कावेरीनदी
दक्षिणभारते एका नदी / From Wikipedia, the free encyclopedia
कावेरीनदी दक्षिणभारतस्य एका प्रमुखा नदी । एषा भारतस्य सप्तपुण्यतमनदिषु अन्यतमा अस्ति ।
कावेरी कर्णाटकस्य जीवनदी अस्ति । कोडगुमण्डले पश्चिमघट्टप्रदेशे तलकावेरी इति स्थाने उद्भवति । एषा नदी मैसूरुमण्डलतः तमिळ्नाडुराज्यं प्रति प्रवहति । ततः गङ्गासागरं प्रविशति । दक्षिणपूर्वदिशोः प्रवहन्त्याः एतस्याः मार्गः ७६५ किलोमीटर्मितः दीर्घः अस्ति । कावेरीजलानयनप्रदेशः २७, ७०० चतुरस्रकिलोमीटर्पर्यन्तं व्याप्तः । कावेर्याः उपनद्यः सन्ति शिंशा, हेमावती, अर्कावती, कपिला, कबिनी, लक्ष्मणतीर्थं, लोकपावनी च । कावेरीं "दक्षिणगङ्गा” इति नाम्ना अपि आह्वयन्ति । कावेर्यां स्नानेन सर्वपापानि नश्यन्ति इति भावना अस्ति । कोडगुजनाः कावेरीं स्वकुलदेवता इति भावयन्ति ।