![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/d/d3/Flag_of_Kazakhstan.svg/langsa-640px-Flag_of_Kazakhstan.svg.png&w=640&q=50)
कजाखस्थानम्
From Wikipedia, the free encyclopedia
कजाखस्थान मध्य-जम्बुद्वीपे विद्यमानः कश्चन यवनदेशः । जगति अयं नवमः बृहत्तमः देशः । अस्य विस्तारः अस्ति २,७२७,३०० चतुरस्र किलोमीटर्मितः । पौरात्ययुरोपदेशस्य अपेक्षया बृहत् वर्तते । अस्य प्रतिवेशिदेशाः उत्तरतः प्रदक्षिणाकारेण एवं वर्तन्ते - रषिया, चीना, किर्गिस्थान्, उझ्बेकिस्थान्, तर्क्मेनिस्थान् च । अस्मात् देशात् ३८ कि मी मिते दूरे एव मङ्गोलियादेशस्य पूर्वबिन्दुः विद्यते । १६६००००० जनसङ्ख्यायुक्तः अयं देशः जगति ६२ तमे स्थाने विद्यते जनसङ्ख्यानुगुणम् । १९९८ तमे वर्षे अस्य राजधानी अल्मटितः बृहत्तमं नगरम् अस्टनं प्रति परिवर्तिता जाता ।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/d/d3/Flag_of_Kazakhstan.svg/640px-Flag_of_Kazakhstan.svg.png)
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/3/3e/Kazakhstan_%28orthographic_projection%29.svg/320px-Kazakhstan_%28orthographic_projection%29.svg.png)
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/0/0c/Kazakhstan-CIA_WFB_Map.png/320px-Kazakhstan-CIA_WFB_Map.png)
इतिहासे अस्मिन् देशे अधिकांशाः सञ्चरणशीलाः वनवासिनः एव निवसन्ति स्म । १६ शतके कझक्जनाः विशिष्टसमूहत्वेन अभिज्ञाताः । १८ शतके रशियन्-जनाः इमं प्रदेशम् आक्रान्तुम् आरब्धवन्तः । १९ शतके सम्पूर्णः कझकस्थानं रशियन्साम्राज्यस्य भागः जातः आसीत् । १९१७ तमे वर्षे जाते रशियन्-क्रान्तेः अनन्तरम् अयं प्रदेशः कझक् सोवियत् सोशियलिस्त् रिपब्लिक् नाम्ना यु एस् एस् आर्-भागत्वेन परिगणितः ।
१९९१ तमस्य वर्षस्य डिसेम्बर्मासस्य १६ दिनाङ्के कझकस्थान् स्वतन्त्रदेशत्वेन उद्घोषितः । नर्सुल्तान् नझर्वयेव् अस्य देशस्य प्रथमः अध्यक्षः जातः । देशस्य राजनैतिकीं स्थितिं सम्पूर्णतया निगृह्णाति अयम् अध्यक्षः । स्वातन्त्र्यस्य प्राप्तेः अनन्तरं देशस्य आर्थिकस्थितेः वर्धनाय परिश्रमः क्रियमाणः अस्ति । विदेशीयव्यवहारेषु अपि प्रगतिः दृश्यते । अयं देशः विभिन्नासंस्कृतैः युक्तः अस्ति । ६३% जनाः कझक्जनाः विद्यन्ते । ७०% जनाः इस्लामधर्मस्य अनुयायिनः । अवशिष्टेषु अधिकांशाः क्रिस्तमतावलम्बिनः । कझक्भाषा एव देशस्य भाषा । कार्यालयेषु रशियन्भाषा अपि उपयुज्यते ।