नैषधीयचरितम्
From Wikipedia, the free encyclopedia
महाकविना श्रीहर्षेण नैषधीयचरितमहाकाव्ये नलदमयन्त्याः स्नेहकथायाः चित्ताकर्षकं वर्णनं द्वाविंशतिसर्गेषु समाहितम् । सौन्दर्यातिशयसमन्विता विदर्भराजतनया भैमी नैषधीयचरितमहाकाव्यस्य प्रधानभूता नायिका विद्यते । तस्यामादर्शनायिकायाः सर्वे गुणाः समाविष्टाः सन्ति । समासेन तान् गुणानाधारीकृत्य वयमत्र किञ्चिद्विचारयामः । अनन्यसुन्दरी – कुण्डिनपुर्या अधिपतेः भूपतेः भीमसेनस्यात्मजा दमयन्ती त्रिलोकललनाललामभूता अतीव कमनीया वर्तते । तस्याः कमनीयकमवेक्ष्य त्रिभुवने को नाम जनः मुग्धो न भवति । चन्द्रमसः सारभागं समाकृष्य दमयन्त्याः सौन्दर्यातिशयविनिर्माणं वेधसा विहितामित्येवंरुपेण कल्पते महाकविः श्रीहर्षः । यथा –
- हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा ।
- कृतमध्यविलं विलोक्यते धृतगम्भीरखनीखनीलिमा ॥
एवं भैम्याः विभिन्नाङ्गानां सैन्दर्यातिशयस्य वर्णनं विदधन् तस्याः कुचद्वयस्य समुपवर्णनं कियच्चित्ताकर्षकमित्यत्र सचेतस एव प्रमाणम् । निदर्शनार्थं यथा ।
- अपि तद्वपुषि प्रसर्पतोर्गमिते कान्तिझरैरगाधताम् ।'
- स्मरयौवनयोः खलु द्वयोः प्लवकुम्भौ भवतः कुचावुभौ ।।
अन्यच्च –
- कलशे निजहेतुदण्डजः किमु अक्रभ्रमकारितागुणः ।
- स तदुच्चकुचौ भवन्प्रभाझरचक्रभ्रममातनोति यत् ॥
उच्चकुलप्रसूता – त्रिभुवनललनाललामभूता भैमी महोच्चकुले सञाता विद्यते । तस्यां विनयशीलतायाः धैर्यस्य, गाम्भीर्यस्य चादुभुतं सम्मिश्रणं दृश्यते । त्रपा तस्याः मण्डनं, धैर्यं धनं, शालीनता च प्रयसीरिवासीत् ।
अनुरागवती – त्रिभुवनाऽङ्गनाऽऽदर्शभूता भैमीरियं स्वपितुरन्तिके वन्दीजनैः नरपतेः नलस्य कीर्तिगानं श्रावं श्रावं राज्ञि नलेऽनुरक्ता सञ्जाता । हिरण्मयो हंसः यदा दमयन्त्या उपवने समुपेत्य तस्या अन्तिके नैषधस्य गुणगानं विधाय भौम्याः हृदगताशयं वेदितुमभिलषति, तदा त्रिपान्विता भैमी शालीनतायाः परां कोटिं सन्दर्शयति ब्रूते –
- मनस्तु यं नोज्झ्ति जातु यातु मनोरथः कण्ठपथं कथं सः ?
- का नाम बाला द्विजराजपाणिग्रहाऽभिलाषं कथयेदभिज्ञा ?
अन्यच्च –
- इतीरिता पत्ररथेन तेन ह्रीणा च हृष्टा च बभाण भैमी ।
- चेतो नलङ्कामयते मदीयं नाऽन्यत्र कुत्राऽपि च साऽभिलाषम् ॥
इदमस्ति किञ्चन महाकाव्यम् । अस्य लेखकः अस्ति श्रीहर्षः । संस्कृतसाहित्ये पञ्च महाकाव्यानि इति यानि प्रसिद्धानि सन्ति तेषु अन्यतममस्ति इदं महाकाव्यम् ।