From Wikipedia, the free encyclopedia
सिन्धुसभ्यताचित्राणि प्रायः सर्वानपि आश्चर्यचकितान् कुर्वन्ति एव । तत्रत्या वास्तुविद्या अतिप्राचीना अत्युत्कृष्टा च । कर्णाटके बेलूरे विद्यमानः भूमिस्पर्शरहितः स्तम्भः, कोणार्कक्षेत्रस्य सूर्यदेवालयः शृङ्गेरिस्तम्भाः, अनन्तपुरीस्थाः सप्तस्वरप्रभवाः मण्डपाधाराः स्तम्भाः, अजन्ता-एल्लोरागुहाः देहलीस्थः विष्णुस्तम्भः इत्यादयः अनेके अंशाः भारतीयवास्तुविद्यायाः गरिमाणं प्रमाणीकुर्वन्ति । मयमतं, मयसारः, मनुष्यालयचन्द्रिका, सुप्रभेदागमः, वास्तुरत्नावली, कामिकागमः, बृहद्वास्तुमाला इत्यदिषु अनेकेषु ग्रन्थेषु वास्तुशास्त्रं निरुपितम् अस्ति ॥
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.