क्षेत्रफलम्
From Wikipedia, the free encyclopedia
क्षेत्रफलस्य मात्रकाणि दैर्घ्यस्य मात्रकेभ्य एव निस्सृतानि । आंग्लपद्धत्यां विस्तृतं च् तलं अर्थात् एकवर्गगजं तलं क्षेत्रफलस्य मात्रकमिति मतम् । किन्तु, प्रायशः एकवर्गफुटमेव क्षेत्रफलस्य मात्रकमिति मन्यते । इत्थमेव एकस्ण्टीमीटरपरिमितं दीर्घं एकसेण्टीमीटरविस्तृतं च तलं अर्थात् एकवर्गसेण्टीमीटरं तलं मीटरपध्दत्यां क्षेत्रफलस्य मात्रकं मन्यते । यदि चेत् एकसेण्टीमीटरं तलं मीटरपध्दत्यां क्षेत्रफलस्य मात्रकं मन्यते । यदि चेत् एकसेण्टीमीटरवर्गस्य प्रत्येकं बाहुम् दशसु तुल्यभागेषु विभज्य लघुवर्गाः क्रियन्ते तर्हि एकवर्गमिलीमीटरस्य १०×१० =१०० वर्गाः भविष्यन्ति ।
इत्थं साध्यते यत् ।
१ वर्गसेण्टीमीटरम् = १० X १०= १०० वर्गमिलीमीटाराणि ।
१ वर्गडेसीमीटरम् = १० × १० =१०० वर्गसेण्टीमीटराणि ।
१ वर्गमीटरम् = १० × १० = १०० वर्गडेसीमीटराणि ।
१ वर्गडेकामीटरम् = १० X १० = १०० वर्गमीटराणि ।
१ वर्गहेक्टोमीटरम् = १० X १० = १०० वर्गहेक्टोमीटराणि ।
आंग्लपध्दत्यां तु :- १ वर्गफुटम् = १२ × १२ = १४४ वर्गएञ्चानि ।
१ वर्गगजम् = ३×३ =९ वर्गफिटानि ।