![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/d/d5/Karnataka_Chikmagalur_locator_map.svg/langsa-640px-Karnataka_Chikmagalur_locator_map.svg.png&w=640&q=50)
चिक्कमगळूरुमण्डलम्
From Wikipedia, the free encyclopedia
चिक्कमगळूरुमण्डलं (Chikkamagaluru district) कर्णाटकराज्ये विद्यमानं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति चिक्कमगळूरु नगरम् । 'काफी'पेयस्य उगमस्थानमस्ति इदम् । पश्चिमघट्टे अन्तर्भूताः चिक्कमगळूरुनगरस्थाः पर्वताः एव तुङ्गानद्याः भद्रानद्याः उगमस्थानायन्ते । कर्णाटकस्य अत्युन्नतगिरिः मुळ्ळय्यनगिरिः अस्मिन् मण्डले एव विद्यते । केम्मण्णुगुण्डि, कुद्रेमुखपर्वतप्रदेशाः, माणिक्यधारा, हेब्बे, कळ्ळतिगिरिजलपाताः, शृङ्गेरी , होरनाडु इत्यादीनि पुण्यक्षेत्राणि च अस्मिन् मण्डले एव सन्ति । अमृतपुरस्य होय्सळदेवालयः अत्रत्यं सम्पद्भरितम् इतिहासं प्रकाशयति । अरण्यजीवनस्य दिदृक्षवः अत्रत्यं कुदुरेमुखराष्ट्रियोद्यानं, भद्रा-अरण्यसंरक्षणकेन्द्रं च द्रष्टुम् अर्हन्ति ।
त्वरिततथ्यानि चिक्कमगळूरुमण्डलम् ಚಿಕ್ಕಮಗಳೂರು ತಾಲೂಕು, राष्ट्रम् ...
चिक्कमगळूरुमण्डलम् ಚಿಕ್ಕಮಗಳೂರು ತಾಲೂಕು | |
---|---|
मण्डलम् | |
![]() | |
राष्ट्रम् |
![]() |
राज्यम् | कर्णाटकराज्यम् |
केन्द्रम् | चिक्कमगळूऱू |
उपमण्डलानि | चिक्कमगळूरु,कडूरु, तरिकेरे, मूडिगेरे, शृङ्गेरी, कोप्प, नरसिंहराजपुरम्, |
Area | |
• Total | ७,२०१ km२ |
Population (2001) | |
• Total | ११,३९,१०४ |
• Density | १५८.१९/km२ |
भाषाः | |
• अधिकृत | कन्नडभाषा |
Time zone | UTC+5:30 (भारतीयसामान्यकालमानम्) |
Vehicle registration | KA- 18 |
Website | chickmagalur.nic.in |
पिदधातु