From Wikipedia, the free encyclopedia
गडचिरोलीमण्डलं(मराठी: गडचिरोली जिल्हा, आङ्ग्ल: Gadchiroli district) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं गडचिरोली इत्येतन्नगरम् । गडचिरोलीमण्डलं निबिडारण्येन व्यापृतम्, वनवासिबहुसङ्ख्यं च अस्ति । वेणु(bamboo)वृक्षाणां, 'तेन्दू'पर्णानां प्राचुर्यात् प्रसिद्धमिदम् । सद्यः 'नक्षलवाद'प्रभावितक्षेत्रम् इत्यपि अस्य मण्डलस्य कुप्रसिद्धिः जाता ।
गडचिरोलीमण्डलम् Gadchiroli District गडचिरोली जिल्हा | |
---|---|
मण्डलम् | |
महाराष्ट्रराज्ये गडचिरोलीमण्डलम् | |
देशः | India |
मण्डलम् | गडचिरोलीमण्डलम् |
उपमण्डलानि | चामोर्शी, अहेरी, आरमोरी, सिरोञ्चा, एटापल्ली, गडचिरोली, कोरची, कुरखेडा, धानोरा, देसाईगञ्ज(वडसा), भामरागड, मुलचेरा |
विस्तारः | १४,४१४ च.कि.मी. |
जनसङ्ख्या(२०११) | १०,७२,९४२ |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
Website | http://gadchiroli.nic.in |
गडचिरोलीमण्डलस्य विस्तारः १४,४१४ च.कि.मी.मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि छत्तीसगढराज्यं, पश्चिमदिशि चन्द्रपुरमण्डलम्, उत्तरदिग्विभागे गोन्दियामण्डलं, दक्षिणदिशि आन्ध्रप्रदेशराज्यम् अस्ति । गडचिरोलीमण्डलं महाराष्ट्रराज्यस्य ईशान्यभागे अस्ति । मण्डलेऽस्मिन् ७६% क्षेत्रम् अरण्यव्यापृतम् । अस्मिन् मण्डले १,७०४ मि.मी. मितः वार्षिकवृष्टिपातः भवति । अस्य मण्डलस्य मुख्यनदी गोदावरी नदी ।
गडचिरोलीमण्डलस्य स्थापना २६ 'अगस्त' १९८२ दिनाङ्के अभवत् । गडचिरोलीमण्डलं पूर्वं चन्द्रपुरमण्डले एव समाविष्टम् आसीत् । प्राचीनकाले अत्र क्रमेण राष्ट्रकूटराजानां, चालुक्यवंशीयराजानां, देवगिरिप्रान्तस्य यादवानां, 'गोण्ड'राजानां च साम्राज्यम् आसीत् । १३ तमे शतके 'खण्डक्या-बल्लाळ-शाह' इत्यनेन चन्द्रपुरमण्डलस्य स्थापना कृता । तदा एतत् मण्डलं चन्द्रपुरमण्डले आसीत् । अस्मिन्नेव 'गडचिरोली'-'सिरोञ्चा'- प्रमुखोपमण्डलम् । अत्र मराठाराजानाम् अपि आधिपत्यम् आसीत् । १९६० पर्यन्तं गडचिरोलीमण्डलं केन्द्रीयप्रशासनाधिपत्ये आसीत् । महाराष्ट्र्रराज्यस्थापनानन्तरम् इदं महाराष्ट्रे समाविष्टं जातम् ।
गडचिरोलीमण्डलस्य जनसङ्ख्या (२०११) १०,७२,९४२ अस्ति । अस्मिन् ५,४१,३२८ पुरुषाः ५,३१,६१४ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. मिते क्षेत्रे ७४ जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. ७४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १०.४६% आसीत् । अत्र पुं-स्त्री-अनुपातः १०००-९८२ अस्ति । अत्र साक्षरता ७४.३६% अस्ति । गडचिरोलीमण्डले वनवासिजनानां लोकसङ्ख्या ४,१५,३०६ अर्थात् ३८.१७% अस्ति ।
प्रशासनकारणेन अस्य मण्डलस्य षड्विभागाः कृताः, प्रत्येकस्मिन् विभागे उपमण्डलद्वयम् समाविष्टं च । ते षड्विभागाः - गडचिरोली, वडसा, अहेरी, चार्मोशी, एटापल्ली, कुरखेडा इति । मण्डलेऽस्मिन् ४६७ ग्रामप्रशासनानि सन्ति । मण्डलेऽस्मिन् त्रीणि विधानसभाक्षेत्राणि, एकं लोकसभाक्षेत्रं च अस्ति । मण्डले गडचिरोली-देसाईगञ्ज-नगरपालिके स्तः । अस्मिन् मण्डले द्वादश उपमण्डलानि सन्ति । तानि-
१ चामोर्शी
२ अहेरी
३ आरमोरी
४ सिरोञ्चा
५ एटापल्ली
६ गडचिरोली
७ कोरची
८ कुरखेडा
९ धानोरा
१० देसाईगञ्ज (वडसा)
११ भामरागड
१२ मुलचेरा
अस्य मण्डलस्य लोकसङ्ख्यां दृष्ट्वा ज्ञायते यत् अत्र वनवासिबहुसङ्ख्यानि उपमण्डलानि बहूनि वर्तन्ते इति । अतः अत्र विशिष्टा वनवासिसंस्कृतिः द्रष्टुम् शक्यते । 'गोण्ड', 'कोलाम', 'माडिया', 'परधान' इत्येताः अनुसूचितजनजातयः अत्र निवसन्ति । तेषां गोण्डी-माडियाभाषे स्तः । 'पेरसा पेन' इति तेषां दैवतनाम । एते जनाः शुभावसरेषु, सस्यसङ्ग्रहणावसरेषु च 'रेला' इति उत्सवम् आचरन्ति । 'ढोल' इति तेषां नृत्यम् । दसरा(दशहरा), दीपावलिः च तेषां प्रमुखोत्सवः ।
मण्डले निवसताम् इतरजनानां गणेशोत्सवः, दसरा, दीपावलिः, होलिका इत्यादयः प्रमुखोत्सवाः सन्ति । उत्सवदिनेषु 'नाटक-तमाशा' इत्यस्याः लोककलायाः आयोजनं भवति ।
गडचिरोलीमण्डलं वनवासिक्षेत्रम् अतः अत्र निवसन्तः जनानां विकासार्थं बहुसेवाकार्यं प्रचलति तेषु केचन -
१. 'सर्च-शोधग्राम' चातगाव, गडचिरोली : डा.अभयः बंग, डा. राणी बंग कार्यरतौ । एषा संस्था सामाजिकविकासक्षेत्रे तथा च आरोग्यक्षेत्रे वनवासिनां कल्याणार्थं कार्यरता ।
२. लोक बिरादरी प्रकल्पः, हेमलकसा, उपमण्डलं-भामरागड : डा.प्रकाशः आमटे वैद्यकीय-शैक्षणिक-सामाजिकक्षेत्रे कर्यरता संस्था ।
३. आम्ही आमच्या आरोग्यासाठी, कुरखेडा : डा.सतीश गोगुलवार सामाजिक-वैद्यकीय-साहाय्यार्थं एषा कार्यरता ।
४. लोक मंगल संस्था घोट, उपमण्डलं-चामोर्शी : डा. टी. वाल्केल सामाजिकक्षेत्रे कार्यरता संस्था ।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.