भारविः
From Wikipedia, the free encyclopedia
भारविः कौशिकगोत्रोत्पन्नस्य नारायणस्वामिनः पुत्रः । भारवेः पूर्वजाः पूर्वम् उत्तरपश्चिमभारतान्तर्गतम् आनन्दपुरं नाम नगरमध्यवात्सुः परतश्च ते नासिकनामकं दक्षिणभारतनग्रमायाताः । एकदा स्वसमसामयिकेन राजकुमारेण विष्णुवर्धनेन समं मृगयायां घोरं काननमुपेतो भारविः मांसं सिषेवे, यत्पापानोदनाय स तीर्थानि बभ्राम । तदीयं काव्यं श्रुत्वा काञ्चीनृपः सिंहविष्णुस्तमात्मराजधानीमानाययत् । सिंहविष्णुतनयेन राजकुमारमहेन्द्रविक्रमेण स तत्र सानन्दमुवास । तस्य पुत्रो मनोरथनामाऽऽसीत् । तस्य प्रपौत्रः दण्डी बभूव । इयं कथाऽवन्तिसुन्दरीकथायां लिखिता । भारवेरेव नामान्तरं दामोदर इत्यथवा दामोदरभारवी भिन्नौ पुरुषावितिसन्देहो दुरपासः ।