![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/d/de/Bhima_drinks_blood.jpg/640px-Bhima_drinks_blood.jpg&w=640&q=50)
भीमः
From Wikipedia, the free encyclopedia
अयं भीमः पञ्चपाण्डवेषु अन्यतमः । कुन्तिपाण्डुमहाराजयोः द्वितीयः पुत्रः । वायुदेवस्य वरप्रसादकारणात् अस्य जन्म अभवत् । युधिष्ठिरः अस्य भीमस्य अग्रजः, अर्जुनः अनुजः । नकुलः सहदेवः च भीमस्य विमातुः पुत्रौ । महाभारतस्य अत्यन्तं प्रमुखपात्रेषु अन्यतमम् अस्ति भीमस्य पात्रम् । पाञ्चाली हिडिम्बा च भीमस्य पत्न्यौ । घटोत्कचः भीमहिडिम्बयोः पुत्रः ।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/d/de/Bhima_drinks_blood.jpg/320px-Bhima_drinks_blood.jpg)