चित्रदुर्गं (Chitradurga) कर्णाटकस्य चित्रदुर्गमण्डलस्य केन्द्रम् अस्ति । चित्रदुर्गम् ऐतिहासिकमहत्त्वम् आप्नोति । त्यागे, शौर्ये, परम्परायां च एतत् प्रसिद्धिम् आप्नोत् । अत्र विद्यमानः सप्तावर्तं दुर्गं पर्यटकान् आकर्षति । विजयनगरसाम्राज्यस्य काले तिम्मण्णनायकः इति सेनापतिः आसीत् । तस्य शौर्यपराक्रमं च प्रशंस्य राजा तस्मै एतत् स्थानं पारितोषिकरूपेण प्रदत्तवान् । तिम्मण्णनायकस्य पुत्रः ओबण्णः अथवा मदकरिनायकः । तस्य पुत्रः कस्तूरीरङ्गप्पः । अस्य काले प्रदेशः शान्तः समृद्धः चासीत् । इसिल इति प्रदेशः चित्रदुर्गस्य ईशान्यप्रान्ते ब्रह्मगिरेः समीपे अस्ति । चक्रवर्तिनः अशोकस्य काले एतत् स्थलम् अस्य राज्यस्य राजधानी आसीत् । तस्य काले निर्मितः चैत्यालयः इदानीमपि अत्र दृश्यते । आशोकस्य शिलाशासनमपि अत्र प्राप्तम् ।
वीथिका
- गालिमण्डपम्
- नन्दी
- दुर्गः
- सरसः दृश्यम्
- दुर्गस्य अन्तर्दर्शनम्
- दुर्गस्य अन्यद् दृश्यम्
- गोपुरम्
- दुर्गस्य अन्तः विद्यमानाः देवालयाः
- शिलास्तम्भाः
- सम्पिगेसिद्धलिङ्गेश्वरदेवालयःSampige Siddalingeshwara Temple
बाह्यसम्पर्कतन्तुः
- Official Website Archived २०१९-०३-१५ at the Wayback Machine
Wikiwand in your browser!
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.