चैत्रमासः
From Wikipedia, the free encyclopedia
भारतीयकालमाने वर्षस्य प्रथमः मासः चैत्रमासः (मराठी - चैत्र, हिन्दी - चैत्र, बेङ्गाली - চৈত্র , अस्सामी - চ'ত, कन्नड - ಚೈತ್ರ, तेलुगु - చైత్రము, तमिळु - சித்திரை, मलयालम् - ചൈത്രം) । वसन्त्रतौ अयं मासः अन्तर्गगच्छति । अतीव रम्यकालः एषः ।
भारतीयसांस्कृतिकदिनदर्शिकायां चैत्रमासः भवति वर्षस्य प्रथमः मासः । नेपालीदिनदर्शिकायाम् अयं भवति वर्षस्य अन्तिमः मासः यत्र बैसाखमासः प्रथमः । ग्रेगोरियन्-दिनदर्शिकायाम् अयं चैत्रमासः मार्च्-एप्रिल्मासयोः कदाचित् आरभ्यते । सौरमानपद्धतेः चान्द्रमानपद्धतेः अनुसारम् इदं निश्चितं भवति ।
अयं वङ्गीयदिनदर्शिकायाम् अन्तिमः मासः । मार्च्-मासस्य मध्यभागे इदम् आरप्स्यते । तमिळुदिनदर्शिकायाम् अयं मासः एप्रिल्-मासस्य मध्यभागे आरप्स्यते ।
वैष्णवदिनदर्शिकायां विष्णुः अस्य मासस्य अधिपः अस्ति ।