एला
From Wikipedia, the free encyclopedia
इयम् एला भारते अपि वर्धमानः कश्चन सस्यविशेषः । एला अपि सस्यजन्यः आहारपदार्थः । इयम् एला आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । एषा एला आङ्ग्लभाषायां Cardamom इति उच्यते । एषा एला वाणिज्यसस्यम् अपि । काफीवाटिकायाम् उपफलोदयरूपेण एलायाः वर्धनं क्रियते । एलासस्यं गुल्मवर्गस्य वृक्षकः भवति । अयं वृक्षकः आहाराणां गन्धस्य रुचेः च वर्धनार्थम् आवश्यकानि फलानि उत्पादयति । भारतीयपाकशालासु सर्वत्र एला भवति एव प्रायः । सर्वत्र अपि एला मधुरभक्ष्याणां निर्माणे अधिकतया उपयुज्यते । तद्विना वमनस्य निरोधकरूपेण, पित्तशामकरूपेण अपि एला उपयुज्यते ।
त्वरिततथ्यानि Cardamom, जैविकवर्गीकरणम् ...
पिदधातु
प्रसिद्धेषु उपकरद्वव्येषु अन्यतमः एला । जलप्रदेशे अयं सम्यक् वर्धते । अस्य रुचिः कटुमिश्रितमधुरः ।