञानां विमर्शाः वृत्तपत्रिकासु प्रकाशिताः । मानसिकविबाधायाः शमनम्, आरोग्यरक्षणम्, उद्वेगनियन्त्रणं, मनःखिन्नतापरिहारः इत्यादयः साध्याः इति निर्णिताः । [19]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.